View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी (Devanagari) script, which is commonly used for Konkani language. You can also view this in ಕನ್ನಡ (Kannada) script, which is also sometimes used for Konkani language.

वाराही अष्टोत्तर शत नामावलि

ॐ वराहवदनायै नमः ।
ॐ वाराह्यै नमः ।
ॐ वररूपिण्यै नमः ।
ॐ क्रोडाननायै नमः ।
ॐ कोलमुख्यै नमः ।
ॐ जगदंबायै नमः ।
ॐ तारुण्यै नमः ।
ॐ विश्वेश्वर्यै नमः ।
ॐ शंखिन्यै नमः ।
ॐ चक्रिण्यै नमः । 10

ॐ खड्गशूलगदाहस्तायै नमः ।
ॐ मुसलधारिण्यै नमः ।
ॐ हलसकादि समायुक्तायै नमः ।
ॐ भक्तानां अभयप्रदायै नमः ।
ॐ इष्टार्थदायिन्यै नमः ।
ॐ घोरायै नमः ।
ॐ महाघोरायै नमः ।
ॐ महामायायै नमः ।
ॐ वार्ताल्यै नमः ।
ॐ जगदीश्वर्यै नमः । 20

ॐ अंधे अंधिन्यै नमः ।
ॐ रुंधे रुंधिन्यै नमः ।
ॐ जंभे जंभिन्यै नमः ।
ॐ मोहे मोहिन्यै नमः ।
ॐ स्तंभे स्तंभिन्यै नमः ।
ॐ देवेश्यै नमः ।
ॐ शत्रुनाशिन्यै नमः ।
ॐ अष्टभुजायै नमः ।
ॐ चतुर्हस्तायै नमः ।
ॐ उन्मत्तभैरवांकस्थायै नमः । 30

ॐ कपिललोचनायै नमः ।
ॐ पंचम्यै नमः ।
ॐ लोकेश्यै नमः ।
ॐ नीलमणिप्रभायै नमः ।
ॐ अंजनाद्रिप्रतीकाशायै नमः ।
ॐ सिंहारुढायै नमः ।
ॐ त्रिलोचनायै नमः ।
ॐ श्यामलायै नमः ।
ॐ परमायै नमः ।
ॐ ईशान्यै नमः । 40

ॐ नीलायै नमः ।
ॐ इंदीवरसन्निभायै नमः ।
ॐ घनस्तनसमोपेतायै नमः ।
ॐ कपिलायै नमः ।
ॐ कलात्मिकायै नमः ।
ॐ अंबिकायै नमः ।
ॐ जगद्धारिण्यै नमः ।
ॐ भक्तोपद्रवनाशिन्यै नमः ।
ॐ सगुणायै नमः ।
ॐ निष्कलायै नमः । 50

ॐ विद्यायै नमः ।
ॐ नित्यायै नमः ।
ॐ विश्ववशंकर्यै नमः ।
ॐ महारूपायै नमः ।
ॐ महेश्वर्यै नमः ।
ॐ महेंद्रितायै नमः ।
ॐ विश्वव्यापिन्यै नमः ।
ॐ देव्यै नमः ।
ॐ पशूनां अभयंकर्यै नमः ।
ॐ कालिकायै नमः । 60

ॐ भयदायै नमः ।
ॐ बलिमांसमहाप्रियायै नमः ।
ॐ जयभैरव्यै नमः ।
ॐ कृष्णांगायै नमः ।
ॐ परमेश्वरवल्लभायै नमः ।
ॐ सुधायै नमः ।
ॐ स्तुत्यै नमः ।
ॐ सुरेशान्यै नमः ।
ॐ ब्रह्मादिवरदायिन्यै नमः ।
ॐ स्वरूपिण्यै नमः । 70

ॐ सुराणां अभयप्रदायै नमः ।
ॐ वराहदेहसंभूतायै नमः ।
ॐ श्रोणी वारालसे नमः ।
ॐ क्रोधिन्यै नमः ।
ॐ नीलास्यायै नमः ।
ॐ शुभदायै नमः ।
ॐ अशुभवारिण्यै नमः ।
ॐ शत्रूणां वाक्‍स्तंभनकारिण्यै नमः ।
ॐ शत्रूणां गतिस्तंभनकारिण्यै नमः ।
ॐ शत्रूणां मतिस्तंभनकारिण्यै नमः । 80

ॐ शत्रूणां अक्षिस्तंभनकारिण्यै नमः ।
ॐ शत्रूणां मुखस्तंभिन्यै नमः ।
ॐ शत्रूणां जिह्वास्तंभिन्यै नमः ।
ॐ शत्रूणां निग्रहकारिण्यै नमः ।
ॐ शिष्टानुग्रहकारिण्यै नमः ।
ॐ सर्वशत्रुक्षयंकर्यै नमः ।
ॐ सर्वशत्रुसादनकारिण्यै नमः ।
ॐ सर्वशत्रुविद्वेषणकारिण्यै नमः ।
ॐ भैरवीप्रियायै नमः ।
ॐ मंत्रात्मिकायै नमः । 90

ॐ यंत्ररूपायै नमः ।
ॐ तंत्ररूपिण्यै नमः ।
ॐ पीठात्मिकायै नमः ।
ॐ देवदेव्यै नमः ।
ॐ श्रेयस्कर्यै नमः ।
ॐ चिंतितार्थप्रदायिन्यै नमः ।
ॐ भक्तालक्ष्मीविनाशिन्यै नमः ।
ॐ संपत्प्रदायै नमः ।
ॐ सौख्यकारिण्यै नमः ।
ॐ बाहुवाराह्यै नमः । 100

ॐ स्वप्नवाराह्यै नमः ।
ॐ भगवत्यै नमः ।
ॐ ईश्वर्यै नमः ।
ॐ सर्वाराध्यायै नमः ।
ॐ सर्वमयायै नमः ।
ॐ सर्वलोकात्मिकायै नमः ।
ॐ महिषासनायै नमः ।
ॐ बृहद्वाराह्यै नमः । 108

इति श्रीवाराह्यष्टोत्तरशतनामावलिः ।




Browse Related Categories: