View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शिव षडक्षरी स्तोत्रम्

॥ॐ ॐ॥
ओङ्कारबिन्दु संयुक्तं नित्यं ध्यायन्ति योगिनः ।
कामदं मोक्षदं तस्मादोङ्काराय नमोनमः ॥ 1 ॥

॥ॐ नं॥
नमन्ति मुनयः सर्वे नमन्त्यप्सरसां गणाः ।
नराणामादिदेवाय नकाराय नमोनमः ॥ 2 ॥

॥ॐ मं॥
महातत्वं महादेव प्रियं ज्ञानप्रदं परम् ।
महापापहरं तस्मान्मकाराय नमोनमः ॥ 3 ॥

॥ॐ शिं॥
शिवं शान्तं शिवाकारं शिवानुग्रहकारणम् ।
महापापहरं तस्माच्छिकाराय नमोनमः ॥ 4 ॥

॥ॐ वां॥
वाहनं वृषभोयस्य वासुकिः कण्ठभूषणम् ।
वामे शक्तिधरं देवं वकाराय नमोनमः ॥ 5 ॥

॥ॐ यं॥
यकारे संस्थितो देवो यकारं परमं शुभम् ।
यं नित्यं परमानन्दं यकाराय नमोनमः ॥ 6 ॥

षडक्षरमिदं स्तोत्रं यः पठेच्छिव सन्निधौ ।
तस्य मृत्युभयं नास्ति ह्यपमृत्युभयं कुतः ॥

शिवशिवेति शिवेति शिवेति वा
भवभवेति भवेति भवेति वा ।
हरहरेति हरेति हरेति वा
भुजमनश्शिवमेव निरन्तरम् ॥

इति श्रीमत्परमहंस परिव्राजकाचार्य
श्रीमच्छङ्करभगवत्पादपूज्यकृत शिवषडक्षरीस्तोत्रं सम्पूर्णम् ।




Browse Related Categories: