View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

चन्द्र कवचम्

अस्य श्री चन्द्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छन्दः । श्री चन्द्रो देवता । चन्द्र प्रीत्यर्थे जपे विनियोगः ॥

ध्यानं

समं चतुर्भुजं वन्दे केयूर मकुटोज्वलम् ।
वासुदेवस्य नयनं शङ्करस्य च भूषणम् ॥

एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥

अथ चन्द्र कवचम्

शशी पातु शिरोदेशं भालं पातु कलानिधिः ।
चक्षुषी चन्द्रमाः पातु श्रुती पातु निशापतिः ॥ 1 ॥

प्राणं क्षपकरः पातु मुखं कुमुदबान्धवः ।
पातु कण्ठं च मे सोमः स्कन्धे जैवातृकस्तथा ॥ 2 ॥

करौ सुधाकरः पातु वक्षः पातु निशाकरः ।
हृदयं पातु मे चन्द्रो नाभिं शङ्करभूषणः ॥ 3 ॥

मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ।
ऊरू तारापतिः पातु मृगाङ्को जानुनी सदा ॥ 4 ॥

अब्धिजः पातु मे जङ्घे पातु पादौ विधुः सदा ।
सर्वाण्यन्यानि चाङ्गानि पातु चन्द्रोखिलं वपुः ॥ 5 ॥

फलश्रुतिः
एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ।
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 6 ॥

॥ इति श्रीचन्द्र कवचं सम्पूर्णम् ॥




Browse Related Categories: