View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, commonly used for Nepali language.

श्री बगलामुखी कवचं

कैलासाचलमध्यगं पुरवहं शांतं त्रिनेत्रं शिवं
वामस्था कवचं प्रणम्य गिरिजा भूतिप्रदं पृच्छति ।
देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्चापविमुक्त मंत्रसहितं प्रीत्याऽधुना ब्रूहि माम् ॥ 1 ॥

श्रीशंकर उवाच ।
देवी श्रीभववल्लभे शृणु महामंत्रं विभूतिप्रदं
देव्या वर्मयुतं समस्तसुखदं साम्राज्यदं मुक्तिदम् ।
तारं रुद्रवधूं विरिंचिमहिला विष्णुप्रिया कामयु-
-क्कांते श्रीबगलानने मम रिपून्नाशाय युग्मंत्विति ॥ 2 ॥

ऐश्वर्याणि पदं च देहि युगलं शीघ्रं मनोवांछितं
कार्यं साधय युग्मयुक्छिववधू वह्निप्रियांतो मनुः ।
कंसारेस्तनयं च बीजमपराशक्तिश्च वाणी तथा
कीलं श्रीमिति भैरवर्षिसहितं छंदो विराट् संयुतम् ॥ 3 ॥

स्वेष्टार्थस्य परस्य वेत्ति नितरां कार्यस्य संप्राप्तये
नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये ।
ध्यात्वा श्रीबगलाननामनुवरं जप्त्वा सहस्राख्यकं
दीर्घैः षट्कयुतैश्च रुद्रमहिलाबीजैर्विन्यास्यांगके ॥ 4 ॥

ध्यानम् ।
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं
हेमाभांगरुचिं शशांकमुकुटां स्रक्चंपकस्रग्युताम् ।
हस्तैर्मद्गरपाशबद्धरसनां संबिभ्रतीं भूषण-
-व्याप्तांगीं बगलामुखीं त्रिजगतां संस्तंभिनीं चिंतये ॥ 5 ॥

विनियोगः ।
ॐ अस्य श्रीबगलामुखी ब्रह्मास्त्रमंत्र कवचस्य भैरव ऋषिः विराट् छंदः श्रीबगलामुखी देवता क्लीं बीजं ऐं शक्तिः श्रीं कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ।

ऋष्यादिन्यासः ।
भैरव ऋषये नमः शिरसि ।
विराट् छंदसे नमः मुखे ।
श्री बगलामुखी देवतायै नमः हृदि ।
क्लीं बीजाय नमः गुह्ये ।
ऐं शक्तये नमः पादयोः ।
श्रीं कीलकाय नमः सर्वांगे ।

करन्यासः ।
ॐ ह्रां अंगुष्ठाभ्यां नमः ।
ॐ ह्रीं तर्जनीभ्यां नमः ।
ॐ ह्रूं मध्यमाभ्यां नमः ।
ॐ ह्रैं अनामिकाभ्यां नमः ।
ॐ ह्रौं कनिष्ठिकाभ्यां नमः ।
ॐ ह्रः करतलकरपृष्ठाभ्यां नमः ।

अंगन्यासः ।
ॐ ह्रां हृदयाय नमः ।
ॐ ह्रीं शिरसे स्वाहा ।
ॐ ह्रूं शिखायै वषट् ।
ॐ ह्रैं कवचाय हुम् ।
ॐ ह्रौं नेत्रत्रयाय वौषट् ।
ॐ ह्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ।

मंत्रोद्धारः ।
ॐ ह्रीं ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय नाशय ममैश्वर्याणि देहि देहि शीघ्रं मनोवांछितकार्यं साधयः साधयः ह्रीं स्वाहा ।

कवचम् ।
शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।
संबोधनपदं पातु नेत्रे श्रीबगलानने ॥ 1 ॥

श्रुतौ मम रिपुं पातु नासिकान्नाशय द्वयम् ।
पातु गंडौ सदा मामैश्वर्याण्यं तं तु मस्तकम् ॥ 2 ॥

देहि द्वंद्वं सदा जिह्वां पातु शीघ्रं वचो मम ।
कंठदेशं मनः पातु वांछितं बाहुमूलकम् ॥ 3 ॥

कार्यं साधय द्वंद्वंतु करौ पातु सदा मम ।
मायायुक्ता तथा स्वाहा हृदयं पातु सर्वदा ॥ 4 ॥

अष्टाधिकचत्वारिंशद्दंडाढ्या बगलामुखी ।
रक्षां करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥ 5 ॥

ब्रह्मास्त्राख्यो मनुः पातु सर्वांगे सर्वसंधिषु ।
मंत्रराजः सदा रक्षां करोतु मम सर्वदा ॥ 6 ॥

ॐ ह्रीं पातु नाभिदेशं कटिं मे बगलाऽवतु ।
मुखी वर्णद्वयं पातु लिंगं मे मुष्कयुग्मकम् ॥ 7 ॥

जानुनी सर्वदुष्टानां पातु मे वर्णपंचकम् ।
वाचं मुखं तथा पदं षड्वर्णा परमेश्वरी ॥ 8 ॥

जंघायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तंभयेति पदं पृष्ठं पातु वर्णत्रयं मम ॥ 9 ॥

जिह्वां वर्णद्वयं पातु गुल्फौ मे कीलयेति च ।
पादोर्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ 10 ॥

विनाशय पदं पातु पादांगुल्योर्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धींद्रियवचांसि मे ॥ 11 ॥

सर्वांगं प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ 12 ॥

माहेशी दक्षिणे पातु चामुंडा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ 13 ॥

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्ध्वं पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ 14 ॥

इत्यष्टौ शक्तयः पांतु सायुधाश्च सवाहनाः ।
राजद्वारे महादुर्गे पातु मां गणनायकः ॥ 15 ॥

श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥ 16 ॥

योगिन्यः सर्वदा पातु महारण्ये सदा मम ।
इति ते कथितं देवि कवचं परमाद्भुतम् ॥ 17 ॥

श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् ।
अपुत्रो लभते पुत्रं धीरं शूरं शतायुषम् ॥ 18 ॥

निर्धनो धनमाप्नोति कवचस्यास्य पाठतः ।
जपित्वा मंत्रराजं तु ध्यात्वा श्रीबगलामुखीम् ॥ 19 ॥

पठेदिदं हि कवचं निशायां नियमात्तु यः ।
यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥ 20 ॥

तत्तत्काममवाप्नोति सप्तरात्रेण शंकरी ।
गुरुं ध्यात्वा सुरां पीत्वा रात्रौ शक्तिसमन्वितः ॥ 21 ॥

कवचं यः पठेद्देवि तस्याऽसाध्यं न किंचन ।
यं ध्यात्वा प्रजपेन्मंत्रं सहस्रं कवचं पठेत् ॥ 22 ॥

त्रिरात्रेण वशं याति मृत्युं तं नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोः सतालेन हरिद्रया ॥ 23 ॥

लिखित्वा ह्यदि तं नाम तं ध्यात्वा प्रजपेन्मनुम् ।
एकविंशद्दिनं यावत्प्रत्यहं च सहस्रकम् ॥ 24 ॥

जप्त्वा पठेत्तु कवचं चतुर्विंशतिवारकम् ।
संस्तंभं जायते शत्रोर्नात्र कार्या विचारणा ॥ 25 ॥

विवादे विजयं तस्य संग्रामे जयमाप्नुयात् ।
श्मशाने च भयं नास्ति कवचस्य प्रभावतः ॥ 26 ॥

नवनीतं चाभिमंत्र्य स्त्रीणां दद्यान्महेश्वरि ।
वंध्यायां जायते पुत्रो विद्याबलसमन्वितः ॥ 27 ॥

श्मशानांगारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेल्लोहशलाकया ॥ 28 ॥

भूमौ शत्रोः स्वरूपं च हृदि नाम समालिखेत् ।
हस्तं तद्धृदये दत्वा कवचं तिथिवारकम् ॥ 29 ॥

ध्यात्वा जपेन्मंत्रराजं नवरात्रं प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥ 30 ॥

भूर्जपत्रेष्विदं स्तोत्रमष्टगंधेन संलिखेत् ।
धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥ 31 ॥

संग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृंतंति तं जनम् ॥ 32 ॥

संपूज्य कवचं नित्यं पूजायाः फलमालभेत् ।
बृहस्पतिसमो वापि विभवे धनदोपमः ॥ 33 ॥

कामतुल्यश्च नारीणां शत्रूणां च यमोपमः ।
कवितालहरी तस्य भवेद्गंगाप्रवाहवत् ॥ 34 ॥

गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः ।
एकादशशतं यावत्पुरश्चरणमुच्यते ॥ 35 ॥

पुरश्चर्याविहीनं तु न चेदं फलदायकम् ।
न देयं परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥ 36 ॥

देयं शिष्याय भक्ताय पंचत्वं चाऽन्यथाप्नुयात् ।
इदं कवचमज्ञात्वा भजेद्यो बगलामुखीम् ।
शतकोटि जपित्वा तु तस्य सिद्धिर्न जायते ॥ 37 ॥

दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिं परां
विद्यां श्रीविजयं तथा सुनियतं धीरं च वीरं वरम् ।
ब्रह्मास्त्राख्यमनुं विलिख्य नितरां भूर्जेष्टगंधेन वै
धृत्वा राजपुरं व्रजंति खलु ये दासोऽस्ति तेषां नृपः ॥ 38 ॥

इति विश्वसारोद्धारतंत्रे पार्वतीश्वरसंवादे बगलामुखीकवचं संपूर्णम् ।




Browse Related Categories: