View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

चंद्र कवचम्

अस्य श्री चंद्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छंदः । श्री चंद्रो देवता । चंद्र प्रीत्यर्थे जपे विनियोगः ॥

ध्यानं

समं चतुर्भुजं वंदे केयूर मकुटोज्वलम् ।
वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥

अथ चंद्र कवचम्

शशी पातु शिरोदेशं भालं पातु कलानिधिः ।
चक्षुषी चंद्रमाः पातु श्रुती पातु निशापतिः ॥ 1 ॥

प्राणं क्षपकरः पातु मुखं कुमुदबांधवः ।
पातु कंठं च मे सोमः स्कंधे जैवातृकस्तथा ॥ 2 ॥

करौ सुधाकरः पातु वक्षः पातु निशाकरः ।
हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः ॥ 3 ॥

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।
ऊरू तारापतिः पातु मृगांको जानुनी सदा ॥ 4 ॥

अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा ।
सर्वाण्यन्यानि चांगानि पातु चंद्रोखिलं वपुः ॥ 5 ॥

फलश्रुतिः
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 6 ॥

॥ इति श्रीचंद्र कवचं संपूर्णम् ॥




Browse Related Categories: