View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

शिव अष्टोत्तर शत नाम स्तोत्रम्

शिवो महेश्वर-श्शम्भुः पिनाकी शशिशेखरः
वामदेवो विरूपाक्षः कपर्दी नीललोहितः ॥ 1 ॥

शङ्कर-श्शूलपाणिश्च खट्वाङ्गी विष्णुवल्लभः
शिपिविष्टोऽम्बिकानाथः श्रीकण्ठो भक्तवत्सलः ॥ 2 ॥

भव-श्शर्व-स्त्रिलोकेशः शितिकण्ठः शिवाप्रियः
उग्रः कपाली कामारि रन्धकासुरसूदनः ॥ 3 ॥

गङ्गाधरो ललाटाक्षः कालकालः कृपानिधिः
भीमः परशुहस्तश्च मृगपाणि-र्जटाधरः ॥ 4 ॥

कैलासवासी कवची कठोर-स्त्रिपुरान्तकः
वृषाङ्को वृषभारूढो भस्मोद्धूलितविग्रहः ॥ 5 ॥

सामप्रिय-स्स्वरमय-स्त्रयीमूर्ति-रनीश्वरः
सर्वज्ञः परमात्मा च सोमसूर्याग्निलोचनः ॥ 6 ॥

हवि-र्यज्ञमय-स्सोमः पञ्चवक्त्र-स्सदाशिवः
विश्वेश्वरो वीरभद्रो गणनाथः प्रजापतिः ॥ 7 ॥

हिरण्यरेता दुर्धर्षो गिरीशो गिरिशोऽनघः
भुजङ्गभूषणो भर्गो गिरिधन्वा गिरिप्रियः ॥ 8 ॥

कृत्तिवासाः पुराराति-र्भगवान् प्रमथाधिपः
मृत्युञ्जय-स्सूक्ष्मतनु-र्जगद्व्यापी जगद्गुरुः ॥ 9 ॥

व्योमकेशो महासेनजनक-श्चारुविक्रमः
रुद्रो भूतपतिः स्थाणु-रहिर्भुध्न्यो दिगम्बरः ॥ 10 ॥

अष्टमूर्ति-रनेकात्मा सात्त्विक-श्शुद्धविग्रहः
शाश्वतः खण्डपरशु-रजः पाशविमोचकः ॥ 11 ॥

मृडः पशुपति-र्देवो महादेवोऽव्ययो हरिः
पूषदन्तभि-दव्यग्रो दक्षाध्वरहरो हरः ॥ 12 ॥

भगनेत्रभि-दव्यक्तो सहस्राक्ष-स्सहस्रपात्
अपवर्गप्रदोऽनन्त-स्तारकः परमेश्वरः ॥ 13 ॥

एवं श्री शम्भुदेवस्य नाम्नामष्टोत्तरं शतम् ॥

इति श्री शिवाष्टोत्तरशतनामस्तोत्ररत्नं समाप्तम् ।




Browse Related Categories: