Hindi

Shiva Kavacham – Hindi

0 Comments 04 August 2011

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: ऋशभ योगीश्वर

अस्य श्री शिवकवच स्तोत्रमहामंत्रस्य ऋषभयोगीश्वर ऋषिः ।
अनुष्टुप् छंदः ।
श्रीसांबसदाशिवो देवता ।
ॐ बीजम् ।
नमः शक्तिः ।
शिवायेति कीलकम् ।
मम सांबसदाशिवप्रीत्यर्थे जपे विनियोगः ॥

करन्यासः
ॐ सदाशिवाय अंगुष्ठाभ्यां नमः । नं गंगाधराय तर्जनीभ्यां नमः । मं मृत्युंजयाय मध्यमाभ्यां नमः ।

शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यम् उमापतये करतलकरपृष्ठाभ्यां नमः ।

हृदयादि अंगन्यासः
ॐ सदाशिवाय हृदयाय नमः । नं गंगाधराय शिरसे स्वाहा । मं मृत्युंजयाय शिखायै वषट् ।

शिं शूलपाणये कवचाय हुम् । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यम् उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बंधः ॥

ध्यानम्%
वज्रदंष्ट्रं त्रिनयनं कालकंठ मरिंदमम् ।
सहस्रकरमत्युग्रं वंदे शंभुम् उमापतिम् ॥
रुद्राक्षकंकणलसत्करदंडयुग्मः पालांतरालसितभस्मधृतत्रिपुंड्रः ।
पंचाक्षरं परिपठन् वरमंत्रराजं ध्यायन् सदा पशुपतिं शरणं व्रजेथाः ॥

अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।
जयप्रदं सर्वविपत्प्रमोचनं वक्ष्यामि शैवम् कवचं हिताय ते ॥

पंचपूजा%
लं पृथिव्यात्मने गंधं समर्पयामि ।
हम् आकाशात्मने पुष्पैः पूजयामि ।
यं वाय्वात्मने धूपम् आघ्रापयामि ।
रम् अग्न्यात्मने दीपं दर्शयामि ।
वम् अमृतात्मने अमृतं महानैवेद्यं निवेदयामि ।
सं सर्वात्मने सर्वोपचारपूजां समर्पयामि ॥

मंत्रः

ऋषभ उवाच

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।
वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ॥ १ ॥

शुचौ देशे समासीनो यथावत्कल्पितासनः ।
जितेंद्रियो जितप्राणश्चिंतयेच्छिवमव्ययम् ॥ २ ॥

हृत्पुंडरीकांतरसन्निविष्टं स्वतेजसा व्याप्तनभो‌உवकाशम् ।
अतींद्रियं सूक्ष्ममनंतमाद्यं ध्यायेत् परानंदमयं महेशम् ॥

ध्यानावधूताखिलकर्मबंध- श्चिरं चिदानंद निमग्नचेताः ।
षडक्षरन्यास समाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ॥

मां पातु देवो‌உखिलदेवतात्मा संसारकूपे पतितं गभीरे ।
तन्नाम दिव्यं परमंत्रमूलं धुनोतु मे सर्वमघं हृदिस्थम् ॥

सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानंदघनश्चिदात्मा ।
अणोरणियानुरुशक्तिरेकः स ईश्वरः पातु भयादशेषात् ॥

यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशो‌உष्टमूर्तिः ।
यो‌உपां स्वरूपेण नृणां करोति संजीवनं सो‌உवतु मां जलेभ्यः ॥

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः ।
स कालरुद्रो‌உवतु मां दवाग्नेः वात्यादिभीतेरखिलाच्च तापात् ॥

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः ।
चतुर्मुखस्तत्पुरुषस्त्रिनेत्रः प्राच्यां स्थितो रक्षतु मामजस्रम् ॥

कुठारखेटांकुश शूलढक्का- कपालपाशाक्ष गुणांदधानः ।
चतुर्मुखो नीलरुचिस्त्रिनेत्रः पायादघोरो दिशि दक्षिणस्याम् ॥

कुंदेंदुशंखस्फटिकावभासो वेदाक्षमाला वरदाभयांकः ।
त्र्यक्षश्चतुर्वक्त्र उरुप्रभावः सद्यो‌உधिजातो‌உवतु मां प्रतीच्याम् ॥

वराक्षमालाभयटंकहस्तः सरोजकिंजल्कसमानवर्णः ।
त्रिलोचनश्चारुचतुर्मुखो मां पायादुदीच्यां दिशि वामदेवः ॥

वेदाभयेष्टांकुशटंकपाश- कपालढक्काक्षरशूलपाणिः ।
सितद्युतिः पंचमुखो‌உवतान्माम् ईशान ऊर्ध्वं परमप्रकाशः ॥

मूर्धानमव्यान्मम चंद्रमौलिः भालं ममाव्यादथ भालनेत्रः ।
नेत्रे ममाव्याद्भगनेत्रहारी नासां सदा रक्षतु विश्वनाथः ॥

पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली ।
वक्त्रं सदा रक्षतु पंचवक्त्रो जिह्वां सदा रक्षतु वेदजिह्वः ॥

कंठं गिरीशो‌உवतु नीलकंठः पाणिद्वयं पातु पिनाकपाणिः ।
दोर्मूलमव्यान्मम धर्मबाहुः वक्षःस्थलं दक्षमखांतको‌உव्यात् ॥

ममोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी ।
हेरंबतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्वरो मे ॥

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरो‌உव्यात् ।
जंघायुगं पुंगवकेतुरव्यात् पादौ ममाव्यात्सुरवंद्यपादः ॥

महेश्वरः पातु दिनादियामे मां मध्ययामे‌உवतु वामदेवः ।
त्रिलोचनः पातु तृतीययामे वृषध्वजः पातु दिनांत्ययामे ॥

पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।
गौरीपतिः पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ॥

अंतःस्थितं रक्षतु शंकरो मां स्थाणुः सदा पातु बहिःस्थितं माम् ।
तदंतरे पातु पतिः पशूनां सदाशिवो रक्षतु मां समंतात् ॥

तिष्ठंतमव्याद् भुवनैकनाथः पायाद्व्रजंतं प्रमथाधिनाथः ।
वेदांतवेद्यो‌உवतु मां निषण्णं मामव्ययः पातु शिवः शयानम् ॥

मार्गेषु मां रक्षतु नीलकंठः शैलादिदुर्गेषु पुरत्रयारिः ।
अरण्यवासादि महाप्रवासे पायान्मृगव्याध उदारशक्तिः ॥

कल्पांतकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलितांडकोशः ।
घोरारिसेनार्णव दुर्निवार- महाभयाद्रक्षतु वीरभद्रः ॥

पत्त्यश्वमातंगरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् ।
अक्षौहिणीनां शतमाततायिनां छिंद्यान्मृडो घोरकुठार धारया ॥

निहंतु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरांतकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् संत्रासयत्वीशधनुः पिनाकः ॥

दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥

ॐ नमो भगवते सदाशिवाय

सकलतत्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गंगाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनाय अनंतकोटिब्रह्मांडनायकाय अनंत वासुकि तक्षक- कर्कोटक शंख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदांतपारगाय सकललोकैकवरप्रदाय सकललोकैकशंकराय सकलदुरितार्तिभंजनाय सकलजगदभयंकराय शशांकशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिंताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरंतराय निष्कारणाय निरातंकाय निष्प्रपंचाय निस्संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरंजनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानंदाद्वयाय परमशांतस्वरूपाय परमशांतप्रकाशाय तेजोरूपाय तेजोमयाय तेजो‌உधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्वांग चर्मखड्गधर पाशांकुश- डमरूशूल चापबाणगदाशक्तिभिंदिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुंडी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेंद्रवलय नागेंद्रचर्मधर नागेंद्रनिकेतन मृत्युंजय त्र्यंबक त्रिपुरांतक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयम् उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिंधि भिंधि खड्गेन छिंद्दि छिंद्दि खट्वांगेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः संताडय संताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्मांडभूतवेतालमारीगण- ब्रह्मराक्षसगणान् संत्रासय संत्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं माम् आश्वासय आश्वासय नरकमहाभयान् माम् उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय संजीवय संजीवय क्षुत्तृष्णार्तं माम् आप्यायय आप्यायय दुःखातुरं माम् आनंदय आनंदय शिवकवचेन माम् आच्छादय आच्छादय

हर हर मृत्युंजय त्र्यंबक सदाशिव परमशिव नमस्ते नमस्ते नमः ॥

पूर्ववत् – हृदयादि न्यासः ।

पंचपूजा ॥

भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

फलश्रुतिः%
ऋषभ उवाच इत्येतत्परमं शैवं कवचं व्याहृतं मया ।
सर्व बाधा प्रशमनं रहस्यं सर्व देहिनाम् ॥

यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् ।
न तस्य जायते कापि भयं शंभोरनुग्रहात् ॥

क्षीणायुः प्राप्तमृत्युर्वा महारोगहतो‌உपि वा ।
सद्यः सुखमवाप्नोति दीर्घमायुश्च विंदति ॥

सर्वदारिद्रयशमनं सौमांगल्यविवर्धनम् ।
यो धत्ते कवचं शैवं स देवैरपि पूज्यते ॥

महापातकसंघातैर्मुच्यते चोपपातकैः ।
देहांते मुक्तिमाप्नोति शिववर्मानुभावतः ॥

त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् ।
धारयस्व मया दत्तं सद्यः श्रेयो ह्यवाप्स्यसि ॥

श्रीसूत उवाच

इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे ।
ददौ शंखं महारावं खड्गं च अरिनिषूदनम् ॥

पुनश्च भस्म संमंत्र्य तदंगं परितो‌உस्पृशत् ।
गजानां षट्सहस्रस्य त्रिगुणस्य बलं ददौ ॥

भस्मप्रभावात् संप्राप्तबलैश्वर्य धृति स्मृतिः ।
स राजपुत्रः शुशुभे शरदर्क इव श्रिया ॥

तमाह प्रांजलिं भूयः स योगी नृपनंदनम् ।
एष खड्गो मया दत्तस्तपोमंत्रानुभावतः ॥

शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् ।
स सद्यो म्रियते शत्रुः साक्षान्मृत्युरपि स्वयम् ॥

अस्य शंखस्य निर्ह्रादं ये शृण्वंति तवाहिताः ।
ते मूर्च्छिताः पतिष्यंति न्यस्तशस्त्रा विचेतनाः ॥

खड्गशंखाविमौ दिव्यौ परसैन्यविनाशकौ ।
आत्मसैन्यस्वपक्षाणां शौर्यतेजोविवर्धनौ ॥

एतयोश्च प्रभावेन शैवेन कवचेन च ।
द्विषट्सहस्र नागानां बलेन महतापि च ॥

भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे ।
प्राप्य सिंहासनं पित्र्यं गोप्ता‌உसि पृथिवीमिमाम् ॥

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।
ताभ्यां संपूजितः सो‌உथ योगी स्वैरगतिर्ययौ ॥

इति श्रीस्कांदमहापुराणे ब्रह्मोत्तरखंडे शिवकवच प्रभाव वर्णनं नाम द्वादशो‌உध्यायः संपूर्णः ॥ ॥

Share your view

Post a comment

Join on Facebook, Twitter

Browse by Popular Topics