View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध देवनागरी (Samskritam). View this in सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

बाल मुकुन्दाष्टकम्

करारविन्देन पदारविन्दं मुखारविन्दे विनिवेशयन्तम् |
वटस्य पत्रस्य पुटे शयानं बालं मुकुन्दं मनसा स्मरामि ‖ 1 ‖

संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यन्तविहीनरूपम् |
सर्वेश्वरं सर्वहितावतारं बालं मुकुन्दं मनसा स्मरामि ‖ 2 ‖

इन्दीवरश्यामलकोमलाङ्गं इन्द्रादिदेवार्चितपादपद्मम् |
सन्तानकल्पद्रुममाश्रितानां बालं मुकुन्दं मनसा स्मरामि ‖ 3 ‖

लम्बालकं लम्बितहारयष्टिं शृङ्गारलीलाङ्कितदन्तपङ्क्तिम् |
बिम्बाधरं चारुविशालनेत्रं बालं मुकुन्दं मनसा स्मरामि ‖ 4 ‖

शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् |
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुन्दं मनसा स्मरामि ‖ 5 ‖

कलिन्दजान्तस्थितकालियस्य फणाग्ररङ्गेनटनप्रियन्तम् |
तत्पुच्छहस्तं शरदिन्दुवक्त्रं बालं मुकुन्दं मनसा स्मरामि ‖ 6 ‖

उलूखले बद्धमुदारशौर्यं उत्तुङ्गयुग्मार्जुन भङ्गलीलम् |
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुन्दं मनसा स्मरामि ‖ 7 ‖

आलोक्य मातुर्मुखमादरेण स्तन्यं पिबन्तं सरसीरुहाक्षम् |
सच्चिन्मयं देवमनन्तरूपं बालं मुकुन्दं मनसा स्मरामि ‖ 8 ‖