View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |
This stotram is in शुद्ध देवनागरी (Samskritam). View this in सरल देवनागरी (हिंन्दी), with simplified anuswaras for easy reading.

अच्युताष्टकम्

अच्युतं केशवं रामनारायणं
कृष्णदामोदरं वासुदेवं हरिम् |
श्रीधरं माधवं गोपिका वल्लभं
जानकीनायकं रामचन्द्रं भजे ‖ 1 ‖

अच्युतं केशवं सत्यभामाधवं
माधवं श्रीधरं राधिका राधितम् |
इन्दिरामन्दिरं चेतसा सुन्दरं
देवकीनन्दनं नन्दजं सन्दधे ‖ 2 ‖

विष्णवे जिष्णवे शङ्कने चक्रिणे
रुक्मिणी राहिणे जानकी जानये |
वल्लवी वल्लभायार्चिता यात्मने
कंस विध्वंसिने वंशिने ते नमः ‖ 3 ‖

कृष्ण गोविन्द हे राम नारायण
श्रीपते वासुदेवाजित श्रीनिधे |
अच्युतानन्त हे माधवाधोक्षज
द्वारकानायक द्रौपदीरक्षक ‖ 4 ‖

राक्षस क्षोभितः सीतया शोभितो
दण्डकारण्यभू पुण्यताकारणः |
लक्ष्मणोनान्वितो वानरैः सेवितो
अगस्त्य सम्पूजितो राघवः पातु माम् ‖ 5 ‖

धेनुकारिष्टकाऽनिष्टिकृद्-द्वेषिहा
केशिहा कंसहृद्-वंशिकावादकः |
पूतनाकोपकः सूरजाखेलनो
बालहोपालकः पातु मां सर्वदा ‖ 6 ‖

बिद्युदुद्-योतवत्-प्रस्फुरद्-वाससं
प्रावृडम्-भोदवत्-प्रोल्लसद्-विग्रहम् |
वान्यया मालया शोभितोरः स्थलं
लोहिताङ्-घिद्वयं वारिजाक्षं भजे ‖ 7 ‖

कुञ्चितैः कुन्तलै भ्राजमानाननं
रत्नमौलिं लसत्-कुण्डलं गण्डयोः |
हारकेयूरकं कङ्कण प्रोज्ज्वलं
किङ्किणी मञ्जुलं श्यामलं तं भजे ‖ 8 ‖

अच्युतस्याष्टकं यः पठेदिष्टदं
प्रेमतः प्रत्यहं पूरुषः सस्पृहम् |
वृत्ततः सुन्दरं कर्तृ विश्वम्भरः
तस्य वश्यो हरि र्जायते सत्वरम् ‖