View this in:
This stotram is in शुद्ध देवनागरी (Samskritam). View this in
सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
ईशावास्योपनिषद्
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ‖
ॐ शान्तिः शान्तिः शान्तिः ‖
ॐ ईशा वास्य'मिदग्ं सर्वं यत्किंच जग'त्वां जग'त् |
तेन' त्यक्तेन' भुञ्जीथा मा गृ'धः कस्य'स्विद्धनम्'' ‖ 1 ‖
कुर्वन्नेवेह कर्मा''णि जिजीविषेच्चतग्ं समा''ः |
एवं त्वयि नान्यथेतो''ऽस्ति न कर्म' लिप्यते' नरे'' ‖ 2 ‖
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृ'ताः |
तागंस्ते प्रेत्याभिग'च्छंति ये के चा''त्महनो जना''ः ‖ 3 ‖
अने''जदेकं मन'सो जवी''यो नैन'द्देवा आ''प्नुवन्पूर्वमर्ष'त् |
तद्धाव'तोऽन्यानत्ये''ति तिष्ठत्तस्मिन्''नपो मा''तरिश्वा'' दधाति ‖ 4 ‖
तदे''जति तन्नेज'ति तद्दूरे तद्वं'तिके |
तदन्तर'स्य सर्व'स्य तदु सर्व'स्यास्य बाह्यतः ‖ 5 ‖
यस्तु सर्वा''णि भूतान्यात्मन्येवानुपश्य'ति |
सर्वभूतेषु' चात्मानं ततो न विहु'गुप्सते ‖ 6 ‖
यस्मिन्सर्वा''णि भूतान्यात्मैवाभू''द्विजानतः |
तत्र को मोहः कः शोकः' एकत्वम'नुपश्य'तः ‖ 7 ‖
स पर्य'गाच्चुक्रम'कायम'प्रणम'स्नाविरग्ं शुद्धमपा''पविद्धम् |
कविर्म'नीषी प'रिभूः स्व'यम्भू-र्या''थातथ्यतोऽर्थान्
व्य'दधाच्छाश्वतीभ्यः समा''भ्यः ‖ 8 ‖
अन्धं तमः प्रवि'शंति येऽवि'द्यामुपास'ते |
ततो भूय' इव ते तमो य उ' विद्याया''ग्ं रताः ‖ 9 ‖
अन्यदेवायुरिद्ययाऽन्यदा''हुरवि'द्यया |
इति' शुशुम धीरा''णां ये नस्तद्वि'चचक्षिरे ‖ 10 ‖
विद्यां चावि'द्यां च यस्तद्वेदोभय'ग्ं सह |
अवि'द्यया मृत्युं तीर्त्वा विद्ययाऽमृत'मश्नुते ‖ 11 ‖
अन्धं तमः प्रवि'शंति येऽसम्''भूतिमुपास'ते |
ततो भूय' इव ते तमो य उ सम्भू''त्याग्ं रताः ‖ 12 ‖
अन्यदेवाहुः सम्''भवादन्यदा''हुरसम्''भवात् |
इति' शुश्रुम धीरा''णां ये नस्तद्वि'चचक्षिरे ‖ 13 ‖
सम्भू''तिं च विणाशं च यस्तद्वेदोभय'ग्ं सह |
विनाशेन' मृत्युं तीर्त्वा सम्भू''त्याऽमृत'मश्नुते ‖ 14 ‖
हिरण्मये''न पात्रे''ण सत्यस्यापि'हितं मुखम्'' |
तत्वं पू''षन्नपावृ'णु सत्यध''र्माय दृष्टये'' ‖ 15 ‖
पूष'न्नेकर्षे यम सूर्य प्राजा''पत्य व्यू''ह रश्मीन्
समू''ह तेजो यत्ते'' रूपं कल्या''णतमं तत्ते'' पश्यामि |
योऽसावसौ पुरु'षः सोऽहम'स्मि ‖ 16 ‖
वायुरनि'लममृतमथेदं भस्मा''न्तग्ं शरी'रम् |
ॐ 3 क्रतो स्मर' कृतग्ं स्म'र क्रतो स्मर' कृतग्ं स्म'र ‖ 17 ‖
अग्ने नय' सुपथा'' राये अस्मान् विश्वा'नि देव वयना'नि विद्वान् |
युयोध्यस्मज्जु'हुराणमेनो भूयि'ष्टां ते नम'उक्तिं विधेम ‖ 18 ‖
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते |
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ‖
ॐ शान्तिः शान्तिः शान्तिः ‖
Last Updated: 27 December, 2020