| English | | Devanagari | | Telugu | | Tamil | | Kannada | | Malayalam | | Gujarati | | Odia | | Bengali | | |
| Marathi | | Assamese | | Punjabi | | Hindi | | Samskritam | | Konkani | | Nepali | | Sinhala | | Grantha | | |
मूक पञ्च शति 1 - आर्य शतकम् कारणपरचिद्रूपा काञ्चीपुरसीम्नि कामपीठगता । कञ्चन काञ्चीनिलयं करधृतकोदण्डबाणसृणिपाशम् । चिन्तितफलपरिपोषणचिन्तामणिरेव काञ्चिनिलया मे । कुटिलकचं कठिनकुचं कुन्दस्मितकान्ति कुङ्कुमच्छायम् । पञ्चशरशास्त्रबोधनपरमाचार्येण दृष्टिपातेन । परया काञ्चीपुरया पर्वतपर्यायपीनकुचभरया । ऐश्वर्यमिन्दुमौलेरैकत्म्यप्रकृति काञ्चिमध्यगतम् । श्रितकम्पसीमानं शिथिलितपरमशिवधैर्यमहिमानम् । आदृतकाञ्चीनिलयमाद्यामारूढयौवनाटोपाम् । तुङ्गाभिरामकुचभरशृङ्गारितमाश्रयामि काञ्चिगतम् । काञ्चीरत्नविभूषां कामपि कन्दर्पसूतिकापाङ्गीम् । कम्पातीचराणां करुणाकोरकितदृष्टिपातानाम् । आम्रतरुमूलवसतेरादिमपुरुषस्य नयनपीयूषम् । अधिकाञ्चि परमयोगिभिरादिमपरपीठसीम्नि दृश्येन । अङ्कितशङ्करदेहामङ्कुरितोरोजकङ्कणाश्लेषैः । मधुरधनुषा महीधरजनुषा नन्दामि सुरभिबाणजुषा । मधुरस्मितेन रमते मांसलकुचभारमन्दगमनेन । धरणिमयीं तरणिमयीं पवनमयीं गगनदहनहोतृमयीम् । लीनस्थिति मुनिहृदये ध्यानस्तिमितं तपस्यदुपकम्पम् । श्वेता मन्थरहसिते शाता मध्ये च वाड्भनोऽतीता । पुरतः कदा न करवै पुरवैरिविमर्दपुलकिताङ्गलताम् । पुण्या काऽपि पुरन्ध्री पुङ्खितकन्दर्पसम्पदा वपुषा । तनिमाद्वैतवलग्नं तरुणारुणसम्प्रदायतनुलेखम् । पौष्टिककर्मविपाकं पौष्पशरं सविधसीम्नि कम्पायाः । संश्रितकाञ्चीदेशे सरसिजदौर्भाग्यजाग्रदुत्तंसे । मोदितमधुकरविशिखं स्वादिमसमुदायसारकोदण्डम् । उररीकृतकाञ्चिपुरीमुपनिषदरविन्दकुहरमधुधाराम् । एणशिशुदीर्घलोचनमेनःपरिपन्थि सन्ततं भजताम् । स्मयमानमुखं काञ्चीभयमानं कमपि देवताभेदम् । कुतुकजुषि काञ्चिदेशे कुमुदतपोराशिपाकशेखरिते । वीक्षेमहि काञ्चिपुरे विपुलस्तनकलशगरिमपरवशितम् । कुरुविन्दगोत्रगात्रं कूलचरं कमपि नौमि कम्पायाः । कुडूमलितकुचकिशोरैः कुर्वाणैः काञ्चिदेशसौहार्दम् । अङ्कितकचेन केनचिदन्धङ्करणौषधेन कमलानाम् । ऊरीकरोमि सन्ततमूष्मलफालेन ललितं पुंसा । अङ्कुरितस्तनकोरकमङ्कालङ्कारमेकचूतपतेः । पुञ्जितकरुणमुदञ्चितशिञ्जितमणिकाञ्चि किमपि काञ्चिपुरे । लोलहृदयोऽस्ति शम्भोर्लोचनयुगलेन लेह्यमानायाम् । मधुकरसहचरचिकुरैर्मदनागमसमयदीक्षितकटाक्षैः । वदनारविन्दवक्षोवामाङ्कतटीवशंवदीभूता । बाधाकरीं भवाब्धेराधाराद्यम्बुजेषु विचरन्तीम् । कलयाम्यन्तः शशधरकलयाऽङ्कितमौलिममलचिद्वलयाम् । शर्वादिपरमसाधकगुर्वानीताय कामपीठजुषे । समया सान्ध्यमयूखैः समया बुद्धया सदैव शीलितया । जन्तोस्तव पदपूजनसन्तोषतरङ्गितस्य कामाक्षि । कुण्डलि कुमारि कुटिले चण्डि चराचरसवित्रि चामुण्डे । अभिदाकृतिर्भिदाकृतिरचिदाकृतिरपि चिदाकृतिर्मातः । शिव शिव पश्यन्ति समं श्रीकामाक्षीकटाक्षिताः पुरुषाः । कामपरिपन्थिकामिनि कामेश्वरि कामपीठमध्यगते । मध्येहृदयं मध्येनिटिलं मध्येशिरोऽपि वास्तव्याम् । अधिकाञ्चि केलिलोलैरखिलागमयन्त्रतन्त्रमयैः । नन्दति मम हृदि काचन मन्दिरयन्ता निरन्तरं काञ्चीम् । शम्पालतासवर्णं सम्पादयितुं भवज्वरचिकित्साम् । अनुमितकुचकाठिन्यामधिवक्षःपीठमङ्गजन्मरिपोः । ऐक्षिषि पाशाङ्कुशधरहस्तान्तं विस्मयार्हवृत्तान्तम् । आहितविलासभङ्गीमाब्रह्मस्तम्बशिल्पकल्पनया । मूकोऽपि जटिलदुर्गतिशोकोऽपि स्मरति यः क्षणं भवतीम् । पञ्चदशवर्णरूपं कञ्चन काञ्चीविहारधौरेयम् । परिणतिमतीं चतुर्धा पदवीं सुधियां समेत्य सौषुम्नीम् । आदिक्षन्मम गुरुराडादिक्षान्ताक्षरात्मिकां विद्याम् । तुष्यामि हर्षितस्मरशासनया काञ्चिपुरकृतासनया । प्रेमवती कम्पायां स्थेमवती यतिमनस्सु भूमवती । कौतुकिना कम्पायां कौसुमचापेन कीलितेनान्तः । यूना केनापि मिलद्देहा स्वाहासहायतिलकेन । कुसुमशरगर्वसम्पत्कोशगृहं भाति काञ्चिदेशगतम् । दग्धषडध्वारण्यं दरदलितकुसुम्भसम्भृतारुण्यम् । अधिकाञ्चि वर्धमानामतुलां करवाणि पारणामक्ष्णोः । बाणसृणिपाशकार्मुकपाणिममुं कमपि कामपीठगतम् । किं वा फलति ममान्यौर्बिम्बाधरचुम्बिमन्दहासमुखी । मञ्चे सदाशिवमये परिशिवमयललितपौष्पपर्यङ्के । रक्ष्योऽस्मि कामपीठीलासिकया घनकृपाम्बुराशिकया । लीये पुरहरजाये माये तव तरुणपल्लवच्छाये । मूर्तिमति मुक्तिबीजे मूर्ध्नि स्तबकितचकोरसाम्राज्ये । वेदमयीं नादमयीं बिन्दुमयीं परपदोद्यदिन्दुमयीम् । पुरमथनपुण्यकोटी पुञ्जितकविलोकसूक्तिरसधाटी । कुटिलं चटुलं पृथुलं मृदुलं कचनयनजघनचरणेषु । प्रत्यङ्मुख्या दृष्टया प्रसाददीपाङ्कुरेण कामाक्ष्याः । विद्ये विधातृविषये कात्यायनि कालि कामकोटिकले । मालिनि महेशचालिनि काञ्चीखेलिनि विपक्षकालिनि ते । देशिक इति किं शङ्के तत्तादृक्तव नु तरुणिमोन्मेषः । वेतण्डकुम्भडम्बरवैतण्डिककुचभरार्तमध्याय । अधिकाञ्चितमणिकाञ्चनकाञ्चीमधिकाञ्चि काञ्चिदद्राक्षम् । परिचितकम्पातीरं पर्वतराजन्यसुकृतसन्नाहम् । दग्धमदनस्य शम्भोः प्रथीयसीं ब्रह्मचर्यवैदग्धीम् । मदजलतमालपत्रा वसनितपत्रा करादृतखानित्रा । अङ्के शुकिनी गीते कौतुकिनी परिसरे च गायकिनी । प्रणतजनतापवर्गा कृतबहुसर्गा ससिंहसंसर्गा । श्रवणचलद्वेतण्डा समरोद्दण्डा धुतासुरशिखण्डा । उर्वीधरेन्द्रकन्ये दर्वीभरितेन भक्तपूरेण । ताडितरिपुपरिपीडनभयहरण निपुणहलमुसला । स्मरमथनवरणलोला मन्मथहेलाविलासमणिशाला । विमलपटी कमलकुटी पुस्तकरुद्राक्षशस्तहस्तपुटी । कुङ्कुमरुचिपिङ्गमसृक्पङ्किलमुण्डालिमण्डितं मातः । कनकमणिकलितभूषां कालायसकलहशीलकान्तिकलाम् । लोहितिमपुञ्जमध्ये मोहितभुवने मुदा निरीक्षन्ते । जलधिद्विगुणितहुतबहदिशादिनेश्वरकलाश्विनेयदलैः । सत्कृतदेशिकचरणाः सबीजनिर्बीजयोगनिश्रेण्या । अन्तरपि बहिरपि त्वं जन्तुततेरन्तकान्तकृदहन्ते । कलमञ्जुलवागनुमितगलपञ्जरगतशुकग्रहौत्कण्ठ्यात् । जय जय जगदम्ब शिवे जय जय कामाक्षि जय जयाद्रिसुते । आर्याशतकं भक्त्या पठतामार्याकटाक्षेण । ॥ इति आर्याशतकं सम्पूर्णम् ॥
|