View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

गोविन्दाष्टकम्

सत्यं ज्ञानमनन्तं नित्यमनाकाशं परमाकाशम् ।
गोष्ठप्राङ्गणरिङ्खणलोलमनायासं परमायासम् ।
मायाकल्पितनानाकारमनाकारं भुवनाकारम् ।
क्ष्मामानाथमनाथं प्रणमत गोविन्दं परमानन्दम् ॥ 1 ॥

मृत्स्नामत्सीहेति यशोदाताडनशैशव सन्त्रासम् ।
व्यादितवक्त्रालोकितलोकालोकचतुर्दशलोकालिम् ।
लोकत्रयपुरमूलस्तम्भं लोकालोकमनालोकम् ।
लोकेशं परमेशं प्रणमत गोविन्दं परमानन्दम् ॥ 2 ॥

त्रैविष्टपरिपुवीरघ्नं क्षितिभारघ्नं भवरोगघ्नम् ।
कैवल्यं नवनीताहारमनाहारं भुवनाहारम् ।
वैमल्यस्फुटचेतोवृत्तिविशेषाभासमनाभासम् ।
शैवं केवलशान्तं प्रणमत गोविन्दं परमानन्दम् ॥ 3 ॥

गोपालं प्रभुलीलाविग्रहगोपालं कुलगोपालम् ।
गोपीखेलनगोवर्धनधृतिलीलालालितगोपालम् ।
गोभिर्निगदित गोविन्दस्फुटनामानं बहुनामानम् ।
गोपीगोचरदूरं प्रणमत गोविन्दं परमानन्दम् ॥ 4 ॥

गोपीमण्डलगोष्ठीभेदं भेदावस्थमभेदाभम् ।
शश्वद्गोखुरनिर्धूतोद्गत धूलीधूसरसौभाग्यम् ।
श्रद्धाभक्तिगृहीतानन्दमचिन्त्यं चिन्तितसद्भावम् ।
चिन्तामणिमहिमानं प्रणमत गोविन्दं परमानन्दम् ॥ 5 ॥

स्नानव्याकुलयोषिद्वस्त्रमुपादायागमुपारूढम् ।
व्यादित्सन्तीरथ दिग्वस्त्रा दातुमुपाकर्षन्तं ताः
निर्धूतद्वयशोकविमोहं बुद्धं बुद्धेरन्तस्थम् ।
सत्तामात्रशरीरं प्रणमत गोविन्दं परमानन्दम् ॥ 6 ॥

कान्तं कारणकारणमादिमनादिं कालधनाभासम् ।
कालिन्दीगतकालियशिरसि सुनृत्यन्तम् मुहुरत्यन्तं ।
कालं कालकलातीतं कलिताशेषं कलिदोषघ्नम् ।
कालत्रयगतिहेतुं प्रणमत गोविन्दं परमानन्दम् ॥ 7 ॥

बृन्दावनभुवि बृन्दारकगणबृन्दाराधितवन्देहं ।
कुन्दाभामलमन्दस्मेरसुधानन्दं सुहृदानन्दं ।
वन्द्याशेष महामुनि मानस वन्द्यानन्दपदद्वन्द्वम् ।
वन्द्याशेषगुणाब्धिं प्रणमत गोविन्दं परमानन्दम् ॥ 8 ॥

गोविन्दाष्टकमेतदधीते गोविन्दार्पितचेता यः ।
गोविन्दाच्युत माधव विष्णो गोकुलनायक कृष्णेति ।
गोविन्दाङ्घ्रि सरोजध्यानसुधाजलधौतसमस्ताघः ।
गोविन्दं परमानन्दामृतमन्तस्थं स तमभ्येति ॥

इति श्री शङ्कराचार्य विरचित श्रीगोविन्दाष्टकं समाप्तं












Last Updated: 27 December, 2020