View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

गणेश अष्टोत्तर शत नाम स्तोत्रम्

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कंदाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदोऽव्ययः
सर्वसिद्धिप्रद-श्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रिय-श्शांतो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदंत-श्चतुर्बाहु-श्चतुर-श्शक्तिसंयुतः ॥ 4 ॥

लंबोदर-श्शूर्पकर्णो हर-र्ब्रह्मविदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशांकुशधर-श्चंडो गुणातीतो निरंजनः ।
अकल्मष-स्स्वयंसिद्ध-स्सिद्धार्चितपदांबुजः ॥ 6 ॥

बीजपूरफलासक्तो वरद-श्शाश्वतः कृती ।
विद्वत् प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोऽज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥

चंद्रचूडामणिः कांतः पापहारी समाहितः ।
अश्रित-श्रीकर-स्सौम्यो भक्तवांछितदायकः ॥ 9 ॥

शांतः कैवल्यसुखद-स्सच्चिदानंदविग्रहः ।
ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥ 10 ॥

प्रमत्तदैत्यभयदः श्रीकंठो विबुधेश्वरः ।
रमार्चितो निधि-र्नागराजयज्ञोपवीतवान् ॥ 11 ॥

स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः ।
स्थूलतुंडोऽग्रणी-र्धीरो वागीशः-सिद्धिदायकः ॥ 12 ॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्ति-रद्भुतमूर्तिमान् ।
शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसः ॥ 13 ॥

स्वलावण्यसुधासारजितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥ 14 ॥

हृष्ट-स्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ 15 ॥

तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुद्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलै-र्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

इति विघ्नेश्वराष्टोत्तर शतनामस्तोत्रं संपूर्णम्







Browse Related Categories: