View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

गणेश अष्टोत्तर शत नाम स्तोत्रम्

विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः ।
स्कन्दाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥

अग्निगर्वच्छिदिन्द्रश्रीप्रदो वाणीप्रदोऽव्ययः
सर्वसिद्धिप्रद-श्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥

सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः ।
शुद्धो बुद्धिप्रिय-श्शान्तो ब्रह्मचारी गजाननः ॥ 3 ॥

द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः ।
एकदन्त-श्चतुर्बाहु-श्चतुर-श्शक्तिसंयुतः ॥ 4 ॥

लम्बोदर-श्शूर्पकर्णो हर-र्ब्रह्मविदुत्तमः ।
कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥

पाशाङ्कुशधर-श्चण्डो गुणातीतो निरञ्जनः ।
अकल्मष-स्स्वयंसिद्ध-स्सिद्धार्चितपदाम्बुजः ॥ 6 ॥

बीजपूरफलासक्तो वरद-श्शाश्वतः कृती ।
विद्वत् प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥

श्रीदोऽज उत्पलकरः श्रीपतिः स्तुतिहर्षितः ।
कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥

चन्द्रचूडामणिः कान्तः पापहारी समाहितः ।
अश्रित-श्रीकर-स्सौम्यो भक्तवाञ्छितदायकः ॥ 9 ॥

शान्तः कैवल्यसुखद-स्सच्चिदानन्दविग्रहः ।
ज्ञानी दयायुतो दान्तो ब्रह्मद्वेषविवर्जितः ॥ 10 ॥

प्रमत्तदैत्यभयदः श्रीकण्ठो विबुधेश्वरः ।
रमार्चितो निधि-र्नागराजयज्ञोपवीतवान् ॥ 11 ॥

स्थूलकण्ठः स्वयङ्कर्ता सामघोषप्रियः परः ।
स्थूलतुण्डोऽग्रणी-र्धीरो वागीशः-सिद्धिदायकः ॥ 12 ॥

दूर्वाबिल्वप्रियोऽव्यक्तमूर्ति-रद्भुतमूर्तिमान् ।
शैलेन्द्रतनुजोत्सङ्गखेलनोत्सुकमानसः ॥ 13 ॥

स्वलावण्यसुधासारजितमन्मथविग्रहः ।
समस्तजगदाधारो मायी मूषकवाहनः ॥ 14 ॥

हृष्ट-स्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः ।
अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ 15 ॥

तुष्टाव शङ्करः पुत्रं त्रिपुरं हन्तुमुद्यतः ।
यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥

दूर्वादलै-र्बिल्वपत्रैः पुष्पैर्वा चन्दनाक्षतैः ।
सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥

इति विघ्नेश्वराष्टोत्तर शतनामस्तोत्रं सम्पूर्णम्







Browse Related Categories: