View this in:
This stotram is in सरल देवनागरी(हिंन्दी). View this in
शुद्ध देवनागरी (Samskritam), with appropriate anuswaras marked.
बाल मुकुंदाष्टकम्
करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् |
वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ‖ 1 ‖
संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यंतविहीनरूपम् |
सर्वेश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि ‖ 2 ‖
इंदीवरश्यामलकोमलांगं इंद्रादिदेवार्चितपादपद्मम् |
संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि ‖ 3 ‖
लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम् |
बिंबाधरं चारुविशालनेत्रं बालं मुकुंदं मनसा स्मरामि ‖ 4 ‖
शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् |
भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुंदं मनसा स्मरामि ‖ 5 ‖
कलिंदजांतस्थितकालियस्य फणाग्ररंगेनटनप्रियंतम् |
तत्पुच्छहस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि ‖ 6 ‖
उलूखले बद्धमुदारशौर्यं उत्तुंगयुग्मार्जुन भंगलीलम् |
उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुंदं मनसा स्मरामि ‖ 7 ‖
आलोक्य मातुर्मुखमादरेण स्तन्यं पिबंतं सरसीरुहाक्षम् |
सच्चिन्मयं देवमनंतरूपं बालं मुकुंदं मनसा स्मरामि ‖ 8 ‖