View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

गुरु पादुका स्तोत्रम्

अनंतसंसारसमुद्रतार-
नौकायिताभ्यां गुरुभक्तिदाभ्याम् ।
वैराग्यसाम्राज्यदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 1 ॥

कवित्ववाराशिनिशाकराभ्यां
दौर्भाग्यदावांबुदमालिकाभ्याम् ।
दूरीकृतानम्रविपत्तिताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 2 ॥

नता ययोः श्रीपतितां समीयुः
कदाचिदप्याशु दरिद्रवर्याः ।
मूकाश्च वाचस्पतितां हि ताभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 3 ॥

नालीकनीकाशपदाहृताभ्यां
नानाविमोहादिनिवारिकाभ्याम् ।
नमज्जनाभीष्टततिप्रदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 4 ॥

नृपालिमौलिव्रजरत्नकांति-
सरिद्विराजज्झषकन्यकाभ्याम् ।
नृपत्वदाभ्यां नतलोकपंक्तेः
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 5 ॥

पापांधकारार्कपरंपराभ्यां
तापत्रयाहींद्रखगेश्वराभ्याम् ।
जाड्याब्धिसंशोषणवाडवाभ्याम्
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 6 ॥

शमादिषट्कप्रदवैभवाभ्यां
समाधिदानव्रतदीक्षिताभ्याम् ।
रमाधवांघ्रिस्थिरभक्तिदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 7 ॥

स्वार्चापराणामखिलेष्टदाभ्यां
स्वाहासहायाक्षधुरंधराभ्याम् ।
स्वांताच्छभावप्रदपूजनाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 8 ॥

कामादिसर्पव्रजगारुडाभ्यां
विवेकवैराग्यनिधिप्रदाभ्याम् ।
बोधप्रदाभ्यां द्रुतमोक्षदाभ्यां
नमो नमः श्रीगुरुपादुकाभ्याम् ॥ 9 ॥




Browse Related Categories: