Devanagari,Sanskrit,Hindi

Devi Mahatmyam Durga Saptasati Chapter 3 – Devanagari

0 Comments 05 October 2011

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
 

रचन: ऋषि मार्कण्डेय

महिषासुरवधो नाम तृतीयो‌உध्यायः ॥

ध्यानं
ॐ उद्यद्भानुसहस्रकान्तिम् अरुणक्षौमां शिरोमालिकां
रक्तालिप्त पयोधरां जपवटीं विद्यामभीतिं वरम् ।
हस्ताब्जैर्धधतीं त्रिनेत्रवक्त्रारविन्दश्रियं
देवीं बद्धहिमांशुरत्नमकुटां वन्दे‌உरविन्दस्थिताम् ॥

ऋषिरुवाच ॥1॥

निहन्यमानं तत्सैन्यम् अवलोक्य महासुरः।
सेनानीश्चिक्षुरः कोपाद् ध्ययौ योद्धुमथाम्बिकाम् ॥2॥

स देवीं शरवर्षेण ववर्ष समरे‌உसुरः।
यथा मेरुगिरेःशृङ्गं तोयवर्षेण तोयदः ॥3॥

तस्य छित्वा ततो देवी लीलयैव शरोत्करान्।
जघान तुरगान्बाणैर्यन्तारं चैव वाजिनाम् ॥4॥

चिच्छेद च धनुःसध्यो ध्वजं चातिसमुच्छृतम्।
विव्याध चैव गात्रेषु चिन्नधन्वानमाशुगैः ॥5॥

सच्छिन्नधन्वा विरथो हताश्वो हतसारथिः।
अभ्यधावत तां देवीं खड्गचर्मधरो‌உसुरः ॥6॥

सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्धनि।
आजघान भुजे सव्ये देवीम् अव्यतिवेगवान् ॥6॥

तस्याः खड्गो भुजं प्राप्य पफाल नृपनन्दन।
ततो जग्राह शूलं स कोपाद् अरुणलोचनः ॥8॥

चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः।
जाज्वल्यमानं तेजोभी रविबिम्बमिवाम्बरात् ॥9॥

दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत।
तच्छूलंशतधा तेन नीतं शूलं स च महासुरः ॥10॥

हते तस्मिन्महावीर्ये महिषस्य चमूपतौ।
आजगाम गजारूडः श्चामरस्त्रिदशार्दनः ॥11॥

सो‌உपि शक्तिंमुमोचाथ देव्यास्ताम् अम्बिका द्रुतम्।
हुङ्काराभिहतां भूमौ पातयामासनिष्प्रभाम् ॥12॥

भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः
चिक्षेप चामरः शूलं बाणैस्तदपि साच्छिनत् ॥13॥

ततः सिंहःसमुत्पत्य गजकुन्तरे म्भान्तरेस्थितः।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥14॥

युध्यमानौ ततस्तौ तु तस्मान्नागान्महीं गतौ
युयुधाते‌உतिसंरब्धौ प्रहारै अतिदारुणैः ॥15॥

ततो वेगात् खमुत्पत्य निपत्य च मृगारिणा।
करप्रहारेण शिरश्चामरस्य पृथक् कृतम् ॥16॥

उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः।
दन्त मुष्टितलैश्चैव करालश्च निपातितः ॥17॥

देवी कृद्धा गदापातैः श्चूर्णयामास चोद्धतम्।
भाष्कलं भिन्दिपालेन बाणैस्ताम्रं तथान्धकम् ॥18॥

उग्रास्यमुग्रवीर्यं च तथैव च महाहनुम्
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥19॥

बिडालस्यासिना कायात् पातयामास वै शिरः।
दुर्धरं दुर्मुखं चोभौ शरैर्निन्ये यमक्षयम् ॥20॥

एवं सङ्क्षीयमाणे तु स्वसैन्ये महिषासुरः।
माहिषेण स्वरूपेण त्रासयामासतान् गणान् ॥21॥

कांश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथापरान्।
लाङ्गूलताडितांश्चान्यान् शृङ्गाभ्यां च विदारिता ॥22॥

वेगेन कांश्चिदपरान्नादेन भ्रमणेन च।
निः श्वासपवनेनान्यान् पातयामास भूतले॥23॥

निपात्य प्रमथानीकमभ्यधावत सो‌உसुरः
सिंहं हन्तुं महादेव्याः कोपं चक्रे ततो‌உम्भिका ॥24॥

सो‌உपि कोपान्महावीर्यः खुरक्षुण्णमहीतलः।
शृङ्गाभ्यां पर्वतानुच्चांश्चिक्षेप च ननाद च ॥25॥

वेग भ्रमण विक्षुण्णा मही तस्य व्यशीर्यत।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्वतः ॥26॥

धुतशृङ्ग्विभिन्नाश्च खण्डं खण्डं ययुर्घनाः।
श्वासानिलास्ताः शतशो निपेतुर्नभसो‌உचलाः ॥27॥

इतिक्रोधसमाध्मातमापतन्तं महासुरम्।
दृष्ट्वा सा चण्डिका कोपं तद्वधाय तदा‌உकरोत् ॥28॥

सा क्षित्प्वा तस्य वैपाशं तं बबन्ध महासुरम्।
तत्याजमाहिषं रूपं सो‌உपि बद्धो महामृधे ॥29॥

ततः सिंहो‌உभवत्सध्यो यावत्तस्याम्बिका शिरः।
छिनत्ति तावत् पुरुषः खड्गपाणि रदृश्यत ॥30॥

तत एवाशु पुरुषं देवी चिच्छेद सायकैः।
तं खड्गचर्मणा सार्धं ततः सो‌உ भून्महा गजः ॥31॥

करेण च महासिंहं तं चकर्ष जगर्जच ।
कर्षतस्तु करं देवी खड्गेन निरकृन्तत ॥32॥

ततो महासुरो भूयो माहिषं वपुरास्थितः।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥33॥

ततः क्रुद्धा जगन्माता चण्डिका पान मुत्तमम्।
पपौ पुनः पुनश्चैव जहासारुणलोचना ॥34॥

ननर्द चासुरः सो‌உपि बलवीर्यमदोद्धतः।
विषाणाभ्यां च चिक्षेप चण्डिकां प्रतिभूधरान् ॥35॥

सा च ता न्प्रहितां स्तेन चूर्णयन्ती शरोत्करैः।
उवाच तं मदोद्धूतमुखरागाकुलाक्षरम् ॥36॥

देव्यु‌उवाच॥

गर्ज गर्ज क्षणं मूढ मधु यावत्पिबाम्यहम्।
मयात्वयि हते‌உत्रैव गर्जिष्यन्त्याशु देवताः ॥37॥

ऋषिरुवाच॥

एवमुक्त्वा समुत्पत्य सारूढा तं महासुरम्।
पादेना क्रम्य कण्ठे च शूलेनैन मताडयत् ॥38॥

ततः सो‌உपि पदाक्रान्तस्तया निजमुखात्ततः।
अर्ध निष्क्रान्त एवासीद्देव्या वीर्येण संवृतः ॥40॥

अर्ध निष्क्रान्त एवासौ युध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्त्वा निपातितः ॥41॥

ततो हाहाकृतं सर्वं दैत्यसैन्यं ननाश तत्।
प्रहर्षं च परं जग्मुः सकला देवतागणाः ॥42॥

तुष्टु वुस्तां सुरा देवीं सहदिव्यैर्महर्षिभिः।
जगुर्गुन्धर्वपतयो ननृतुश्चाप्सरोगणाः ॥43॥

॥ इति श्री मार्कण्डेय पुराणे सावर्निके मन्वन्तरे देवि महत्म्ये महिषासुरवधो नाम तृतीयो‌உध्यायं समाप्तम् ॥

आहुति
ह्रीं जयन्ती साङ्गायै सायुधायै सशक्तिकायै सपरिवारायै सवाहनायै श्री महालक्ष्म्यै लक्ष्मी बीजादिष्टायै महाहुतिं समर्पयामि नमः स्वाहा ॥

Share your view

Post a comment

Join on Facebook, Twitter

Browse by Popular Topics