Hindi

Devi Mahatmyam Keelaka Stotram – Hindi

Comments Off on Devi Mahatmyam Keelaka Stotram – Hindi 05 October 2011

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: ऋषि मार्कंडेय

अस्य श्री कीलक स्तोत्र महा मंत्रस्य । शिव ऋषिः । अनुष्टुप् छंदः । महासरस्वती देवता । मंत्रोदित देव्यो बीजम् । नवार्णो मंत्रशक्ति।श्री सप्त शती मंत्र स्तत्वं स्री जगदंबा प्रीत्यर्थे सप्तशती पाठांगत्वएन जपे विनियोगः ।

ॐ नमश्चंडिकायै
मार्कंडेय उवाच

ॐ विशुद्ध ज्ञानदेहाय त्रिवेदी दिव्यचक्षुषे ।
श्रेयः प्राप्ति निमित्ताय नमः सोमार्थ धारिणे ॥१॥

सर्वमेत द्विजानीयान्मंत्राणापि कीलकम् ।
सो‌உपि क्षेममवाप्नोति सततं जाप्य तत्परः ॥२॥

सिद्ध्यंतुच्चाटनादीनि कर्माणि सकलान्यपि ।
एतेन स्तुवतां देवीं स्तोत्रवृंदेन भक्तितः ॥३॥

न मंत्रो नौषधं तस्य न किंचि दपि विध्यते ।
विना जाप्यम् न सिद्ध्येत्तु सर्व मुच्चाटनादिकम् ॥४॥

समग्राण्यपि सेत्स्यंति लोकशज्ञ्का मिमां हरः ।
कृत्वा निमंत्रयामास सर्व मेव मिदं शुभम् ॥५॥

स्तोत्रंवै चंडिकायास्तु तच्च गुह्यं चकार सः ।
समाप्नोति सपुण्येन तां यथावन्निमंत्रणां ॥६॥

सोपि‌உक्षेम मवाप्नोति सर्व मेव न संशयः ।
कृष्णायां वा चतुर्दश्याम् अष्टम्यां वा समाहितः ॥६॥

ददाति प्रतिगृह्णाति नान्य थैषा प्रसीदति ।
इत्थं रूपेण कीलेन महादेवेन कीलितम्। ॥८॥

यो निष्कीलां विधायैनां चंडीं जपति नित्य शः ।
स सिद्धः स गणः सो‌உथ गंधर्वो जायते ध्रुवम् ॥९॥

न चैवा पाटवं तस्य भयं क्वापि न जायते ।
नाप मृत्यु वशं याति मृतेच मोक्षमाप्नुयात् ॥१०॥

ज्ञात्वाप्रारभ्य कुर्वीत ह्यकुर्वाणो विनश्यति ।
ततो ज्ञात्वैव संपूर्नम् इदं प्रारभ्यते बुधैः ॥११॥

सौभाग्यादिच यत्किंचिद् दृश्यते ललनाजने ।
तत्सर्वं तत्प्रसादेन तेन जप्यमिदं शुभं ॥१२॥

शनैस्तु जप्यमाने‌உस्मिन् स्तोत्रे संपत्तिरुच्चकैः।
भवत्येव समग्रापि ततः प्रारभ्यमेवतत् ॥१३॥

ऐश्वर्यं तत्प्रसादेन सौभाग्यारोग्यमेवचः ।
शत्रुहानिः परो मोक्षः स्तूयते सान किं जनै ॥१४॥

चण्दिकां हृदयेनापि यः स्मरेत् सततं नरः ।
हृद्यं काममवाप्नोति हृदि देवी सदा वसेत् ॥१५॥

अग्रतो‌உमुं महादेव कृतं कीलकवारणम् ।
निष्कीलंच तथा कृत्वा पठितव्यं समाहितैः ॥१६॥

॥ इति श्री भगवती कीलक स्तोत्रं समाप्तम् ॥

Comments are closed.

Join on Facebook, Twitter

Browse by Popular Topics