View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

हनुम अष्टोत्तर शत नामावलि

ॐ श्री आञ्जनेयाय नमः ।
ॐ महावीराय नमः ।
ॐ हनुमते नमः ।
ॐ मारुतात्मजाय नमः ।
ॐ तत्त्वज्ञानप्रदाय नमः ।
ॐ सीतादेवीमुद्राप्रदायकाय नमः ।
ॐ अशोकवनिकाच्छेत्रे नमः ।
ॐ सर्वमायाविभञ्जनाय नमः ।
ॐ सर्वबन्धविमोक्त्रे नमः ।
ॐ रक्षोविध्वंसकारकाय नमः । 10 ।

ॐ परविद्यापरीहाराय नमः ।
ॐ परशौर्यविनाशनाय नमः ।
ॐ परमन्त्रनिराकर्त्रे नमः ।
ॐ परयन्त्रप्रभेदकाय नमः ।
ॐ सर्वग्रहविनाशिने नमः ।
ॐ भीमसेनसहायकृते नमः ।
ॐ सर्वदुःखहराय नमः ।
ॐ सर्वलोकचारिणे नमः ।
ॐ मनोजवाय नमः ।
ॐ पारिजातद्रुमूलस्थाय नमः । 20 ।

ॐ सर्वमन्त्रस्वरूपवते नमः ।
ॐ सर्वतन्त्रस्वरूपिणे नमः ।
ॐ सर्वयन्त्रात्मकाय नमः ।
ॐ कपीश्वराय नमः ।
ॐ महाकायाय नमः ।
ॐ सर्वरोगहराय नमः ।
ॐ प्रभवे नमः ।
ॐ बलसिद्धिकराय नमः ।
ॐ सर्वविद्यासम्पत्प्रदायकाय नमः ।
ॐ कपिसेनानायकाय नमः । 30 ।

ॐ भविष्यच्चतुराननाय नमः ।
ॐ कुमारब्रह्मचारिणे नमः ।
ॐ रत्नकुण्डलदीप्तिमते नमः ।
ॐ सञ्चलद्वालसन्नद्धलम्बमानशिखोज्ज्वलाय नमः ।
ॐ गन्धर्वविद्यातत्त्वज्ञाय नमः ।
ॐ महाबलपराक्रमाय नमः ।
ॐ कारागृहविमोक्त्रे नमः ।
ॐ शृङ्खलाबन्धमोचकाय नमः ।
ॐ सागरोत्तारकाय नमः ।
ॐ प्राज्ञाय नमः । 40 ।

ॐ रामदूताय नमः ।
ॐ प्रतापवते नमः ।
ॐ वानराय नमः ।
ॐ केसरीसुताय नमः ।
ॐ सीताशोकनिवारकाय नमः ।
ॐ अञ्जनागर्भसम्भूताय नमः ।
ॐ बालार्कसदृशाननाय नमः ।
ॐ विभीषणप्रियकराय नमः ।
ॐ दशग्रीवकुलान्तकाय नमः ।
ॐ लक्ष्मणप्राणदात्रे नमः । 50 ।

ॐ वज्रकायाय नमः ।
ॐ महाद्युतये नमः ।
ॐ चिरञ्जीविने नमः ।
ॐ रामभक्ताय नमः ।
ॐ दैत्यकार्यविघातकाय नमः ।
ॐ अक्षहन्त्रे नमः ।
ॐ काञ्चनाभाय नमः ।
ॐ पञ्चवक्त्राय नमः ।
ॐ महातपसे नमः ।
ॐ लङ्किणीभञ्जनाय नमः । 60 ।

ॐ श्रीमते नमः ।
ॐ सिंहिकाप्राणभञ्जनाय नमः ।
ॐ गन्धमादनशैलस्थाय नमः ।
ॐ लङ्कापुरविदाहकाय नमः ।
ॐ सुग्रीवसचिवाय नमः ।
ॐ धीराय नमः ।
ॐ शूराय नमः ।
ॐ दैत्यकुलान्तकाय नमः ।
ॐ सुरार्चिताय नमः ।
ॐ महातेजसे नमः । 70 ।

ॐ रामचूडामणिप्रदाय नमः ।
ॐ कामरूपिणे नमः ।
ॐ पिङ्गलाक्षाय नमः ।
ॐ वार्धिमैनाकपूजिताय नमः ।
ॐ कबलीकृतमार्ताण्डमण्डलाय नमः ।
ॐ विजितेन्द्रियाय नमः ।
ॐ रामसुग्रीवसन्धात्रे नमः ।
ॐ महिरावणमर्दनाय नमः ।
ॐ स्फटिकाभाय नमः ।
ॐ वागधीशाय नमः । 80 ।

ॐ नवव्याकृतिपण्डिताय नमः ।
ॐ चतुर्बाहवे नमः ।
ॐ दीनबन्धवे नमः ।
ॐ महात्मने नमः ।
ॐ भक्तवत्सलाय नमः ।
ॐ सञ्जीवननगाहर्त्रे नमः ।
ॐ शुचये नमः ।
ॐ वाग्मिने नमः ।
ॐ दृढव्रताय नमः ।
ॐ कालनेमिप्रमथनाय नमः । 90 ।

ॐ हरिमर्कटमर्कटाय नमः ।
ॐ दान्ताय नमः ।
ॐ शान्ताय नमः ।
ॐ प्रसन्नात्मने नमः ।
ॐ शतकण्ठमदापहृते नमः ।
ॐ योगिने नमः ।
ॐ रामकथालोलाय नमः ।
ॐ सीतान्वेषणपण्डिताय नमः ।
ॐ वज्रदंष्ट्राय नमः ।
ॐ वज्रनखाय नमः । 100 ।

ॐ रुद्रवीर्यसमुद्भवाय नमः ।
ॐ इन्द्रजित्प्रहितामोघब्रह्मास्त्रविनिवारकाय नमः ।
ॐ पार्थध्वजाग्रसंवासिने नमः ।
ॐ शरपञ्जरभेदकाय नमः ।
ॐ दशबाहवे नमः ।
ॐ लोकपूज्याय नमः ।
ॐ जाम्बवत्प्रीतिवर्धनाय नमः ।
ॐ सीतासमेतश्रीरामपादसेवाधुरन्धराय नमः । 108 ।

इति श्रीमदाञ्जनेयाष्टोत्तरशतनामावलिः ।




Browse Related Categories: