View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शिव भुजङ्ग प्रयात स्तोत्रम्

कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसन्दायकाय ।
यतीन्द्रैरुपास्याङ्घ्रिपाथोरुहाय
प्रबोधप्रदात्रे नमः शङ्कराय ॥1॥

चिदानन्दरूपाय चिन्मुद्रिकोद्य-
त्करायेशपर्यायरूपाय तुभ्यम् ।
मुदा गीयमानाय वेदोत्तमाङ्गैः
श्रितानन्ददात्रे नमः शङ्कराय ॥2॥

जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मन्दिरूपस्य शम्भोः
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ॥3॥

नखेन्दुप्रभाधूतनम्रालिहार्दा-
न्धकारव्रजायाब्जमन्दस्मिताय ।
महामोहपाथोनिधेर्बाडबाय
प्रशान्ताय कुर्मो नमः शङ्कराय ॥4॥

प्रणम्रान्तरङ्गाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो नमः शङ्कराय ॥5॥

प्रणम्रास्यपाथोजमोदप्रदात्रे
सदान्तस्तमस्तोमसंहारकर्त्रे ।
रजन्या मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शङ्कराय ॥6॥

नतानां हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥7॥

प्रभाधूतचन्द्रायुतायाखिलेष्ट-
प्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपङ्क्ते-
र्मुदा सर्वदा स्यान्नमः शङ्कराय ॥8॥

विनिष्कासितानीश तत्त्वावबोधा -
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादाम्बुजातं
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥9॥

मतेर्वेदशीर्षाध्वसम्प्रापकाया-
नतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापबृन्दस्य शीघ्रं निहन्त्रे
स्मितास्याय कुर्मो नमः शङ्कराय ॥10॥

सुपर्वोक्तिगन्धेन हीनाय तूर्णं
पुरा तोटकायाखिलज्ञानदात्रे।
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शङ्कराय ॥11॥

भवाम्भोधिमग्नान्जनान्दुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहोऽहम् ।
विदित्वा हि ते कीर्तिमन्यादृशाम्भो
सुखं निर्विशङ्कः स्वपिम्यस्तयत्नः ॥12॥

॥इति श्रीशङ्कराचार्य भुजङ्गप्रयातस्तोत्रम्॥




Browse Related Categories: