| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
शिव कवचम् अस्य श्री शिवकवच स्तोत्र\f1 \f0 महामन्त्रस्य ऋषभयोगीश्वर ऋषिः । करन्यासः शिं शूलपाणये अनामिकाभ्यां नमः । वां पिनाकपाणये कनिष्ठिकाभ्यां नमः । यं उमापतये करतलकरपृष्ठाभ्यां नमः । हृदयादि अङ्गन्यासः शिं शूलपाणये कवचाय हुम् । वां पिनाकपाणये नेत्रत्रयाय वौषट् । यं उमापतये अस्त्राय फट् । भूर्भुवस्सुवरोमिति दिग्बन्धः ॥ ध्यानम् अतः परं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् । पञ्चपूजा मन्त्रः ऋषभ उवाच नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् । शुचौ देशे समासीनो यथावत्कल्पितासनः । हृत्पुण्डरीकान्तरसन्निविष्टं स्वतेजसा व्याप्तनभोऽवकाशम् । ध्यानावधूताखिलकर्मबन्ध- श्चिरं चिदानन्द निमग्नचेताः । मां पातु देवोऽखिलदेवतात्मा संसारकूपे पतितं गभीरे । सर्वत्र मां रक्षतु विश्वमूर्ति- र्ज्योतिर्मयानन्दघनश्चिदात्मा । यो भूस्वरूपेण बिभर्ति विश्वं पायात्स भूमेर्गिरिशोऽष्टमूर्तिः । कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलीलः । प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणिः । कुठारखेटाङ्कुश शूलढक्का- कपालपाशाक्ष गुणान्दधानः । कुन्देन्दुशङ्खस्फटिकावभासो वेदाक्षमाला वरदाभयाङ्कः । वराक्षमालाभयटङ्कहस्तः सरोजकिञ्जल्कसमानवर्णः । वेदाभयेष्टाङ्कुशटङ्कपाश- कपालढक्काक्षरशूलपाणिः । मूर्धानमव्यान्मम चन्द्रमौलिः भालं ममाव्यादथ भालनेत्रः । पायाच्छ्रुती मे श्रुतिगीतकीर्तिः कपोलमव्यात्सततं कपाली । कण्ठं गिरीशोऽवतु नीलकण्ठः पाणिद्वयं पातु पिनाकपाणिः । ममोदरं पातु गिरीन्द्रधन्वा मध्यं ममाव्यान्मदनान्तकारी । ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वरोऽव्यात् । महेश्वरः पातु दिनादियामे मां मध्ययामेऽवतु वामदेवः । पायान्निशादौ शशिशेखरो मां गङ्गाधरो रक्षतु मां निशीथे । अन्तःस्थितं रक्षतु शङ्करो मां स्थाणुः सदा पातु बहिःस्थितं माम् । तिष्ठन्तमव्याद् भुवनैकनाथः पायाद्व्रजन्तं प्रमथाधिनाथः । मार्गेषु मां रक्षतु नीलकण्ठः शैलादिदुर्गेषु पुरत्रयारिः । कल्पान्तकालोग्रपटुप्रकोप- स्फुटाट्टहासोच्चलिताण्डकोशः । पत्त्यश्वमातङ्गरथावरूथिनी- सहस्रलक्षायुत कोटिभीषणम् । निहन्तु दस्यून्प्रलयानलार्चिः ज्वलत्त्रिशूलं त्रिपुरान्तकस्य । शार्दूलसिंहर्क्षवृकादिहिंस्रान् सन्त्रासयत्वीशधनुः पिनाकः ॥ दुः स्वप्न दुः शकुन दुर्गति दौर्मनस्य- दुर्भिक्ष दुर्व्यसन दुःसह दुर्यशांसि । उत्पाततापविषभीतिमसद्ग्रहार्तिं व्याधींश्च नाशयतु मे जगतामधीशः ॥ ॐ नमो भगवते सदाशिवाय सकलतत्वात्मकाय सर्वमन्त्रस्वरूपाय सर्वयन्त्राधिष्ठिताय सर्वतन्त्रस्वरूपाय सर्वतत्वविदूराय ब्रह्मरुद्रावतारिणे नीलकण्ठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूलितविग्रहाय महामणि मुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकाल- रौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलधारैकनिलयाय तत्वातीताय गङ्गाधराय सर्वदेवादिदेवाय षडाश्रयाय वेदान्तसाराय त्रिवर्गसाधनाय अनन्तकोटिब्रह्माण्डनायकाय अनन्त वासुकि तक्षक- कर्कोटक शङ्ख कुलिक- पद्म महापद्मेति- अष्टमहानागकुलभूषणाय प्रणवस्वरूपाय चिदाकाशाय आकाश दिक् स्वरूपाय ग्रहनक्षत्रमालिने सकलाय कलङ्करहिताय सकललोकैककर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकलवेदान्तपारगाय सकललोकैकवरप्रदाय सकललोकैकशङ्कराय सकलदुरितार्तिभञ्जनाय सकलजगदभयङ्कराय शशाङ्कशेखराय शाश्वतनिजावासाय निराकाराय निराभासाय निरामयाय निर्मलाय निर्मदाय निश्चिन्ताय निरहङ्काराय निरङ्कुशाय निष्कलङ्काय निर्गुणाय निष्कामाय निरूपप्लवाय निरुपद्रवाय निरवद्याय निरन्तराय निष्कारणाय निरातङ्काय निष्प्रपञ्चाय निस्सङ्गाय निर्द्वन्द्वाय निराधाराय नीरागाय निष्क्रोधाय निर्लोपाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियाय निस्तुलाय निःसंशयाय निरञ्जनाय निरुपमविभवाय नित्यशुद्धबुद्धमुक्तपरिपूर्ण- सच्चिदानन्दाद्वयाय परमशान्तस्वरूपाय परमशान्तप्रकाशाय तेजोरूपाय तेजोमयाय तेजोऽधिपतये जय जय रुद्र महारुद्र महारौद्र भद्रावतार महाभैरव कालभैरव कल्पान्तभैरव कपालमालाधर खट्वाङ्ग चर्मखड्गधर पाशाङ्कुश- डमरूशूल चापबाणगदाशक्तिभिन्दिपाल- तोमर मुसल मुद्गर पाश परिघ- भुशुण्डी शतघ्नी चक्राद्यायुधभीषणाकार- सहस्रमुखदंष्ट्राकरालवदन विकटाट्टहास विस्फारित ब्रह्माण्डमण्डल नागेन्द्रकुण्डल नागेन्द्रहार नागेन्द्रवलय नागेन्द्रचर्मधर नागेन्द्रनिकेतन मृत्युञ्जय त्र्यम्बक त्रिपुरान्तक विश्वरूप विरूपाक्ष विश्वेश्वर वृषभवाहन विषविभूषण विश्वतोमुख सर्वतोमुख मां रक्ष रक्ष ज्वलज्वल प्रज्वल प्रज्वल महामृत्युभयं शमय शमय अपमृत्युभयं नाशय नाशय रोगभयं उत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान् मारय मारय मम शत्रून् उच्चाटयोच्चाटय त्रिशूलेन विदारय विदारय कुठारेण भिन्धि भिन्धि खड्गेन छिन्द्दि छिन्द्दि खट्वाङ्गेन विपोधय विपोधय मुसलेन निष्पेषय निष्पेषय बाणैः सन्ताडय सन्ताडय यक्ष रक्षांसि भीषय भीषय अशेष भूतान् विद्रावय विद्रावय कूष्माण्डभूतवेतालमारीगण- ब्रह्मराक्षसगणान् सन्त्रासय सन्त्रासय मम अभयं कुरु कुरु मम पापं शोधय शोधय वित्रस्तं मां आश्वासय आश्वासय नरकमहाभयान् मां उद्धर उद्धर अमृतकटाक्षवीक्षणेन मां- आलोकय आलोकय सञ्जीवय सञ्जीवय क्षुत्तृष्णार्तं मां आप्यायय आप्यायय दुःखातुरं मां आनन्दय आनन्दय शिवकवचेन मां आच्छादय आच्छादय हर हर मृत्युञ्जय त्र्यम्बक सदाशिव परमशिव नमस्ते नमस्ते नमः ॥ पूर्ववत् - हृदयादि न्यासः । पञ्चपूजा ॥ भूर्भुवस्सुवरोमिति दिग्विमोकः ॥ फलश्रुतिः यः सदा धारयेन्मर्त्यः शैवं कवचमुत्तमम् । क्षीणायुः प्राप्तमृत्युर्वा महारोगहतोऽपि वा । सर्वदारिद्रयशमनं सौमाङ्गल्यविवर्धनम् । महापातकसङ्घातैर्मुच्यते चोपपातकैः । त्वमपि श्रद्दया वत्स शैवं कवचमुत्तमम् । श्रीसूत उवाच इत्युक्त्वा ऋषभो योगी तस्मै पार्थिव सूनवे । पुनश्च भस्म सम्मन्त्र्य तदङ्गं परितोऽस्पृशत् । भस्मप्रभावात् सम्प्राप्तबलैश्वर्य धृति स्मृतिः । तमाह प्राञ्जलिं भूयः स योगी नृपनन्दनम् । शितधारमिमं खड्गं यस्मै दर्शयसे स्फुटम् । अस्य शङ्खस्य निर्ह्रादं ये शृण्वन्ति तवाहिताः । खड्गशङ्खाविमौ दिव्यौ परसैन्यविनाशकौ । एतयोश्च प्रभावेन शैवेन कवचेन च । भस्मधारण सामर्थ्याच्छत्रुसैन्यं विजेष्यसे । इति भद्रायुषं सम्यगनुशास्य समातृकम् । इति श्रीस्कान्दमहापुराणे ब्रह्मोत्तरखण्डे शिवकवच प्रभाव वर्णनं नाम द्वादशोऽध्यायः सम्पूर्णः ॥ ॥
|