Devanagari,Sanskrit,Hindi

Mooka Pancha Sathi 4 – Kataakshya Satakam – Devanagari

Comments Off on Mooka Pancha Sathi 4 – Kataakshya Satakam – Devanagari 18 February 2013

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
 

रचन: श्री मूक शङ्करेन्द्र सरस्वति

मोहान्धकारनिवहं विनिहन्तुमीडे
मूकात्मनामपि महाकवितावदान्यान् ।
श्रीकाञ्चिदेशशिशिरीकृतिजागरूकान्
एकाम्रनाथतरुणीकरुणावलोकान् ॥1॥

मातर्जयन्ति ममताग्रहमोक्षणानि
माहेन्द्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्त्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि ॥2॥

आनङ्गतन्त्रविधिदर्शितकौशलानाम्
आनन्दमन्दपरिघूर्णितमन्थराणाम् ।
तारल्यमम्ब तव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥3॥

कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन ।
मामञ्चितेन तव किञ्चन कुञ्चितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥4॥

साहाय्यकं गतवती मुहुरर्जनस्य
मन्दस्मितस्य परितोषितभीमचेताः ।
कामाक्षि पाण्डवचमूरिव तावकीना
कर्णान्तिकं चलति हन्त कटाक्षलक्ष्मीः ॥5॥

अस्तं क्षणान्नयतु मे परितापसूर्यम्
आनन्दचन्द्रमसमानयतां प्रकाशम् ।
कालान्धकारसुषुमां कलयन्दिगन्ते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥6॥

ताटाङ्कमौक्तिकरुचाङ्कुरदन्तकान्तिः
कारुण्यहस्तिपशिखामणिनाधिरूढः ।
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतङ्गजेतन्द्रः ॥7॥

छायाभरणे जगतां परितापहारी
ताटङ्करत्नमणितल्लजपल्लवश्रीः ।
कारुण्यनाम विकिरन्मकरन्दजालं
कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥8॥

सूर्याश्रयप्रणयिनी मणिकुण्डलांशु-
लौहित्यकोकनदकाननमाननीया ।
यान्ती तव स्मरहराननकान्तिसिन्धुं
कामाक्षि राजति कटाक्षकलिन्दकन्या ॥9॥

प्राप्नोति यं सुकृतिनं तव पक्षपातात्
कामाक्षि वीक्षणविलासकलापुरन्ध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितान्तमनयोरिदमैकमत्यम् ॥10॥

यान्ती सदैव मरुतामनुकूलभावं
भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरङ्गितनीलकण्ठा
कादम्बिनीव तव भाति कटाक्षमाला ॥11॥

गङ्गाम्भसि स्मितमये तपनात्मजेव
गङ्गाधरोरसि नवोत्पलमालिकेव ।
वक्त्रप्रभासरसि शैवलमण्डलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥12॥

संस्कारतः किमपि कन्दलितान् रसज्ञ-
केदारसीम्नि सुधियामुपभोगयोग्यान् ।
कल्याणसूक्तिलहरीकलमाङ्कुरान्नः
कामाक्षि पक्ष्मलयतु त्वदपाङ्गमेघः ॥13॥

चाञ्चल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥14॥

सञ्जीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य ।
संस्तम्भने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ॥15॥

नीलो‌உपि रागमधिकं जनयन्पुरारेः
लोलो‌உपि भक्तिमधिकां दृढयन्नराणाम् ।
वक्रो‌உपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपाङ्गपातः ॥16॥

कामद्रुहो हृदययन्त्रणजागरूका
कामाक्षि चञ्चलदृगञ्चलमेखला ते ।
आश्चर्यमम्ब भजतां झटिति स्वकीय-
सम्पर्क एव विधुनोति समस्तबन्धान् ॥17॥

कुण्ठीकरोतु विपदं मम कुञ्चितभ्रू-
चापाञ्चितः श्रितविदेहभवानुरागः ।
रक्षोपकारमनिशं जनयञ्जगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ॥18॥

श्रीकामकोटि शिवलोचनशोषितस्य
शृङ्गारबीजविभवस्य पुनःप्ररोहे ।
प्रेमाम्भसार्द्रमचिरात्प्रचुरेण शङ्के
केदारमम्ब तव केवलदृष्टिपातम् ॥19॥

माहात्म्यशेवधिरसौ तव दुर्विलङ्घ्य-
संसारविन्ध्यगिरिकुण्ठनकेलिचुञ्चुः ।
धैर्याम्बुधिं पशुपतेश्चुलकीकरोति
कामाक्षि वीक्षणविजृम्भणकुम्भजन्मा ॥20॥

पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री-
मैत्री निसर्गमधुरा कृततारकाप्तिः ।
कामाक्षि संश्रितवती वपुरष्टमूर्तेः
ज्योत्स्नायते भगवति त्वदपाङ्गमाला ॥21॥

अम्ब स्मरप्रतिभटस्य वपुर्मनोज्ञम्
अम्भोजकाननमिवाञ्चितकण्टकाभम् ।
भृङ्गीव चुम्बति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपाङ्गमाला ॥22॥

केशप्रभापटलनीलवितानजाले
कामाक्षि कुण्डलमणिच्छविदीपशोभे ।
शङ्के कटाक्षरुचिरङ्गतले कृपाख्या
शैलूषिका नटति शङ्करवल्लभे ते ॥23॥

अत्यन्तशीतलमतन्द्रयतु क्षणार्धम्
अस्तोकविभ्रममनङ्गविलासकन्दम् ।
अल्पस्मितादृतमपारकृपाप्रवाहम्
अक्षिप्ररोहमचिरान्मयि कामकोटि ॥24॥

मन्दाक्षरागतरलीकृतिपारतन्त्र्यात्
कामाक्षि मन्थरतरां त्वदपाङ्गडोलाम् ।
आरुह्य मन्दमतिकौतुकशालि चक्षुः
आनन्दमेति मुहुरर्धशशाङ्कमौलेः ॥25॥

त्रैयम्बकं त्रिपुरसुन्दरि हर्म्यभूमि-
रङ्गं विहारसरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥26॥

वागीश्वरी सहचरी नियमेन लक्ष्मीः
भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमम्ब तेषां
कामाक्षि येषु तव वीक्षणपारतन्त्री ॥27॥

माहेश्वरं झटिति मानसमीनमम्ब
कामाक्षि धैर्यजलधौ नितरां निमग्नम् ।
जालेन शृङ्खलयति त्वदपाङ्गनाम्ना
विस्तारितेन विषमायुधदाशको‌உसौ ॥28॥

उन्मथ्य बोधकमलाकारमम्ब जाड्य-
स्तम्बेरमं मम मनोविपिने भ्रमन्तम् ।
कुण्ठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहाङ्कुशेन ॥29॥

उद्वेल्लितस्तबकितैर्ललितैर्विलासैः
उत्थाय देवि तव गाढकटाक्षकुञ्जात् ।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि स्तवरमनुग्रहकेसरीन्द्रः ॥30॥

स्नेहादृतां विदलितोत्पलकन्तिचोरां
जेतारमेव जगदीश्वरि जेतुकामः ।
मानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥31॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां
कामाक्षि सन्ततमपि स्मृतिमार्गगामी ।
कौटिल्यमम्ब कथमस्थिरतां च धत्ते
चौर्यं च पङ्कजरुचां त्वदपाङ्गपातः ॥32॥

नित्यं श्रेतुः परिचितौ यतमानमेव
नीलोत्पलं निजसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशिकेन्द्रः
कामाक्षी किन्तु तव कालिमसम्प्रदायम् ॥33॥

भ्रान्त्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्त्ररुचिसञ्चयवारिराशौ ।
आनन्दति त्रिपुरमर्दननेत्रलक्ष्मीः
आलम्ब्य देवि तव मन्दमपाङ्गसेतुम् ॥34॥

श्यामा तव त्रिपुरसुन्दरि लोचनश्रीः
कामाक्षि कन्दलितमेदुरतारकान्तिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥35॥

कालाञ्जनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कान्त्या ।
निश्शेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥36॥

धूमाङ्कुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यन्तमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरुणाङ्कमौलेः ॥37॥

आरभ्भलेशसमये तव वीक्षणस्स
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
कीर्तिस्वयंवरणमाल्यवती वृणीते ॥38॥

कालाम्बुवाह उव ते परितापहारी
कामाक्षि पुष्करमधःकुरुते कटाख़्षः ।
पूर्वः परं क्षणरुचा समुपैति मैत्री-
मन्यस्तु स.ततरुचिं प्रकटीकरोति ॥39॥

सूक्ष्मे‌உपि दुर्गमतरे‌உपि गुरुप्रसाद-
साहाय्यकेन विचरन्नपवर्गमार्गे ।
संसारपङ्कनिचये न पतत्यमूं ते
कामाक्षि गाढमवलम्ब्य कटाक्षयष्टिम् ॥40॥

कामाक्षि सन्ततमसौ हरिनीलरत्न-
स्तम्भे कटाक्षरुचिपुञ्जमये भवत्याः ।
बद्धो‌உपि भक्तिनिगलैर्मम चित्तहस्ती
स्तम्भं च बन्धमपि मुञ्चति हन्त चित्रम् ॥41॥

कामाक्षि काष्णर्यमपि सन्ततमञ्जनं च
बिभ्रन्निसर्गतरलो‌உपि भवत्कटाक्षः ।
वैमल्यमन्वहमनञ्जनता च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति ॥42॥

मन्दस्मितस्तबकितं मणिकुण्डलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुचेः कदम्बम्
उद्यानमम्ब करुणाहरिणेक्षणायाः ॥43॥

कामाक्षि तावककटाक्षमहेन्द्रनील-
सिंहासनं श्रितवतो मकरध्वजस्य ।
साम्राज्यमङ्गलविधौ मुणिकुण्डलश्रीः
नीराजनोत्सवतरङ्गितदीपमाला ॥44॥

मातः क्षणं स्नपय मां तव वीक्षितेन
मन्दाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करभास्करेण
श्रेयस्करेण मधुपद्युतितस्करेण ॥45॥

प्रेमापगापयसि मज्जनमारचय्य
युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुण्डलमणिद्युतिभिर्जटालः
श्रीकण्ठमेव भजते तव दृष्टिपातः ॥46॥

कैवल्यदाय करुणारसकिङ्कराय
कामाक्षि कन्दलितविभ्रमशङ्कराय ।
आलोकनाय तव भक्तशिवङ्कराय
मातर्नमो‌உस्तु परतन्त्रितशङ्कराय ॥47॥

साम्राज्यमङ्गलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे ।
कामेश्वरि प्रचलदुत्पलवैजयन्ती-
चातुर्यमेति तव चञ्चलदृष्टिपातः ॥48॥

मार्गेण मञ्जुकचकान्तितमोवृतेन
मन्दायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शङ्कराय
सङ्केतभूमिमचिरादभिसारिकेव ॥49॥

व्रीडनुवृत्तिरमणीकृतसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य ।
कामाक्षि कान्तिसरसीं त्वदपाङ्गलक्ष्मीः
मन्दं समाश्रयति मज्जनखेलनाय ॥50॥

काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुण्डलरुचिं ममताविरोधी ।
श्रुत्यन्तसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरो‌உसौ ॥51॥

पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लनतां कुवलयं प्रकटीकरोति ।
नौमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमनमपाङ्गलक्ष्म्याः ॥52॥

शृङ्गारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमन्दहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेतत्
कामाक्षि चुम्बति दिगम्बरवक्त्रबिम्बम् ॥53॥

नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनन्ति ।
शैत्येन निन्दयति यदन्वहमिन्दुपादान्
पाथोरुहेण यदसौ कलहायते च ॥54॥

ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकान्तिसिन्धौ ।
कामाक्षि वारिभरपूरणलम्बमान-
कालाम्बुवाहसरणिं लभते कटाक्षः ॥55॥

मन्दस्मितैर्धवलिता मणिकुण्डलांशु-
सम्पर्कलोहितरुचिस्त्वदपाङ्गधारा ।
कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च
नीलोत्पलैश्च रचितेव विभाति माला ॥56॥

कामाक्षि शीतलकृपारसनिर्झराम्भः-
सम्पर्कपक्ष्मलरुचिस्त्वदपाङ्गमाला ।
गोभिः सदा पुररिपोरभिलष्यमाणा
दूर्वाकदम्बकविडम्बनमातनोति ॥57॥

हृत्पङ्कजं मम विकासयतु प्रमुष्ण-
न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषङ्गजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ॥58॥

चक्षुर्विमोहयति चन्द्रविभूषणस्य
कामाक्षि तावककटाक्षतमःप्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ॥59॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम् ।
आगत्य तत्परिसरं श्रवणवतंस-
व्योजेन नूनमभयार्थनमातनोति ॥60॥

आश्चर्यमम्ब मदानाभ्युदयावलम्बः
कामाक्षि चञ्चलनिरीक्षणविभ्रमस्ते ।
धैर्यं विधूय तनुते हृदि रागबन्धं
शम्भोस्तदेव विपरीततया मुनीनाम् ॥61॥

जन्तोः सकृत्प्रणमतो जगदीड्यतां च
तेजास्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि माक्षिकझरीमिव वैखरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥62॥

कादम्बिनी किमयते न जलानुषङ्गं
भृङ्गावली किमुररीकुरुते न पद्मम् ।
किं वा कलिन्दतनया सहते न भङ्गं
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥63॥

काकोलपावकतृणीकरणे‌உपि दक्षः
कामाक्षि बालकसुधाकरशेखरस्य ।
अत्यन्तशीतलतमो‌உप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ॥64॥

कार्पण्यपूरपरिवर्धितमम्ब मोह-
कन्दोद्गतं भवमयं विषपादपं मे ।
तुङ्गं छिनत्तु तुहिनाद्रिसुते भवत्याः
काञ्चीपुरेश्वरि कटाक्षकुठारधारा ॥65॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् ।
तत्रापि देवि लभते सुकृती कदाचि-
दन्यस्य दुर्लभमपाङ्गमहौषधं ते ॥66॥

कामाक्षि देशिककृपाङ्कुरमाश्रयन्तो
नानातपोनियमनाशितपाशबन्धाः ।
वासालयं तव कटाक्षममुं महान्तो
लब्ध्वा सुखं समाधियो विचरन्ति लोके ॥67॥

साकूतसंलपितसम्भृतमुग्धहासं
व्रीडानुरागसहचारि विलोकनं ते ।
कामाक्षि कामपरिपन्थिनि मारवीर-
साम्राज्यविभ्रमदशां सफलीकरोति ॥68॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनतां तव निनाय शशाङ्कमौले-
रङ्गार्धराज्यसुखलाभमपाङ्गवीरः ॥69॥

कामाङ्कुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां प्रददातु कामान् ।
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ॥70॥

कालाम्बुवाहनिवहैः कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः ।
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोत्कण्ठ एव रमते किल नीलकण्ठः ॥71॥

कामाक्षि मन्मथरिपुं प्रति मारताप-
मोहान्धकारजलदागमनेन नृत्यन् ।
दुष्कर्मकञ्चुकिकुलं कबलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपाङ्गकेकी ॥72॥

कामाक्षि मन्मथरिपोरवलोकनेषु
कान्तं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिवन्मुकुलीकरोति ॥73॥

मूको विरिञ्चति परं पुरुषः कुरूपः
कन्दर्पति त्रिदशराजति किम्पचानः ।
कामाक्षि केवलमुपक्रमकाल एव
लीलातरङ्गितकटाक्षरुचः क्षणं ते ॥74॥

नीलालका मधुकरन्ति मनोज्ञनासा-
मुक्तारुचः प्रकटकन्दबिसाङ्कुरन्ति ।
कारुण्यमम्ब मकरन्दति कामकोटि
मन्ये ततः कमलमेव विलोचनं ते ॥75॥

आकाङ्क्ष्यमाणफलदानविचक्षणायाः ।
कामाक्षि तावककटाक्षककामधेनोः ।
सम्पर्क एव कथमम्ब विमुक्तपाश-
बन्धाः स्फुटं तनुभृतः पशुतां त्यजन्ति ॥76॥

संसारघर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि ।
चन्द्रातपन्ति घनचन्दनकर्दमन्ति
मुक्तागुणन्ति हिमवारिनिषेचनन्ति ॥77॥

प्रेमाम्बुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि ।
सन्धुक्षयन्ति मुहुरिन्धनराशिरीत्या
मारद्रुहो मनसि मन्मथचित्रभानुम् ॥78॥

कालाञ्जनप्रतिभटं कमनीयकान्त्या
कन्दर्पतन्त्रकलया कलितानुभावम् ।
काञ्चीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥79॥

क्रान्तेन मन्मथदेन विमोह्यमान-
स्वान्तेन चूततरुमूलगतस्य पुंसः ।
कान्तेन किञ्चिदवलोकय लोचनस्य
प्रान्तेन मां जननि काञ्चिपुरीविभूषे ॥80॥

कामाक्षि को‌உपि सुजनास्त्वदपाङ्गसङ्गे
कण्ठेन कन्दलितकालिमसम्प्रदायाः ।
उत्तंसकल्पितचकोरकुटुम्बपोषा
नक्तन्दिवसप्रसवभूनयना भवन्ति ॥81॥

नीलोत्पलप्रसवकान्तिनिर्दशनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ॥82॥

अत्यन्तचञ्चलमकृत्रिममञ्जनं किं
झङ्कारभङ्गिरहिता किमु भृङ्गमाला ।
धूमाङ्कुरः किमु हुताशनसङ्गहीनः
कामाक्षि नेत्ररुचिनीलिमकन्दली ते ॥83॥

कामाक्षि नित्यमयमञ्जलिरस्तु मुक्ति-
बीजाय विभ्रममदोदयघूर्णिताय ।
कन्दर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगञ्चलाय ॥84॥

दर्पाङ्कुरो मकरकेतनविभ्रमाणां
निन्दाङ्कुरो विदलितोत्पलचातुरीणाम् ।
दीपाङ्कुरो भवतमिस्रकदम्बकानां
कामाक्षि पालयतु मां त्वदपाङ्गपातः ॥85॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयःकृतमञ्जनेभ्यः ।
कामाक्षि किङ्करितशङ्करमानसेभ्य-
स्तेभ्यो नमो‌உस्तु तव वीक्षणविभ्रमेभ्यः ॥86॥

अल्पीय एव नवमुत्पलमम्ब हीना
मीनस्य वा सरणिरम्बुरुहां च किं वा ।
दूरे मृगीदृगसमञ्जसमञ्जनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥87॥

मिश्रीभवद्गरलपङ्किलशङ्करोरस्-
सीमाङ्गणे किमपि रिङ्खणमादधानः ।
हेलावधूतललितश्रवणोत्पलो‌உसौ
कामाक्षि बाल इव राजति ते कटाक्षः ॥88॥

प्रौढिकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासवसन्तलक्ष्मीः ॥89॥

कूलङ्कषं वितनुते करुणाम्बुवर्षी
सारस्वतं सुकृतिनः सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनाम्बुतरङ्गभङ्गीं
कामाक्षि किं तव कटाक्षमहाम्बुवाहः ॥90॥

जगर्ति देवि करुणाशुकसुन्दरी ते
ताटङ्करत्नरुचिदाडिमखण्डशोणे ।
कामाक्षि निर्भरकटाक्षमरीचिपुञ्ज-
माहेन्द्रनीलमणिपञ्जरमध्यभागे ॥91॥

कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किञ्च स्फुटं कुटिलतां प्रकटीकरोति
भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥92॥

एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये ।
शङ्के करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥93॥

बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण ।
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिन्धुम् ॥94॥

मारद्रुहा मुकुटसीमनि लाल्यमाने
मन्दाकिनीपयसि ते कुटिलं चरिष्णुः ।
कामाक्षि कोपरभसाद्वलमानमीन-
सन्देहमङ्कुरयति क्षणमक्षिपातः ॥95॥

कामाक्षि संवलितमौक्तिककुण्डलांशु-
चञ्चत्सितश्रवणचामरचातुरीकः ।
स्तम्भे निरन्तरमपाङ्गमये भवत्या
बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥96॥

यावत्कटाक्षरजनीसमयागमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीधितिबिम्बमम्ब
संविन्मयं हृदयपूर्वगिरीन्द्रशृङ्गे ॥97॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सुः समस्तविभवं नमतां नराणाम् ।
भृङ्गस्य नीलनलिनस्य च कान्तिसम्प-
त्सर्वस्वमेव हरतीति परं विचित्रम् ॥98॥

अत्यन्तशीतलमनर्गलकर्मपाक-
काकोलहारि सुलभं सुमनोभिरेतत् ।
पीयूषमेव तव वीक्षणमम्ब किन्तु
कामाक्षि नीलमिदमित्ययमेव भेदः ॥99॥

अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्यन्तगर्वमनधीतसमस्तशास्त्रम् ।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥100॥

(कामाक्षि मामवतु ते करुणाकटाक्षः)
पातेन लोचनरुचेस्तव कामकोटि
पोतेन पतकपयोधिभयातुराणाम् ।
पूतेन तेन नवकाञ्चनकुण्डलांशु-
वीतेन शीतलय भूधरकन्यके माम् ॥101॥

॥ इति कटाक्षशतकं सम्पूर्णम् ॥

Comments are closed.

Join on Facebook, Twitter

Browse by Popular Topics