Hindi

Devi Aswadhati (Amba Stuti) – Hindi

Comments Off on Devi Aswadhati (Amba Stuti) – Hindi 10 April 2016

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: कालिदास

(कालिदास कृतम्)

चेटी भवन्निखिल खेटी कदंबवन वाटीषु नाकि पटली
कोटीर चारुतर कोटी मणीकिरण कोटी करंबित पदा ।
पाटीरगंधि कुचशाटी कवित्व परिपाटीमगाधिप सुता
घोटीखुरादधिक धाटीमुदार मुख वीटीरसेन तनुताम् ॥ १ ॥ शा. ॥

द्वैपायन प्रभृति शापायुध त्रिदिव सोपान धूलि चरणा
पापापह स्वमनु जापानुलीन जन तापापनोद निपुणा ।
नीपालया सुरभि धूपालका दुरितकूपादुदन्चयतुमाम्
रूपाधिका शिखरि भूपाल वंशमणि दीपायिता भगवती ॥ २ ॥ शा. ॥

यालीभि रात्मतनुतालीनकृत्प्रियक पालीषु खेलति भवा
व्याली नकुल्यसित चूली भरा चरण धूली लसन्मणिगणा ।
याली भृति श्रवसि ताली दलं वहति यालीक शोभि तिलका
साली करोतु मम काली मनः स्वपद नालीक सेवन विधौ ॥ ३ ॥ शा. ॥

बालामृतांशु निभ फालामना गरुण चेला नितंब फलके
कोलाहल क्षपित कालामराकुशल कीलाल शोषण रविः ।
स्थूलाकुचे जलद नीलाकचे कलित वीला कदंब विपिने
शूलायुध प्रणति शीला दधातु हृदि शैलाधि राज तनया ॥ ४ ॥ शा. ॥

कंबावतीव सविडंबा गलेन नव तुंबाभ वीण सविधा
बिंबाधरा विनत शंबायुधादि निकुरुंबा कदंब विपिने ।
अंबा कुरंग मदजंबाल रोचि रिह लंबालका दिशतु मे
शं बाहुलेय शशि बिंबाभि राम मुख संबाधिता स्तन भरा ॥ ५ ॥ शा. ॥

दासायमान सुमहासा कदंबवन वासा कुसुंभ सुमनो
वासा विपंचि कृत रासा विधूत मधु मासारविंद मधुरा ।
कासार सून तति भासाभिराम तनु रासार शीत करुणा
नासा मणि प्रवर भासा शिवा तिमिर मासाये दुपरतिम् ॥ ६ ॥ शा. ॥

न्यंकाकरे वपुषि कंकाल रक्त पुषि कंकादि पक्षि विषये
त्वं कामना मयसि किं कारणं हृदय पंकारि मे हि गिरिजाम् ।
शंकाशिला निशित टंकायमान पद संकाशमान सुमनो
झंकारि भृंगतति मंकानुपेत शशि संकाश वक्त्र कमलाम् ॥ ७ ॥ शा. ॥

जंभारि कुंभि पृथु कुंभापहासि कुच संभाव्य हार लतिका
रंभा करींद्र कर दंभापहोरुगति डिंभानुरंजित पदा ।
शंभा उदार परिरंभांकुरत् पुलक दंभानुराग पिशुना
शं भासुराभरण गुंभा सदा दिशतु शुंभासुर प्रहरणा ॥ ८ ॥ शा. ॥

दाक्षायणी दनुज शिक्षा विधौ विकृत दीक्षा मनोहर गुणा
भिक्षाशिनो नटन वीक्षा विनोद मुखि दक्षाध्वर प्रहरणा ।
वीक्षां विधेहि मयि दक्षा स्वकीय जन पक्षा विपक्ष विमुखी
यक्षेश सेवित निराक्षेप शक्ति जय लक्षावधान कलना ॥ ९ ॥ शा. ॥

वंदारु लोक वर संधायिनी विमल कुंदावदात रदना
बृंदारु बृंद मणि बृंदारविंद मकरंदाभिषिक्त चरणा ।
मंदानिला कलित मंदार दामभिरमंदाभिराम मकुटा
मंदाकिनी जवन भिंदान वाचमरविंदानना दिशतु मे ॥ १० ॥ शा. ॥

यत्राशयो लगति तत्रागजा भवतु कुत्रापि निस्तुल शुका
सुत्राम काल मुख सत्रासकप्रकर सुत्राण कारि चरणा ।
छत्रानिलातिरय पत्त्राभिभिराम गुण मित्रामरी सम वधूः
कु त्रासहीन मणि चित्राकृति स्फुरित पुत्रादि दान निपुणा ॥ ११ ॥ शा. ॥

कूलातिगामि भय तूलावलिज्वलनकीला निजस्तुति विधा
कोलाहलक्षपित कालामरी कुशल कीलाल पोषण रता ।
स्थूलाकुचे जलद नीलाकचे कलित लीला कदंब विपिने
शूलायुध प्रणति शीला विभातु हृदि शैलाधिराज तनया ॥ १२ ॥ शा. ॥

इंधान कीर मणिबंधा भवे हृदयबंधा वतीव रसिका
संधावती भुवन संधारणे प्यमृत सिंधावुदार निलया ।
गंधानुभाव मुहुरंधालि पीत कच बंधा समर्पयतु मे
शं धाम भानुमपि रुंधान माशु पद संधान मप्यनुगता ॥ १३ ॥ शा. ॥

Hindi

Bhartruhari Sataka Trisati – Vairaagya Satakam – Hindi

No Comments 24 December 2014

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: भर्तृहरि

चूडोत्तंसितचंद्रचारुकलिकाचंचच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अंतःस्फूर्जद्‌अपारमोहतिमिरप्राग्भारम् उच्चाटयन्
श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ ३.१ ॥

भ्रांतं देशम् अनेकदुर्गविषमं प्राप्तं न किंचित्फलं
त्यक्त्वा जातिकुलाभिमानम् उचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृहेष्वाशंकया काकवत्
तृष्णे जृंभसि पापकर्मपिशुने नाद्यापि संतुष्यसि ॥ ३.२ ॥

उत्खातं निधिशंकया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन संतोषिताः ।
मंत्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटको‌உपि न मया तृष्णे सकामा भव ॥ ३.३ ॥

खलालापाः सौढाः कथम् अपि तद्‌आराधनपरैर्निगृह्यांतर्
बाष्पं हसितम् अपि शून्येन मनसा ।
कृतो वित्तस्तंभप्रतिहतधियाम् अंजलिरपि
त्वम् आशे मोघाशे किम अपरम् अतो नर्तयसि माम् ॥ ३.४ ॥

अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यद्‌आढ्यानाम् अग्रे द्रविणमदनिःसंज्ञमनसां
कृतं मावव्रीडैर्निजगुणकथापातकम् अपि ॥ ३.५ ॥

क्षांतं न क्षमया गृहोचितसुखं त्यक्तं न संतोषतः
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।
ध्यातं वित्तम् अहर्निशं नित्यमितप्राणैर्न शंभोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वंचिताः ॥ ३.६ ॥

भोगा न भुक्ता वयम् एव भुक्तास्
तपो न तप्तं वयम् एव तप्ताः ।
कालो न यातो वयम् एव यातास्तृष्णा
न जीर्णा वयम् एव जीर्णाः ॥ ३.७ ॥

बलिभिर्मुखम् आक्रांतं पलितेनांकितं शिरः ।
गात्राणि शिथिलायंते तृष्णैका तरुणायते ॥ ३.८ ॥

विवेकव्याकोशे विदधति समे शाम्यति तृषा
परिष्वंगे तुंगे प्रसरतितरां सा परिणता ।
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं
यस्यां भवति मरुताम् अप्यधिपतिः ॥ ३.८१ ॥

निवृत्ता भोगेच्छा पुरुषबहुमानो‌உपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ ३.९ ॥

आशा नाम नदी मनोरथजला तृष्णातरंगाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुंगचिंतातटी
तस्याः परगता विशुद्धम् अलसो नंदंति योगीश्वराः ॥ ३.१० ॥

न संसारोत्पन्नं चरितम् अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महांतो जायंते व्यसनम् इव दातुं विषयिणाम् ॥ ३.११ ॥

अवश्यं यातारश्चिरतरम् उषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयम् अमून् ।
व्रजंतः स्वातंत्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखम् अनंतं विदधति ॥ ३.१२ ॥

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वंत्यहो दुष्करं
यन्मुंचंत्युपभोगभांज्यपि धनान्येकांततो निःस्पृहाः ।
संप्रातान्न पुरा न संप्रति न च प्राप्तौ दृढप्रत्ययान्
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ ३.१३ ॥

धन्यानां गिरिकंदरेषु वसतां ज्योतिः परं ध्यायतामानंदाश्रु
जलं पिबंति शकुना निःशंकम् अंकेशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा
काननकेलिकौतुकजुषाम् आयुः परं क्षीयते ॥ ३.१४ ॥

भिक्षाशतं तदपि नीरसम् एकबारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखंडमयी च कंथा
हा हा तथापि विषया न परित्यजंति ॥ ३.१५ ॥

स्तनौ मांसग्रंथी कनककलशावित्युपमिती
मुखं श्लेष्मागारं तदपि च शशांकेन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निंद्यं रूपं कविजनविशेषैर्गुरुकृतम् ॥ ३.१६ ॥

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासंगो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः
शेषः कामविडंबितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ ३.१७ ॥

अजानंदाहात्म्यं पततु शलभस्तीव्रदहने
स मीनो‌உप्यज्ञानाद्बडिशयुतम् अश्नातु पिशितम् ।
विजानंतो‌உप्येते वयम् इह वियज्जालजटिलान्
न मुंचामः कानाम् अहह गहनो मोहमहिमा ॥ ३.१८ ॥

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरम् आलिंगति वधूं
प्रतीकारं व्याधः सुखम् इति विपर्यस्यति जनः ॥ ३.१९ ॥

तुंगं वेश्म सुताः सताम् अभिमताः संख्यातिगाः संपदः
कल्याणी दयिता वयश्च नवम् इत्यज्ञानमूढो जनः ।
मत्वा विश्वम् अनश्वरं निविशते संसारकारागृहे
संदृश्य क्षणभंगुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ ३.२० ॥

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णांबरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभंगभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ ३.२१ ॥

अभिमतमहामानग्रंथिप्रभेदपटीयसी
गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचंद्रिका ।
विपुलविलल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुस्पुरेयं करोति विडंबनम् ॥ ३.२२ ॥

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकंठे ।
द्वारं द्वारं प्रविष्टो वरम् उदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः ॥ ३.२३ ॥

गंगातरंगकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिंडरता मनुष्याः ॥ ३.२४ ॥

किं कंदाः कंदरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यंते यन्मुखानि प्रसभम् अपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ ३.२५ ॥

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणाम् अविवेकमूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ ३.२६ ॥

फलं स्वेच्छालभ्यं प्रतिवनम् अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहंते संतापं तदपि धनिनां द्वारि कृपणाः ॥ ३.२७ ॥

ये वर्तंते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।
तेषाम् अंतःस्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ ३.२८ ॥

ये संतोषनिरंतरप्रमुदितस्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसंकलधियस्तेसां न तृष्णाहता ।
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं संपदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ ३.२९ ॥

भिक्षाहारम् अदैन्यम् अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहम् अप्रयत्नसुलभं साधुप्रियं पावनं
शंभोः सत्रम् अवायम् अक्षयनिधिं शंसंति योगीश्वराः ॥ ३.३० ॥

भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने धैन्यभयं बले रिपुभयं रूपे जराय भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतांताद्भयं
सर्वं वस्तु भयान्वितं भुवि न्णां वैराग्यम् एवाभयम् ॥ ३.३१ ॥

आक्रांतं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
संतोषो धनलिप्सया शममुखं प्रौढांगनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण विभूतयो‌உप्यपहता ग्रस्तं न किं केन वा ॥ ३.३२ ॥

आधिव्याधिशतैर्जनस्य विविधैरारोग्यम् उन्मूल्यते
लक्ष्मीर्यत्र पतंति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातम् अवश्यम् आशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरंकुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ ३.३३ ॥

भोगास्तुंगतरंगभंगतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।
तत्संसारम् असारम् एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ ३.३४ ॥

भोगा मेघवितानमध्यविलसत्सौदामिनीचंचला
आयुर्वायुविघट्टिताब्जपटलीलीनांबुवद्भंगुरम् ।
लीला यौवनलालसास्तनुभृताम् इत्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ ३.३५ ॥

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्
अर्थाः संकल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कंठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवमयांभोधिपारं तरीतुम् ॥ ३.३६ ॥

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कांताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणाम् अवज्ञाविहसितवसतिर्वृद्धभावो‌உन्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पम् अप्यस्ति किंचिथ् ॥ ३.३७ ॥

व्याघ्रीव तिष्ठति जरा परितर्जयंती
रोगाश्च शत्रव इव प्रहरंति देहम् ।
आयुः परिस्रवंति भिन्नघटादिवांभो
लोकस्तथाप्यहितम् आचरतीति चित्रम् ॥ ३.३८ ॥

भोगा भंगुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।
आशापाशशतापशांतिविशदं चेतःसमाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयम् अस्मद्वचः ॥ ३.३९ ॥

सखे धन्याः केचित्त्रुटितभवबंधव्यतिकरा
वनांते चित्तांतर्विषम् अविषयाशीत्विषगताः ।
शरच्चंद्रज्योत्स्नाधवलगगनाभोगसुभगां
नयंते ये रात्रिं सुकृतचयचिंतैकशरणाः ॥ ३.३९१ ॥

ब्रह्मेंद्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवंति विभवास्त्रैलोक्यराज्यादयः ।
भोगः को‌உपि स एव एक परमो नित्योदितो जृंभते
भोः साधो क्षणभंगुरे तदितरे भोगे रतिं मा कृथाः ॥ ३.४० ॥

सा रम्या नगरी महान्स नृपतिः सामंतचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चंद्रबिंबाननाः ।
उद्वृत्तः स राजपुत्रनिवहस्ते वंदिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ ३.४१ ॥

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैको‌உपि चांते ।
इत्थं नयौ रजनिदिवसौ लोलयंद्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रडति प्राणिशारैः ॥ ३.४२ ॥

आदित्यस्य गतागतैरहरहः संक्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालो‌உपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिराम् उन्मत्तभूतं जगथ् ॥ ३.४३ ॥

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जंतवो
धावंत्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनर्‌उक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयम् अहो मोहान्न लज्जामहे ॥ ३.४४ ॥

न ध्यानं पदम् ईश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मो‌உपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्ने‌உपि नालिंगितं
मातुः केवलम् एव यौवनवनच्छेदे कुठारा वयम् ॥ ३.४५ ॥

नाभ्यस्ता प्रतिवादिवृंददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुंभपीठदलनैर्नाकं न नीतं यशः ।
कांताक्ॐ‌अलपल्लवाधररसः पीतो न चंद्रोदये
तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवथ् ॥ ३.४६ ॥

विद्या नाधिगता कलंकरहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न संपादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्ने‌உपि नालिंगिताः
कालो‌உयं परपिंडलोलुपतया काकैरिव प्रेर्यते ॥ ३.४७ ॥

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां ते‌உपि गमिताः ।
इदानीम् एते स्मः प्रतिदिवसम् आसन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ ३.४८ ॥

आयुर्वर्षशतं न्णां परिमितं रात्रौ तद्‌अर्धं गतं
तस्यार्धस्य परस्य चार्धम् अपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरंगचंचलतरे सौख्यं कुतः प्राणिनाम् ॥ ३.४९ ॥

क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणम् अपि च संपूर्णविभवः ।
जराजीर्णैरंगैर्नट इव बलीमंडिततनूर्
नरः संसारांते विशति यमधानीयवनिकाम् ॥ ३.५० ॥

त्वं राजा वयम् अप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वंति नः ।
इत्थं मानधनातिदूरम् उभयोरप्यावयोरंतरं
यद्यस्मासु पराङ्मुखो‌உसि वयम् अप्येकांततो निःस्पृहा ॥ ३.५१ ॥

अर्थानाम् ईशिषे त्वं वयम् अपि च गिराम् ईश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवंते त्वां धनाढ्या मतिमलहतयेमाम् अपि श्रोतुकामामय्य्
अप्यास्था न ते चेत्त्वयि मम नितराम् एव राजन्ननास्था ॥ ३.५२ ॥

वयम् इह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे को‌உर्थवान्को दरिद्रः ॥ ३.५३ ॥

फलम् अलम् अशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवघनमधुपानभ्रांतसर्वेंद्रियाणामविनयम्
अनुमंतुं नोत्सहे दुर्जनानाम् ॥ ३.५४ ॥

अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किम् ईश्वरैः ॥ ३.५५ ॥

न नटा ना विटा न गायका न च सभ्येतरवादचुंचवः ।
नृपम् ईक्षितुम् अत्र के वयं स्तनभारानमिता न योषितः ॥ ३.५६ ॥

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतम् अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुंजते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ ३.५७ ॥

अभुक्तायां यस्यां क्षणम् अपि न यातं नृपशतैर्
धुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तद्‌अंशस्याप्यंशे तद्‌अवयलेशे‌உपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ ३.५८ ॥

मृत्पिंडो जलरेखया बलयतिः सर्वो‌உप्ययं नन्वणुः
स्वांशीकृत्य स एव संगरशतै राज्ञां गणा भुंजते ।
ये दद्युर्ददतो‌உथवा किम् अपरं क्षुद्रा दरिद्रं भृशं
धिग्धिक्तान्पुरुषाधमांधनकणान्वाञ्छंति तेभ्यो‌உपि ये ॥ ३.५९ ॥

स जातः को‌உप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितम् अलंकारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसाम् अयम् अतुलदर्पज्वरभरः ॥ ३.६० ॥

परेषां चेतांसि प्रतिदिवसम् आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।
प्रसन्ने त्वय्यंतःसवयमुदितचिंतामणिगणो
विविक्तः संकल्पः किम् अभिलषितं पुष्यति न ते ॥ ३.६१ ॥

सत्याम् एव त्रिलोकीसरिति हरशिरश्चुंबिनीवच्छटायां
सद्वृत्तिं कल्पयंत्यां बटविटपभवैर्वल्कलैः सत्फलैश्च ।
को‌உयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुंबे‌உनुकंपाम् ॥ ३.६११ ॥

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतम् अननुस्मरन्नपि च भाव्यसंकल्पयन्नतर्कित
समागमानुभवामि भोगनाहम् ॥ ३.६२ ॥

एतस्माद्विरमेंद्रियार्थगहनादायासकादाश्रयश्रेयो
मार्गम् अशेषदुःखशमनव्यापारदक्षं क्षणात् ।
स्वात्मीभावम् उपैहि संत्यज निजां कल्लोललोलं गतिं
मा भूयो भज भंगुरां भवरतिं चेतः प्रसीदाधुना ॥ ३.६३ ॥

मोहं मार्जय ताम् उपार्जय रतिं चंद्रार्धचूडामणौ
चेतः स्वर्गतरंगिणीतटभुवाम् आसंगम् अंगीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥ ३.६४ ॥

चेतश्चिंतय मा रमां सकृदिमाम् अस्थायिनीम् आस्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्यांगनाम् ।
कंथाकंचुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या
पंक्तिषु पाणिपात्रपतितां भिक्षाम् अपेक्षामहे ॥ ३.६५ ॥

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लंपटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ ३.६६ ॥

प्राप्ताः श्रियः सकलकामदुधास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
संपादिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥ ३.६७ ॥

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बंधुषु न मन्मथजा विकाराः ।
संसर्ज दोषरहिता विजया वनांता
वैराग्यम् अस्ति किम् इतः परमर्थनीयम् ॥ ३.६८ ॥

तस्मादनंतम् अजरं परमं विकासि
तद्ब्रह्म चिंतय किम् एभिरसद्विकल्पैः ।
यस्यानुषंगिण इमे भुवनाधिपत्यभोगादयः
कृपणलोकमता भवंति ॥ ३.६९ ॥

पातालम् आविशसि यासि नभो विलंघ्य
दिङ्मंडलं भ्रमसि मानस चापलेन ।
भ्रांत्यापि जातु विमलं कथम् आत्मनीनं
न ब्रह्म संसरसि विर्वृतिमम् एषि येन ॥ ३.७० ॥

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानंदपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः ॥ ३.७१ ॥

नायं ते समयो रहस्यम् अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिकनिर्दयोक्त्य्‌अपरुषं निःस्ॐ‌अशर्मप्रदम् ॥ ३.७११ ॥

यतो मेरुः श्रीमान्निपतति युगांताग्निवलितः
समुद्राः शुष्यंति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यंतं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ ३.७२ ॥

गात्रं संकुचितं गतिर्विगलिता भ्रष्टा च दंतावलिर्
दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बांधवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रो‌உप्यमित्रायते ॥ ३.७३ ॥

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितांस्थिशतकं परिहृत्य यांति
चंडालकूपम् इव दूरतरं तरुण्यः ॥ ३.७४ ॥

यावत्स्वस्थम् इदं शरीरम् अरुजं यावच्च दूरे जरा
यावच्चेंद्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
संदीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ ३.७५ ॥

तपस्यंतः संतः किम् अधिनिवसामः सुरनदीं
गुणोदारांदारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ ३.७६ ॥

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितम् इदं
सखे नान्यच्छ्रेयो जगति विदुषे‌உन्यत्र तपसः ॥ ३.७७ ॥

माने म्लायिनि खंडिते च वसुनि व्यर्थे प्रयाते‌உर्थिनि
क्षीणे बंधुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलम् एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव
गिरींद्रकंदरतटीकुंजे निवासः क्वचिथ् ॥ ३.७८ ॥

रम्याश्चंद्रमरीचयस्तृणवती रम्या वनांतस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।
कोपोपाहितबाष्पबिंदुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यम् अनित्यताम् उपगते चित्ते न किंचित्पुनः ॥ ३.७९ ॥

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किंतु भ्रांतपतंगक्षपवनव्यालोलदीपांकुरच्छाया
चंचलम् आकलय्य सकलं संतो वनांतं गताः ॥ ३.८० ॥

आ संसारात्त्रिभुवनम् इदं चिन्वतां तात्तादृङ्नैवास्माकं
नयनपदवीं श्रोत्रमार्गं गतो वा ।
यो‌உयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यांतः
करणकरिणः संयमालानलीलाम् ॥ ३.८१ ॥

यदेतत्स्वच्छंदं विहरणम् अकार्पण्यम् अशनं
सहार्यैः संवासः श्रुतम् उपशमैकव्रतफलम् ।
मनो मंदस्पंदं बहिरपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ ३.८२ ॥

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हंतांगेषु गुणाश्बंध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतांतो‌உक्षमी
हा ज्ञातं मदनांतकांघ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥ ३.८३ ॥

महेश्वरे वा जगताम् अधीश्वरे
जनार्दने वा जगद्‌अंतरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेंदुशेखरे ॥ ३.८४ ॥

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शांतध्वंतिसु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामो‌உतर्गतबहुलबाष्पाकुलदशाम् ॥ ३.८५ ॥

महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा
एवागारं वसनम् अपि ता एव हरितः ।
सुहृदा कालो‌உयं व्रतम् इदम् अदैन्यव्रतम् इदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ ३. ॥

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरंतः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चंद्रकिरणास्
त्रियामा नेस्यामो हरचरणचिंतैकशरणाः ॥ ३.८६ ॥

कदा वाराणस्याम् अमरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानो‌உंजलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शंभो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषम् इव नेष्यामि दिवसान् ॥ ३.८७ ॥

उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रम् अमितं भिक्षाटनं मंडनम् ।
आसन्नं मरणं च मंगलसमं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हंत विबुधैरन्यत्र किं स्थीयते ॥ ३. ॥

स्नात्वा गांगैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यंकमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ ३.८८ ॥

एकाकी निःस्पृहः शांतः पाणिपात्रो दिगंबरः ।
कदा शंभो भविष्यामि कर्मनिर्मूलनक्षमः ॥ ३.८९ ॥

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण संतुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागे‌உपि तनोरखंडपरमानंदावबोधस्पृशा
मध्वा को‌உपि शिवप्रसादसुलभः संपत्स्यते योगिनाम् ॥ ३.९० ॥

कौपीनं शतखंडजर्जरतरं कंथा पुनस्तादृशी
नैश्चिंत्यं निरपेक्षभैक्ष्यम् अशनं निद्रा श्मशाने वने ।
स्वातंत्र्येण निरंकुशं विहरणं स्वांतं प्रशांतं सदा
स्थैर्यं योगमहोत्सवे‌உपि च यदि त्रैलोक्यराज्येन किम् ॥ ३.९१ ॥

ब्रह्मांडं मंडलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ ३.९२ ॥

मातर्लक्ष्मि भजस्व कंचिदपरं मत्कांक्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणाम् असि ।
सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्
भिक्षावस्तुभिरेव संप्रति वयं वृत्तिं समीहामहे ॥ ३.९३ ॥

महाशय्या पृथ्वी विपुलम् उपधानं भुजलतां
वितानं चाकाशं व्यजनम् अनुकूलो‌உयम् अनिलः ।
शरच्चंद्रो दीपो विरतिवनितासंगमुदितः
सुखी शांतः शेते मुनिरतनुभूतिर्नृप इव ॥ ३.९४ ॥

भिक्षासी जनमध्यसंगरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनः संप्राप्तकंथासनो
निर्मानो निरहंकृतिः शमसुखाभोगैकबद्धस्पृहः ॥ ३.९५ ॥

चंडालः किम् अयं द्विजातिरथवा शूद्रो‌உथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः को‌உपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यांति स्वयं योगिनः ॥ ३.९६ ॥

हिंसाशून्यम् अयत्नलभ्यम् अशनं धात्रा मरुत्कल्पितं
व्यालानं पशवस्तृणांकुरभुजस्तुष्टाः स्थलीशायिनः ।
संसारार्णवलंघनक्षमधियां वृत्तिः कृता सा नृणां
ताम् अन्वेषयतां प्रयांति सततं सर्वं समाप्तिं गुणाः ॥ ३.९७ ॥

गंगातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशंकाः
कंडूयंते जरठहरिणाः स्वांगम् अंगे मदीये ॥ ३.९८ ॥

जीर्णाः कंथा ततः किं सितम् अमलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् ।
भक्तं भुक्तं ततः किं कदशनम् अथवा वासरांते ततः किं
व्यक्तज्योतिर्न वांतर्मथितभवभयं वैभवं वा ततः किम् ॥ ३. ॥

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यम् अक्षय्यम् अन्नं
विस्तीर्णं वस्त्रम् आशादशकम् अचपलं तल्पम् अस्वल्पम् उर्वीम् ।
येषां निःसंगतांगीकरणपरिणतस्वांतसंतोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयंति ॥ ३.९९ ॥

त्रैलोक्याधिपतित्वम् एव विरसं यस्मिन्महाशासने
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।
भोगः को‌உपि स एक एव परमो नित्योदिता जृंभने
यत्स्वादाद्विरसा भवंति विसयास्त्रैलोक्यराज्यादयः ॥ ३.९९१ ॥

मातर्मेदिनि तात मारुति सखे तेजः सुबंधो जल
भ्रातर्व्य्ॐ‌अ निबद्ध एष भवताम् अंत्यः प्रणामांजलिः ।
युष्मत्संगवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त
समस्तमोहमहिमा लीने परब्रह्मणि ॥ ३.१०० ॥

शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः
सारंगाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः क्ॐ‌अलैः ।
येसां निर्झरम् अंबुपानम् उचितं रत्यै तु विद्यांगना
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवांजलिः ॥ ३.१००१ ॥

धैर्यं यस्य पिता क्षमा च जननी शांतिश्चिरं गेहिनी
सत्यं मित्रम् इदं दया च भगिनी भ्राता मनःसंयमः ।
शय्या भूमितलं दिशो‌உपि वसनं ज्ञानामृतं भोजनं
ह्येते यस्य कुटुंबिनो वद सखे कस्माद्भयं योगिनः ॥ ३.१००२ ॥

अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यांति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ ३.१००३ ॥

Hindi

Bhartruhari Sataka Trisati – Srungaara Satakam – Hindi

No Comments 24 December 2014

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: भर्तृहरि

शंभुस्वयंभुहरयो हरिणेक्षणानां
येनाक्रियंत सततं गृहकुंभदासाः ।
वाचाम् अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ २.१ ॥

स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बंधनं स्त्रियः ॥ २.२ ॥

भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितांताश्च हासाः ।
लीलामंदं प्रस्थितं च स्थितं च
स्त्रीणाम् एतद्भूषणं चायुधं च ॥ २.३ ॥

क्वचित्सभ्रूभंगैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणाम् एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ २.४ ॥

वक्त्रं चंद्रविकासि पंकजपरीहासक्षमे लोचने
वर्णः स्वर्णम् अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
बक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंबस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मंडनम् ॥ २.५ ॥

स्मितकिंचिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पंदो वाचाम् अभिनवविलासोक्तिसरसः ।
गतानाम् आरंभः किसलयितलीलापरिकरः
स्पृशंत्यास्तारुण्यं किम् इव न हि रम्यं मृगदृशः ॥ २.६ ॥

द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्‌आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्‌ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ २.७ ॥

एताश्चलद्वलयसंहतिमेखलोत्थझंकार
नूपुरपराजितराजहंस्यः ।
कुर्वंति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ २.८ ॥

कुंकुमपंककलंकितदेहा
गौरपयोधरकंपितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥ २.९ ॥

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यम् आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयो‌உपि विजितास्त्वबलाः कथं ताः ॥ २.१० ॥

नूनम् आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ २.११ ॥

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अंतर्वक्त्रम् अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुंभाविमावित्थं
तन्वि वपुः प्रशांतम् अपि तेरागं करोत्येव नः ॥ २.१२ ॥

मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ २.१३ ॥

सति प्रदीपे सत्यग्नौ सत्सु तारारवींदुषु ।
विना मे मृगशावाक्ष्या तमोभूतम् इदं जगथ् ॥ २.१४ ॥

उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितम् ओष्ठपल्लवम् इदं कुर्वंतु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापम् अधिकं र्ॐ‌आवलिः केन सा ॥ २.१५ ॥

मुखेन चंद्रकांतेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २.१६ ॥

गुरुणा स्तनभारेण मुखचंद्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ २.१७ ॥

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किम् आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवंति समीहितार्थाः ॥ २.१८ ॥

इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारंभाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किम् अपि विजयंते मृगदृशाम् ॥ २.१९ ॥

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रंभार्द्राः स्मरोदयदायिनी
रहसि किम् अपि स्वैरालापा हरंति मृगीदृशाम् ॥ २.२० ॥

विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयंती शशिनो मयूखान् ॥ २.२१ ॥

अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वंगसुखैकलोला ।
आलिंगितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदम् ॥ २.२२ ॥

मालती शिरसि जृंभणं मुखे
चंदनं वपुषि कुंकुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ २.२३ ॥

प्राङ्माम् एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमम् अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसंगांगविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ २.२४ ॥

उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किंचिद्‌उन्मीलितानाम् ।
उपरि सुरतखेदस्विन्नगंडस्थलानामधर
मधु वधूनां भाग्यवंतः पिबंति ॥ २.२५ ॥

आमीलितनयनानां यः
सुरतरसो‌உनु संविदं भाति ।
मिथुरैर्मिथो‌உवधारितमवितथम्
इदम् एव कामनिर्बर्हणम् ॥ २.२६ ॥

इदम् अनुचितम् अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितंबिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ २.२७ ॥

राजस्तृष्णांबुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थो‌உर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेंदीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ २.२८ ॥

रागस्यागारम् एकं नरकशतमहादुःखसंप्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कंदर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबंधं
लोके‌உस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ २.२९ ॥

शृंगारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबांधवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः को‌உपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ २.३० ॥

संसारे‌உस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलंकव्यासंग
व्यस्तधैर्यं कथम् अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्‌इंदुद्युतिनिचयभृतो न स्युरंभोजनेत्राः
प्रेंखत्कांचीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ २.३१ ॥

सिद्धाध्यासितकंदरे हरवृषस्कंधावरुग्णद्रुमे
गंगाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरंगशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ २.३२ ॥

संसार तव पर्यंतपदवी न दवीयसी ।
अंतरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ २.३३ ॥

दिश वनहरिणीभ्यो वंशकांडच्छवीनां
कवलम् उपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापांडुतांबूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ २.३४ ॥

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यंतां यद्वा ननु सकलदोषास्पदम् इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यम् अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यम् अपरम् ॥ २.३५ ॥

एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव संगमः ॥ २.३५१ ॥

मात्सर्यम् उत्सार्य विचार्य कार्यमार्याः
समर्यादम् इदं वदंतु ।
सेव्या नितंबाः किम् उ भूधराणामत
स्मरस्मेरविलासिनीनाम् ॥ २.३६ ॥

संसारे स्वप्नसारे परिणतितरले द्वे गती पंडितानां
तत्त्वज्ञानामृतांभःप्लवललितधियां यातु कालः कथंचित् ।
नो चेन्मुग्धांगनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ २.३७ ॥

आवासः क्रियतां गंगे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ २.३८ ॥

किम् इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुंदरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ २.३९ ॥

सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यम् एतत् ।
नान्यन्मनोहारि नितंबिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥ २.४० ॥

कांतेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुंग
पयोधरेति समुखांभोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदते‌உभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम् ॥ २.४१ ॥

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ २.४२ ॥

तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ २.४३ ॥

नामृतं न विषं किंचिदेतां मुक्त्वा नितंबिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ २.४४ ॥

आवर्तः संशयानाम् अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रम् अप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरंडं
स्त्रीयंत्रं केन सृष्टं विषम् अमृतमयं प्राणिलोकस्य पाशः ॥ २.४५ ॥

नो सत्येन मृगांक एष वदनीभूतो न चेंदीवरद्वंद्वं
लोचनतां गत न कनकैरप्यंगयष्टिः कृता ।
किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मंदो जनः सेवते ॥ २.४६ ॥

लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरंति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्‌अंघ्रिः ॥ २.४७ ॥

संमोहयंति मदयंति विडंबयंति
निर्भर्त्स्यंति रमयंति विषादयंति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरंति ॥ २.४७१ ॥

यदेतत्पूर्णेंदुद्युतिहरम् उदाराकृति परं
मुखाब्जं तन्वंग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलम् इदानीम् अतिरसव्यतीते‌உस्मिन्
काले विषम् इव भविष्य्त्यसुखदम् ॥ २.४८ ॥

उन्मीलत्त्रिवलीतरंगनिलया प्रोत्तुंगपीनस्तनद्वंद्वेनोद्गत
चक्रवाकयुगला वक्त्रांबुजोद्भासिनी ।
कांताकारधरा नदीयम् अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण संत्यज्यताम् ॥ २.४९ ॥

जल्पंति सार्धम् अन्येन पश्यंत्यन्यं सविभ्रमाः ।
हृद्गतं चिंतयंत्यन्यं प्रियः को नाम योषिताम् ॥ २.५० ॥

मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् ।
अत‌एव निपीयते‌உधरो हृदयं मुष्टिभिरेव ताड्यते ॥ २.५१ ॥

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुम् औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मंत्रिणः ॥ २.५२ ॥

विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशम् अत्र भवांबुराशौ ।
येनाचिरात्तद्‌अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ २.५३ ॥

कामिनीकायकांतारे कुचपर्वतदुर्गमे ।
मा संचर मनः पांथ तत्रास्ते स्मरतस्करः ॥ २.५४ ॥

व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परम् अहं दृष्टो न तच्चक्षुषा ।
दृष्टे संति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ २.५५ ॥

इह हि मधुरगीतं नृत्यम् एतद्रसो‌உयं
स्फुरति परिमलो‌உसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिंद्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पंचभिर्वंचितो‌உस्मि ॥ २.५६ ॥

न गम्यो मंत्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शांतिकशतैः ।
भ्रमावेशादंगे कम् अपि विदधद्भंगम् असकृत्
स्मरापस्मारो‌உयं भ्रमयति दृशं घूर्णयति च ॥ २.५७ ॥

जात्य्‌अंधाय च दुर्मुखाय च जराजीर्णा खिलांगाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छंतीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ २.५८ ॥

वेश्यासौ मदनज्वाला
रूपे‌உंधनविवर्धिता ।
कामिभिर्यत्र हूयंते
यौवनानि धनानि च ॥ २.५९ ॥

कश्चुंबति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञम् अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ २.६० ॥

धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम् ॥ २.६१ ॥

बाले लीलामुकुलितम् अमी मंथरा दृष्टिपाताः
किं क्षिप्यंते विरमविरम व्यर्थ एष श्रमस्ते ।
संप्रत्यन्ये वयम् उपरतं बाल्यम् आस्था वनांते
क्षीणो मोहस्तृणम् इव जगज्जालम् आलोकयामः ॥ २.६२ ॥

इयं बाला मां प्रत्यनवरतम् इंदीवरदलप्रभा
चीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।
गतो मोहो‌உस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शांता तदपि न वराकी विरमति ॥ २.६३ ॥

किं कंदर्प करं कदर्थयसि रे कोदंडटंकारितं
रे रे कोकिल क्ॐ‌अलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुंबितचंद्रचूडचरणध्यानामृतं वर्तते ॥ २.६४ ॥

विरहे‌உपि संगमः खलु
परस्परं संगतं मनो येषाम् ।
हृदयम् अपि विघट्टितं चेत्
संगी विरहं विशेषयति ॥ २.६५ ॥

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमंदिरम् ॥ २.६६ ॥

विरमत बुधा योषित्संगात्सुखात्क्षणभंगुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसंगमम् ।
न खलु नरके हाराक्रांतं घनस्तनमंडलं
शरणम् अथवा श्रोणीबिंबं रणन्मणिमेखलम् ॥ २.६७ ॥

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किम् उ तैः ।
प्रियाणाम् आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ २.६८ ॥

यदासीदज्ञानं स्मरतिमिरसंचारजनितं
तदा दृष्टनारीमयम् इदम् अशेषं जगदिति ।
इदानीम् अस्माकं पटुतरविवेकांजनजुषां
समीभूता दृष्टिस्त्रिभुवनम् अपि ब्रह्म मनुते ॥ २.६९ ॥

तावदेव कृतिनाम् अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरंगचक्षुषां
ताड्यते चटुललोचनांचलैः ॥ २.७० ॥

वचसि भवति संगत्यागम् उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पंडितानाम् ।
जघनम् अरुणरत्नग्रंथिकांचीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ २.७१ ॥

स्वपरप्रतारको‌உसौ
निंदति यो‌உलीकपंडितो युवतीः ।
यस्मात्तपसो‌உपि फलं
स्वर्गः स्वर्गे‌உपि चाप्सरसः ॥ २.७२ ॥

मत्तेभकुंभदलने भुवि संति धीराः
केचित्प्रचंडमृगराजवधे‌உपि दक्षाः ।
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कंदर्पदर्पदलने विरला मनुष्याः ॥ २.७३ ॥

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेंद्रियाणां
लज्जां तावद्विधत्ते विनयम् अपि समालंबते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतंति ॥ २.७४ ॥

उन्मत्तप्रेमसंरंभाद्
आरभंते यद्‌अंगनाः ।
तत्र प्रत्यूहम् आधातुं
ब्रह्मापि खलु कातरः ॥ २.७५ ॥

तावन्महत्त्वं पांडित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नांगेषु
हतः पंचेषुपावकः ॥ २.७६ ॥

शास्त्रज्ञो‌உपि प्रगुणितनयो‌உत्यांतबाधापि बाढं
संसारे‌உस्मिन्भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारम् उद्घाटयंती
वामाक्षीणां भवति कुटिला भ्रूलता कुंचिकेव ॥ २.७७ ॥

कृशः काणः खंजः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीम् अन्वेति श्वा हतम् अपि च हंत्येव मदनः ॥ २.७८ ॥

स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसंपत्करीं
ये मूढाः प्रविहाय यांति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः
केचित्पंचशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ २.७९ ॥

विश्वामित्रपराशरप्रभृतयो वातांबुपर्णाशनास्ते‌உपि
स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुंजते मानवास्तेषाम्
इंद्रियनिग्रहो यदि भवेद्विंध्यः प्लवेत्सागरे ॥ २.८० ॥

परिमलभृतो वाताः शाखा नवांकुरकोटयो
मधुरविधुरोत्कंठाभाजः प्रिया पिकपक्षिणाम् ।
विरलविरसस्वेदोद्गारा वधूवदनेंदवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ २.८१ ॥

मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हंत सुधापि विषायते ॥ २.८२ ॥

आवासः किलकिंचितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामंडपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयंति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ २.८३ ॥

पांथ स्त्रीविरहानलाहुतिकलाम् आतन्वती मंजरीमाकंदेषु
पिकांगनाभिरधुना सोत्कंठम् आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वांतिक्लांतिवितानतानवकृतः श्रीखंडशैलानिलाः ॥ २.८४ ॥

प्रथितः प्रणयवतीनां
तावत्पदम् आतनोतु हृदि मानः ।
भवति न यावच्चंदनतरु
सुरभिर्मलयपवमानः ॥ २.८५ ॥

सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्‌अंते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कंठा ॥ २.८६ ॥

अच्छाच्छचंदनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च क्ॐ‌उदी च ।
मंदो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयंति ॥ २.८७ ॥

स्रजो हृद्यामोदा व्यजनपवनश्चंद्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्संगः प्रतनु वसनं पंकजदृशो
निदाघर्तावेतद्विलसति लभंते सुकृतिनः ॥ २.८८ ॥

सुधाशुभ्रं धाम स्फुरद्‌अमलरश्मिः शशधरः
प्रियावक्त्रांभोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदम् अखिलं रागिणि जने
करोत्यंतः क्षोभं न तु विषयसंसर्गविमुखे ॥ २.८९ ॥

तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगंधिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षम् ॥ २.९० ॥

वियद्‌उपचितमेघं भूमयः कंदलिन्यो
नवकुटजकदंबामोदिनो गंधवाहाः ।
शिखिकुलकलकेकारावरम्या वनांताः
सुखिनम् असुखिनं वा सर्वम् उत्कंठयंति ॥ २.९१ ॥

उपरि घनं घनपटलं
तिर्यग्गिरयो‌உपि नर्तितमयूराः ।
क्षितिरपि कंदलधवला
दृष्टिं पथिकः क्व पातयति ॥ २.९२ ॥

इतो विद्युद्वल्लीविलसितम् इतः केतकितरोः
स्फुरन्गंधः प्रोद्यज्जलदनिनदस्फूर्जितम् इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यंत्येते विरहदिवसाः संभृतरसाः ॥ २.९३ ॥

असूचिसंचारे तमसि नभसि प्रौढजलदध्वनि
प्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ २.९४ ॥

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कंपनिमित्तम् आयतदृशा गाढं समालिंग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यंतखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ २.९५ ॥

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथांगप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
संभोगक्लांतकांताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मंदपुण्यः ॥ २.९६ ॥

हेमंते दधिदुग्धसर्पिरशना मांजिष्ठवासोभृतः
काश्मीरद्रवसांद्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यंतरे
तांबूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ २.९७ ॥

प्रदुयत्प्रौढप्रियंगुद्युतिभृति विकसत्कुंदमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमंदारधाम्नि ।
येषां नो कंठलग्ना क्षणम् अपि तुहिनक्षोददक्षा मृगाक्षी
तेसाम् आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ २.९८ ॥

चुंबंतो गंडभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कंचुकेषु स्तनभरपुलकोद्भेदम् आपादयंतः ।
ऊरूनाकंपयंतः पृथुजघनतटात्स्रंसयंतो‌உंशुकानि
व्यक्तं कांताजनानां विटचरितभृतः शैशिरा वांति वाताः ॥ २.९९ ॥

केशानाकुलयंदृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकंपं शनैः ।
बारं बारम् उदारसीत्कृतकृतो दंतच्छदान्पीडयन्
प्रायः शैशिर एष संप्रति मरुत्कांतासु कांतायते ॥ २.१०० ॥

यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञे‌உपि ।
रमणीये‌உपि सुधांशौ न मनःकामः सरोजिन्याः ॥ २.१०१ ॥

वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृंगारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ २.१०२ ॥

इति शुभं भूयात् ।

शृंगारशतकम्
भर्तृहरेः

शंभुस्वयंभुहरयो हरिणेक्षणानां
येनाक्रियंत सततं गृहकुंभदासाः ।
वाचाम् अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ २.१ ॥

स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बंधनं स्त्रियः ॥ २.२ ॥

भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितांताश्च हासाः ।
लीलामंदं प्रस्थितं च स्थितं च
स्त्रीणाम् एतद्भूषणं चायुधं च ॥ २.३ ॥

क्वचित्सभ्रूभंगैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणाम् एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ २.४ ॥

वक्त्रं चंद्रविकासि पंकजपरीहासक्षमे लोचने
वर्णः स्वर्णम् अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
बक्षोजाविभकुंभविभ्रमहरौ गुर्वी नितंबस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मंडनम् ॥ २.५ ॥

स्मितकिंचिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पंदो वाचाम् अभिनवविलासोक्तिसरसः ।
गतानाम् आरंभः किसलयितलीलापरिकरः
स्पृशंत्यास्तारुण्यं किम् इव न हि रम्यं मृगदृशः ॥ २.६ ॥

द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्‌आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्‌ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ २.७ ॥

एताश्चलद्वलयसंहतिमेखलोत्थझंकार
नूपुरपराजितराजहंस्यः ।
कुर्वंति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ २.८ ॥

कुंकुमपंककलंकितदेहा
गौरपयोधरकंपितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥ २.९ ॥

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यम् आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयो‌உपि विजितास्त्वबलाः कथं ताः ॥ २.१० ॥

नूनम् आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसंचारसूचितेषु प्रवर्तते ॥ २.११ ॥

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अंतर्वक्त्रम् अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुंभाविमावित्थं
तन्वि वपुः प्रशांतम् अपि तेरागं करोत्येव नः ॥ २.१२ ॥

मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ २.१३ ॥

सति प्रदीपे सत्यग्नौ सत्सु तारारवींदुषु ।
विना मे मृगशावाक्ष्या तमोभूतम् इदं जगथ् ॥ २.१४ ॥

उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितम् ओष्ठपल्लवम् इदं कुर्वंतु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापम् अधिकं र्ॐ‌आवलिः केन सा ॥ २.१५ ॥

मुखेन चंद्रकांतेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ २.१६ ॥

गुरुणा स्तनभारेण मुखचंद्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ २.१७ ॥

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किम् आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवंति समीहितार्थाः ॥ २.१८ ॥

इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारंभाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किम् अपि विजयंते मृगदृशाम् ॥ २.१९ ॥

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रंभार्द्राः स्मरोदयदायिनी
रहसि किम् अपि स्वैरालापा हरंति मृगीदृशाम् ॥ २.२० ॥

विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयंती शशिनो मयूखान् ॥ २.२१ ॥

अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वंगसुखैकलोला ।
आलिंगितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदम् ॥ २.२२ ॥

मालती शिरसि जृंभणं मुखे
चंदनं वपुषि कुंकुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ २.२३ ॥

प्राङ्माम् एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमम् अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसंगांगविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ २.२४ ॥

उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किंचिद्‌उन्मीलितानाम् ।
उपरि सुरतखेदस्विन्नगंडस्थलानामधर
मधु वधूनां भाग्यवंतः पिबंति ॥ २.२५ ॥

आमीलितनयनानां यः
सुरतरसो‌உनु संविदं भाति ।
मिथुरैर्मिथो‌உवधारितमवितथम्
इदम् एव कामनिर्बर्हणम् ॥ २.२६ ॥

इदम् अनुचितम् अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितंबिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ २.२७ ॥

राजस्तृष्णांबुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थो‌உर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेंदीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ २.२८ ॥

रागस्यागारम् एकं नरकशतमहादुःखसंप्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कंदर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबंधं
लोके‌உस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ २.२९ ॥

शृंगारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबांधवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः को‌உपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ २.३० ॥

संसारे‌உस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलंकव्यासंग
व्यस्तधैर्यं कथम् अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्‌इंदुद्युतिनिचयभृतो न स्युरंभोजनेत्राः
प्रेंखत्कांचीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ २.३१ ॥

सिद्धाध्यासितकंदरे हरवृषस्कंधावरुग्णद्रुमे
गंगाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरंगशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ २.३२ ॥

संसार तव पर्यंतपदवी न दवीयसी ।
अंतरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ २.३३ ॥

दिश वनहरिणीभ्यो वंशकांडच्छवीनां
कवलम् उपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापांडुतांबूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ २.३४ ॥

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यंतां यद्वा ननु सकलदोषास्पदम् इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यम् अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यम् अपरम् ॥ २.३५ ॥

एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव संगमः ॥ २.३५१ ॥

मात्सर्यम् उत्सार्य विचार्य कार्यमार्याः
समर्यादम् इदं वदंतु ।
सेव्या नितंबाः किम् उ भूधराणामत
स्मरस्मेरविलासिनीनाम् ॥ २.३६ ॥

संसारे स्वप्नसारे परिणतितरले द्वे गती पंडितानां
तत्त्वज्ञानामृतांभःप्लवललितधियां यातु कालः कथंचित् ।
नो चेन्मुग्धांगनानां स्तनजघनघनाभोगसंभोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ २.३७ ॥

आवासः क्रियतां गंगे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ २.३८ ॥

किम् इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुंदरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ २.३९ ॥

सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यम् एतत् ।
नान्यन्मनोहारि नितंबिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥ २.४० ॥

कांतेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुंग
पयोधरेति समुखांभोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदते‌உभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम् ॥ २.४१ ॥

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ २.४२ ॥

तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ २.४३ ॥

नामृतं न विषं किंचिदेतां मुक्त्वा नितंबिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ २.४४ ॥

आवर्तः संशयानाम् अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रम् अप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरंडं
स्त्रीयंत्रं केन सृष्टं विषम् अमृतमयं प्राणिलोकस्य पाशः ॥ २.४५ ॥

नो सत्येन मृगांक एष वदनीभूतो न चेंदीवरद्वंद्वं
लोचनतां गत न कनकैरप्यंगयष्टिः कृता ।
किंत्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मंदो जनः सेवते ॥ २.४६ ॥

लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरंति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्‌अंघ्रिः ॥ २.४७ ॥

संमोहयंति मदयंति विडंबयंति
निर्भर्त्स्यंति रमयंति विषादयंति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरंति ॥ २.४७१ ॥

यदेतत्पूर्णेंदुद्युतिहरम् उदाराकृति परं
मुखाब्जं तन्वंग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलम् इदानीम् अतिरसव्यतीते‌உस्मिन्
काले विषम् इव भविष्य्त्यसुखदम् ॥ २.४८ ॥

उन्मीलत्त्रिवलीतरंगनिलया प्रोत्तुंगपीनस्तनद्वंद्वेनोद्गत
चक्रवाकयुगला वक्त्रांबुजोद्भासिनी ।
कांताकारधरा नदीयम् अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण संत्यज्यताम् ॥ २.४९ ॥

जल्पंति सार्धम् अन्येन पश्यंत्यन्यं सविभ्रमाः ।
हृद्गतं चिंतयंत्यन्यं प्रियः को नाम योषिताम् ॥ २.५० ॥

मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् ।
अत‌एव निपीयते‌உधरो हृदयं मुष्टिभिरेव ताड्यते ॥ २.५१ ॥

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुम् औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मंत्रिणः ॥ २.५२ ॥

विस्तारितं मकरकेतनधीवरेण
स्त्रीसंज्ञितं बडिशम् अत्र भवांबुराशौ ।
येनाचिरात्तद्‌अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ २.५३ ॥

कामिनीकायकांतारे कुचपर्वतदुर्गमे ।
मा संचर मनः पांथ तत्रास्ते स्मरतस्करः ॥ २.५४ ॥

व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परम् अहं दृष्टो न तच्चक्षुषा ।
दृष्टे संति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ २.५५ ॥

इह हि मधुरगीतं नृत्यम् एतद्रसो‌உयं
स्फुरति परिमलो‌உसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिंद्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पंचभिर्वंचितो‌உस्मि ॥ २.५६ ॥

न गम्यो मंत्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शांतिकशतैः ।
भ्रमावेशादंगे कम् अपि विदधद्भंगम् असकृत्
स्मरापस्मारो‌உयं भ्रमयति दृशं घूर्णयति च ॥ २.५७ ॥

जात्य्‌अंधाय च दुर्मुखाय च जराजीर्णा खिलांगाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छंतीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ २.५८ ॥

वेश्यासौ मदनज्वाला
रूपे‌உंधनविवर्धिता ।
कामिभिर्यत्र हूयंते
यौवनानि धनानि च ॥ २.५९ ॥

कश्चुंबति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञम् अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ २.६० ॥

धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम् ॥ २.६१ ॥

बाले लीलामुकुलितम् अमी मंथरा दृष्टिपाताः
किं क्षिप्यंते विरमविरम व्यर्थ एष श्रमस्ते ।
संप्रत्यन्ये वयम् उपरतं बाल्यम् आस्था वनांते
क्षीणो मोहस्तृणम् इव जगज्जालम् आलोकयामः ॥ २.६२ ॥

इयं बाला मां प्रत्यनवरतम् इंदीवरदलप्रभा
चीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।
गतो मोहो‌உस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शांता तदपि न वराकी विरमति ॥ २.६३ ॥

किं कंदर्प करं कदर्थयसि रे कोदंडटंकारितं
रे रे कोकिल क्ॐ‌अलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुंबितचंद्रचूडचरणध्यानामृतं वर्तते ॥ २.६४ ॥

विरहे‌உपि संगमः खलु
परस्परं संगतं मनो येषाम् ।
हृदयम् अपि विघट्टितं चेत्
संगी विरहं विशेषयति ॥ २.६५ ॥

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमंदिरम् ॥ २.६६ ॥

विरमत बुधा योषित्संगात्सुखात्क्षणभंगुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसंगमम् ।
न खलु नरके हाराक्रांतं घनस्तनमंडलं
शरणम् अथवा श्रोणीबिंबं रणन्मणिमेखलम् ॥ २.६७ ॥

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किम् उ तैः ।
प्रियाणाम् आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ २.६८ ॥

यदासीदज्ञानं स्मरतिमिरसंचारजनितं
तदा दृष्टनारीमयम् इदम् अशेषं जगदिति ।
इदानीम् अस्माकं पटुतरविवेकांजनजुषां
समीभूता दृष्टिस्त्रिभुवनम् अपि ब्रह्म मनुते ॥ २.६९ ॥

तावदेव कृतिनाम् अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरंगचक्षुषां
ताड्यते चटुललोचनांचलैः ॥ २.७० ॥

वचसि भवति संगत्यागम् उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पंडितानाम् ।
जघनम् अरुणरत्नग्रंथिकांचीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ २.७१ ॥

स्वपरप्रतारको‌உसौ
निंदति यो‌உलीकपंडितो युवतीः ।
यस्मात्तपसो‌உपि फलं
स्वर्गः स्वर्गे‌உपि चाप्सरसः ॥ २.७२ ॥

मत्तेभकुंभदलने भुवि संति धीराः
केचित्प्रचंडमृगराजवधे‌உपि दक्षाः ।
किंतु ब्रवीमि बलिनां पुरतः प्रसह्य
कंदर्पदर्पदलने विरला मनुष्याः ॥ २.७३ ॥

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेंद्रियाणां
लज्जां तावद्विधत्ते विनयम् अपि समालंबते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतंति ॥ २.७४ ॥

उन्मत्तप्रेमसंरंभाद्
आरभंते यद्‌अंगनाः ।
तत्र प्रत्यूहम् आधातुं
ब्रह्मापि खलु कातरः ॥ २.७५ ॥

तावन्महत्त्वं पांडित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नांगेषु
हतः पंचेषुपावकः ॥ २.७६ ॥

शास्त्रज्ञो‌உपि प्रगुणितनयो‌உत्यांतबाधापि बाढं
संसारे‌உस्मिन्भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारम् उद्घाटयंती
वामाक्षीणां भवति कुटिला भ्रूलता कुंचिकेव ॥ २.७७ ॥

कृशः काणः खंजः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीम् अन्वेति श्वा हतम् अपि च हंत्येव मदनः ॥ २.७८ ॥

स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसंपत्करीं
ये मूढाः प्रविहाय यांति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुंडिताः
केचित्पंचशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ २.७९ ॥

विश्वामित्रपराशरप्रभृतयो वातांबुपर्णाशनास्ते‌உपि
स्त्रीमुखपंकजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुंजते मानवास्तेषाम्
इंद्रियनिग्रहो यदि भवेद्विंध्यः प्लवेत्सागरे ॥ २.८० ॥

परिमलभृतो वाताः शाखा नवांकुरकोटयो
मधुरविधुरोत्कंठाभाजः प्रिया पिकपक्षिणाम् ।
विरलविरसस्वेदोद्गारा वधूवदनेंदवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ २.८१ ॥

मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हंत सुधापि विषायते ॥ २.८२ ॥

आवासः किलकिंचितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामंडपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषांचित्सुखयंति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ २.८३ ॥

पांथ स्त्रीविरहानलाहुतिकलाम् आतन्वती मंजरीमाकंदेषु
पिकांगनाभिरधुना सोत्कंठम् आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वांतिक्लांतिवितानतानवकृतः श्रीखंडशैलानिलाः ॥ २.८४ ॥

प्रथितः प्रणयवतीनां
तावत्पदम् आतनोतु हृदि मानः ।
भवति न यावच्चंदनतरु
सुरभिर्मलयपवमानः ॥ २.८५ ॥

सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्‌अंते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कंठा ॥ २.८६ ॥

अच्छाच्छचंदनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च क्ॐ‌उदी च ।
मंदो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयंति ॥ २.८७ ॥

स्रजो हृद्यामोदा व्यजनपवनश्चंद्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्संगः प्रतनु वसनं पंकजदृशो
निदाघर्तावेतद्विलसति लभंते सुकृतिनः ॥ २.८८ ॥

सुधाशुभ्रं धाम स्फुरद्‌अमलरश्मिः शशधरः
प्रियावक्त्रांभोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदम् अखिलं रागिणि जने
करोत्यंतः क्षोभं न तु विषयसंसर्गविमुखे ॥ २.८९ ॥

तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगंधिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षम् ॥ २.९० ॥

वियद्‌उपचितमेघं भूमयः कंदलिन्यो
नवकुटजकदंबामोदिनो गंधवाहाः ।
शिखिकुलकलकेकारावरम्या वनांताः
सुखिनम् असुखिनं वा सर्वम् उत्कंठयंति ॥ २.९१ ॥

उपरि घनं घनपटलं
तिर्यग्गिरयो‌உपि नर्तितमयूराः ।
क्षितिरपि कंदलधवला
दृष्टिं पथिकः क्व पातयति ॥ २.९२ ॥

इतो विद्युद्वल्लीविलसितम् इतः केतकितरोः
स्फुरन्गंधः प्रोद्यज्जलदनिनदस्फूर्जितम् इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यंत्येते विरहदिवसाः संभृतरसाः ॥ २.९३ ॥

असूचिसंचारे तमसि नभसि प्रौढजलदध्वनि
प्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ २.९४ ॥

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कंपनिमित्तम् आयतदृशा गाढं समालिंग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यंतखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासंगमे ॥ २.९५ ॥

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथांगप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
संभोगक्लांतकांताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मंदपुण्यः ॥ २.९६ ॥

हेमंते दधिदुग्धसर्पिरशना मांजिष्ठवासोभृतः
काश्मीरद्रवसांद्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यंतरे
तांबूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ २.९७ ॥

प्रदुयत्प्रौढप्रियंगुद्युतिभृति विकसत्कुंदमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमंदारधाम्नि ।
येषां नो कंठलग्ना क्षणम् अपि तुहिनक्षोददक्षा मृगाक्षी
तेसाम् आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ २.९८ ॥

चुंबंतो गंडभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कंचुकेषु स्तनभरपुलकोद्भेदम् आपादयंतः ।
ऊरूनाकंपयंतः पृथुजघनतटात्स्रंसयंतो‌உंशुकानि
व्यक्तं कांताजनानां विटचरितभृतः शैशिरा वांति वाताः ॥ २.९९ ॥

केशानाकुलयंदृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकंपं शनैः ।
बारं बारम् उदारसीत्कृतकृतो दंतच्छदान्पीडयन्
प्रायः शैशिर एष संप्रति मरुत्कांतासु कांतायते ॥ २.१०० ॥

यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञे‌உपि ।
रमणीये‌உपि सुधांशौ न मनःकामः सरोजिन्याः ॥ २.१०१ ॥

वैराग्ये संचरत्येको नीतौ भ्रमति चापरः ।
शृंगारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ २.१०२ ॥

Hindi

Bhartruhari Sataka Trisati – Neeti Satakam – Hindi

No Comments 24 December 2014

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: भर्तृहरि

दिक्कालाद्यनवच्छिन्नानंतचिन्मात्रमूर्तये ।
स्वानुभूत्येकमानाय नमः शांताय तेजसे ॥ १.१ ॥

बोद्धारो मत्सरग्रस्ताः
प्रभवः स्मयदूषिताः ।
अबोधोपहताः चान्ये
जीर्णम् अंगे सुभाषितम् ॥ १.२ ॥

अज्ञः सुखम् आराध्यः
सुखतरम् आराध्यते विशेषज्ञः ।
ज्ञानलवदुर्विदग्धं
ब्रह्मापि तं नरं न रंजयति ॥ १.३ ॥

प्रसह्य मणिम् उद्धरेन्मकरवक्त्रदंष्ट्रांतरात्
समुद्रम् अपि संतरेत्प्रचलदूर्मिमालाकुलम् ।
भुजंगम् अपि कोपितं शिरसि पुष्पवद्धारयेत्
न तु प्रतिनिविष्टमू‌ऋखजनचित्तम् आराधयेथ् ॥ १.४ ॥

लभेत सिकतासु तैलम् अपि यत्नतः पीडयन्
पिबेच्च मृगतृष्णिकासु सलिलं पिपासार्दितः ।
क्वचिदपि पर्यटन्शशविषाणम् आसादयेत्
न तु प्रतिनिविष्टमूर्खचित्तम् आराधयेथ् ॥ १.५ ॥

व्यालं बालमृणालतंतुभिरसौ रोद्धुं समुज्जृंभते
छेत्तुं वज्रमणिं शिरीषकुसुमप्रांतेन सन्नह्यति ।
माधुर्यं मधुबिंदुना रचयितुं क्षारामुधेरीहते
नेतुं वाञ्छंति यः खलान्पथि सतां सूक्तैः सुधास्यंदिभिः ॥ १.६ ॥

स्वायत्तम् एकांतगुणं विधात्रा
विनिर्मितं छादनम् अज्ञतायाः ।
विशेषा‌अतः सर्वविदां समाजे
विभूषणं मौनम् अपंडितानाम् ॥ १.७ ॥

यदा किंचिज्ज्ञो‌உहं द्विप इव मदांधः समभवं
तदा सर्वज्ञो‌உस्मीत्यभवदवलिप्तं मम मनः
यदा किंचित्किंचिद्बुधजनसकाशादवगतं
तदा मूर्खो‌உस्मीति ज्वर इव मदो मे व्यपगतः ॥ १.८ ॥

कृमिकुलचित्तं लालाक्लिन्नं विगंधिजुगुप्सितं
निरुपमरसं प्रीत्या खादन्नरास्थि निरामिषम् ।
सुरपतिम् अपि श्वा पार्श्वस्थं विलोक्य न शंकते
न हि गणयति क्षुद्रो जंतुः परिग्रहफल्गुताम् ॥ १.९ ॥

शिरः शार्वं स्वर्गात्पशुपतिशिरस्तः क्षितिधरं
म्हीध्रादुत्तुंगादवनिम् अवनेश्चापि जलधिम् ।
अधो‌உधो गंगेयं पदम् उपगता स्तोकम्
अथवाविवेकभ्रष्टानां भवति विनिपातः शतमुखः ॥ १.१० ॥

शक्यो वारयितुं जलेन हुतभुक्च्छत्रेण सूर्यातपो
नागेंद्रो निशिताग्कुशेन समदो दंडेन गोगर्दभौ ।
व्याधिर्भेषजसंग्रहैश्च विविधैर्मंत्रप्रयोगैर्विषं
सर्वस्यौषधम् अस्ति शास्त्रविहितं मूर्खस्य नस्त्यौषधिम् ॥ १.११ ॥

साहित्यसंगीतकलाविहीनः
साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्
तद्भागधेयं परमं पशूनाम् ॥ १.१२ ॥

येषां न विद्या न तपो न दानं
ज्ञानं न शीलं न गुणो न धर्मः ।
ते मर्त्यलोके भुवि भारभूता
मनुष्यरूपेण मृगाश्चरंति ॥ १.१३ ॥

वरं पर्वतदुर्गेषु
भ्रांतं वनचरैः सह
न मूर्खजनसंपर्कः
सुरेंद्रभवनेष्वपि ॥ १.१४ ॥

शास्त्रोपस्कृतशब्दसुंदरगिरः शिष्यप्रदेयागमा
विख्याताः कवयो वसंति विषये यस्य प्रभोर्निर्धनाः ।
तज्जाड्यं वसुधादिपस्य कवयस्त्वर्थं विनापीश्वराः
कुत्स्याः स्युः कुपरीक्षका हि मणयो यैरर्घतः पातिताः ॥ १.१५ ॥

हर्तुर्याति न गोचरं किम् अपि शं पुष्णाति यत्सर्वदा‌உप्य्
अर्थिभ्यः प्रतिपाद्यमानम् अनिशं प्राप्नोति वृद्धिं पराम् ।
कल्पांतेष्वपि न प्रयाति निधनं विद्याख्यम् अंतर्धनं
येषां तान्प्रति मानम् उज्झत नृपाः कस्तैः सह स्पर्धते ॥ १.१६ ॥

अधिगतपरमार्थान्पंडितान्मावमंस्थास्
तृणम् इव लघु लक्ष्मीर्नैव तान्संरुणद्धि ।
अभिनवमदलेखाश्यामगंडस्थलानां
न भवति बिसतंतुर्वारणं वारणानाम् ॥ १.१७ ॥

अंभोजिनीवनविहारविलासम् एव
हंसस्य हंति नितरां कुपितो विधाता ।
न त्वस्य दुग्धजलभेदविधौ प्रसिद्धां
वैदग्धीकीर्तिम् अपहर्तुम् असौ समर्थः ॥ १.१८ ॥

केयूराणि न भूषयंति पुरुषं हारा न चंद्रोज्ज्वला
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुषं या संस्कृता धार्यते
क्षीयंते खलु भूषणानि सततं वाग्भूषणं भूषणम् ॥ १.१९ ॥

विद्या नाम नरस्य रूपम् अधिकं प्रच्छन्नगुप्तं धनं
विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः ।
विद्या बंधुजनो विदेशगमने विद्या परा देवता
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः ॥ १.२० ॥

क्षांतिश्चेत्कवचेन किं किम् अरिभिः क्रोधो‌உस्ति चेद्देहिनां
ज्ञातिश्चेदनलेन किं यदि सुहृद्दिव्यौषधं किं फलम् ।
किं सर्पैर्यदि दुर्जनाः किम् उ धनैर्विद्या‌உनवद्या यदि
व्रीडा चेत्किम् उ भूषणैः सुकविता यद्यस्ति राज्येन किम् ॥ १.२१ ॥

दाक्षिण्यं स्वजने दया परिजने शाठ्यं सदा दुर्जने
प्रीतिः साधुजने नयो नृपजने विद्वज्जने चार्जवम् ।
शौर्यं शत्रुजने क्षमा गुरुजने कांताजने धृष्टता
ये चैवं पुरुषाः कलासु कुशलास्तेष्वेव लोकस्थितिः ॥ १.२२ ॥

जाड्यं धियो हरति सिंचति वाचि सत्यं
मानोन्नतिं दिशति पापम् अपाकरोति ।
चेतः प्रसादयति दिक्षु तनोति कीर्तिं
सत्संगतिः कथय किं न करोति पुंसाम् ॥ १.२३ ॥

जयंति ते सुकृतिनो
रससिद्धाः कवीश्वराः ।
नास्ति येषां यशःकाये
जरामरणजं भयम् ॥ १.२४ ॥

सूनुः सच्चरितः सती प्रियतमा स्वामी प्रसादोन्मुखः
स्निग्धं मित्रम् अवंचकः परिजनो निःक्लेशलेशं मनः ।
आकारो रुचिरः स्थिरश्च विभवो विद्यावदातं मुखं
तुष्टे विष्टपकष्टहारिणि हरौ संप्राप्यते देहिना ॥ १.२५ ॥

प्राणाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यं
काले शक्त्या प्रदानं युवतिजनकथामूकभावः परेषाम् ।
तृष्णास्रोतो विभंगो गुरुषु च विनयः सर्वभूतानुकंपा
सामान्यः सर्वशास्त्रेष्वनुपहतविधिः श्रेयसाम् एष पंथाः ॥ १.२६ ॥

प्रारभ्यते न खलु विघ्नभयेन नीचैः
प्रारभ्य विघ्नविहता विरमंति मध्याः ।
विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः
प्रारब्धम् उत्तमजना न परित्यजंति ॥ १.२७ ॥

असंतो नाभ्यर्थ्याः सुहृदपि न याच्यः कृशधनः
प्रिया न्याय्या वृत्तिर्मलिनम् असुभंगे‌உप्यसुकरम् ।
विपद्युच्चैः स्थेयं पदम् अनुविधेयं च महतां
सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ १.२८ ॥

क्षुत्क्षामो‌உपि जराकृशो‌உपि शिथिलप्राणो‌உपि कष्टां दशाम्
आपन्नो‌உपि विपन्नदीधितिरिति प्राणेषु नश्यत्स्वपि ।
मत्तेभेंद्रविभिन्नकुंभपिशितग्रासैकबद्धस्पृहः
किं जीर्णं तृणम् अत्ति मानमहताम् अग्रेसरः केसरी ॥ १.२९ ॥

स्वल्पस्नायुवसावशेषमलिनं निर्मांसम् अप्यस्थि गोः
श्वा लब्ध्वा परितोषम् एति न तु तत्तस्य क्षुधाशांतये ।
सिंहो जंबुकम् अंकम् आगतम् अपि त्यक्त्वा निहंति द्विपं
सर्वः कृच्छ्रगतो‌உपि वाञ्छंति जनः सत्त्वानुरूपं फलम् ॥ १.३० ॥

लांगूलचालनम् अधश्चरणावपातं
भूमौ निपत्य वदनोदरदर्शनं च ।
श्वा पिंडदस्य कुरुते गजपुंगवस्तु
धीरं विलोकयति चाटुशतैश्च भुंक्ते ॥ १.३१ ॥

परिवर्तिनि संसारे
मृतः को वा न जायते ।
स जातो येन जातेन
याति वंशः समुन्नतिम् ॥ १.३२ ॥

कुसुमस्तवकस्येव
द्वयी वृत्तिर्मनस्विनः ।
मूर्ध्नि वा सर्वलोकस्य
शीर्यते वन एव वा ॥ १.३३ ॥

संत्यन्ये‌உपि बृहस्पतिप्रभृतयः संभाविताः पंचषास्
तान्प्रत्येष विशेषविक्रमरुची राहुर्न वैरायते ।
द्वावेव ग्रसते दिवाकरनिशाप्राणेश्वरौ भास्करौ
भ्रातः पर्वणि पश्य दानवपतिः शीर्षावशेषाकृतिः ॥ १.३४ ॥

वहति भुवनश्रेणिं शेषः फणाफलकस्थितां
कमठपतिना मध्येपृष्ठं सदा स च धार्यते ।
तम् अपि कुरुते क्रोडाधीनं पयोधिरनादराद्
अहह महतां निःसीमानश्चरित्रविभूतयः ॥ १.३५ ॥

वरं पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर्
उद्गच्छद्बहुलदहनोद्गारगुरुभिः ।
तुषाराद्रेः सूनोरहह पितरि क्लेशविवशे
न चासौ संपातः पयसि पयसां पत्युरुचितः ॥ १.३६ ॥

सिंहः शिशुरपि निपतति
मदमलिनकपोलभित्तिषु गजेषु ।
प्रकृतिरियं सत्त्ववतां
न खलु वयस्तेजसो हेतुः ॥ १.३७ ॥

जातिर्यातु रसातलं गुणगणैस्तत्राप्यधो गम्यतां
शीलं शैलतटात्पतत्वभिजनः संदह्यतां वह्निना ।
शौर्ये वैरिणि वज्रम् आशु निपतत्वर्थो‌உस्तु नः केवलं
येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे ॥ १.३८ ॥

धनम् अर्जय काकुत्स्थ
धनमूलम् इदं जगत् ।
अंतरं नाभिजानामि
निर्धनस्य मृतस्य च ॥ १.३९ ॥

तानींद्रियाण्यविकलानि तदेव नाम
सा बुद्धिरप्रतिहता वचनं तदेव ।
अर्थोष्मणा विरहितः पुरुषः क्षणेन
सो‌உप्यन्य एव भवतीति विचित्रम् एतथ् ॥ १.४० ॥

यस्यास्ति वित्तं स नरः कुलीनः
स पंडितः स श्रुतवान्गुणज्ञः ।
स एव वक्ता स च दर्शनीयः
सर्वे गुणाः कांचनम् आश्रयंति ॥ १.४१ ॥

दौर्मंत्र्यान्नृपतिर्विनश्यति यतिः संगात्सुतो लालनात्
विप्रो‌உनध्ययनात्कुलं कुतनयाच्छीलं खलोपासनात् ।
ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः प्रवासाश्रयान्
मैत्री चाप्रणयात्समृद्धिरनयात्त्यागप्रमादाद्धनम् ॥ १.४२ ॥

दानं भोगो नाशस्तिस्रो
गतयो भवंति वित्तस्य ।
यो न ददाति न भुंक्ते
तस्य तृतीया गतिर्भवति ॥ १.४३ ॥

मणिः शाणोल्लीढः समरविजयी हेतिदलितो
मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः ।
कलाशेषश्चंद्रः सुरतमृदिता बालवनिता
तन्निम्ना शोभंते गलितविभवाश्चार्थिषु नराः ॥ १.४४ ॥

परिक्षीणः कश्चित्स्पृहयति यवानां प्रसृतये
स पश्चात्संपूर्णः कलयति धरित्रीं तृणसमाम् ।
अतश्चानैकांत्याद्गुरुलघुतया‌உर्थेषु धनिनाम्
अवस्था वस्तूनि प्रथयति च संकोचयति च ॥ १.४५ ॥

राजंदुधुक्षसि यदि क्षितिधेनुम् एतां
तेनाद्य वत्सम् इव लोकम् अमुं पुषाण
तस्मिंश्च सम्यगनिशं परिपोष्यमाणे
नानाफलैः फलति कल्पलतेव भूमिः ॥ १.४६ ॥

सत्यानृता च परुषा प्रियवादिनी च
हिंस्रा दयालुरपि चार्थपरा वदान्या ।
नित्यव्यया प्रचुरनित्यधनागमा च
वारांगनेव नृपनीतिरनेकरूपा ॥ १.४७ ॥

आज्ञा कीर्तिः पालनं ब्राह्मणानां
दानं भोगो मित्रसंरक्षणं च
येषाम् एते षड्गुणा न प्रवृत्ताः
को‌உर्थस्तेषां पार्थिवोपाश्रयेण ॥ १.४८ ॥

यद्धात्रा निजभालपट्टलिखितं स्तोकं महद्वा धनं
तत्प्राप्नोति मरुस्थले‌உपि नितरां मेरौ ततो नाधिकम् ।
तद्धीरो भव वित्तवत्सु कृपणां वृत्तिं वृथा सा कृथाः
कूपे पश्य पयोनिधावपि घटो गृह्णाति तुल्यं जलम् ॥ १.४९ ॥

त्वम् एव चातकाधारो‌உ
सीति केषां न गोचरः ।
किम् अंभोदवरास्माकं
कार्पण्योक्तं प्रतीक्षसे ॥ १.५० ॥

रे रे चातक सावधानमनसा मित्र क्षणं श्रूयताम्
अंभोदा बहवो वसंति गगने सर्वे‌உपि नैतादृशाः ।
केचिद्वृष्टिभिरार्द्रयंति वसुधां गर्जंति केचिद्वृथा
यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं वचः ॥ १.५१ ॥

अकरुणत्वम् अकारणविग्रहः
परधने परयोषिति च स्पृहा ।
सुजनबंधुजनेष्वसहिष्णुता
प्रकृतिसिद्धम् इदं हि दुरात्मनाम् ॥ १.५२ ॥

दुर्जनः परिहर्तव्यो
विद्यया‌உलकृतो‌உपि सन् ।
मणिना भूषितः सर्पः
किम् असौ न भयंकरः ॥ १.५३ ॥

जाड्यं ह्रीमति गण्यते व्रतरुचौ दंभः शुचौ कैतवं
शूरे निर्घृणता मुनौ विमतिता दैन्यं प्रियालापिनि ।
तेजस्विन्यवलिप्तता मुखरता वक्तर्यशक्तिः स्थिरे
तत्को नाम गुणो भवेत्स गुणिनां यो दुर्जनैर्नांकितः ॥ १.५४ ॥

लोभश्चेदगुणेन किं पिशुनता यद्यस्ति किं पातकैः
सत्यं चेत्तपसा च किं शुचि मनो यद्यस्ति तीर्थेन किम् ।
सौजन्यं यदि किं गुणैः सुमहिमा यद्यस्ति किं मंडनैः
सद्विद्या यदि किं धनैरपयशो यद्यस्ति किं मृत्युना ॥ १.५५ ॥

शशी दिवसधूसरो गलितयौवना कामिनी
सरो विगतवारिजं मुखम् अनक्षरं स्वाकृतेः ।
प्रभुर्धनपरायणः सततदुर्गतः सज्जनो
नृपांगणगतः खलो मनसि सप्त शल्यानि मे ॥ १.५६ ॥

न कश्चिच्चंडकोपानाम्
आत्मीयो नाम भूभुजाम् ।
होतारम् अपि जुह्वानं
स्पृष्टो वहति पावकः ॥ १.५७ ॥

मौन्ॐ‌ऊकः प्रवचनपटुर्बाटुलो जल्पको वा
धृष्टः पार्श्वे वसति च सदा दूरतश्चाप्रगल्भः ।
क्षांत्या भीरुर्यदि न सहते प्रायशो नाभिजातः
सेवाधर्मः परमगहनो योगिनाम् अप्यगम्यः ॥ १.५८ ॥

उद्भासिताखिलखलस्य विशृंखलस्य
प्राग्जातविस्तृतनिजाधमकर्मवृत्तेः ।
दैवादवाप्तविभवस्य गुणद्विषो‌உस्य
नीचस्य गोचरगतैः सुखम् आप्यते ॥ १.५९ ॥

आरंभगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्धपरार्धभिन्ना
छायेव मैत्री खलसज्जनानाम् ॥ १.६० ॥

मृगमीनसज्जनानां तृणजलसंतोषविहितवृत्तीनाम् ।
लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति ॥ १.६१ ॥

वाञ्छा सज्जनसंगमे परगुणे प्रीतिर्गुरौ नम्रता
विद्यायां व्यसनं स्वयोषिति रतिर्लोकापवादाद्भयम् ।
भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः खले
येष्वेते निवसंति निर्मलगुणास्तेभ्यो नरेभ्यो नमः ॥ १.६२ ॥

विपदि धैर्यम् अथाभ्युदये क्षमा
सदसि वाक्यपटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धम् इदं हि महात्मनाम् ॥ १.६३ ॥

प्रदानं प्रच्छन्नं गृहम् उपगते संभ्रमविधिः
प्रियं कृत्वा मौनं सदसि कथनं चाप्युपकृतेः ।
अनुत्सेको लक्ष्म्याम् अनभिभवगंधाः परकथाः
सतां केनोद्दिष्टं विषमम् असिधाराव्रतम् इदम् ॥ १.६४ ॥

करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता
मुखे सत्या वाणी विजयि भुजयोर्वीर्यम् अतुलम् ।
हृदि स्वच्छा वृत्तिः श्रुतिम् अधिगतं च श्रवणयोर्
विनाप्यैश्वर्येण प्रकृतिमहतां मंडनम् इदम् ॥ १.६५ ॥

संपत्सु महतां चित्तं
भवत्युत्पलक्ॐ‌अलम् ।आपत्सु च महाशैलशिला
संघातकर्कशम् ॥ १.६६ ॥

संतप्तायसि संस्थितस्य पयसो नामापि न ज्ञायते
मुक्ताकारतया तदेव नलिनीपत्रस्थितं राजते ।
स्वात्यां सागरशुक्तिमध्यपतितं तन्मौक्तिकं जायते
प्रायेणाधममध्यमोत्तमगुणः संसर्गतो जायते ॥ १.६७ ॥

प्रीणाति यः सुचरितैः पितरं स पुत्रो
यद्भर्तुरेव हितम् इच्छति तत्कलत्रम् ।
तन्मित्रम् आपदि सुखे च समक्रियं यद्
एतत्त्रयं जगति पुण्यकृतो लभंते ॥ १.६८ ॥

एको देवः केशवो वा शिवो वा
ह्येकं मित्रं भूपतिर्वा यतिर्वा ।
एको वासः पत्तने वा वने वा
ह्येका भार्या सुंदरी वा दरी वा ॥ १.६९ ॥

नम्रत्वेनोन्नमंतः परगुणकथनैः स्वान्गुणान्ख्यापयंतः
स्वार्थान्संपादयंतो विततपृथुतरारंभयत्नाः परार्थे ।
क्षांत्यैवाक्षेपरुक्षाक्षरमुखरमुखांदुर्जनांदूषयंतः
संतः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः ॥ १.७० ॥

भवंति नम्रास्तरवः फलोद्गमैर्
नवांबुभिर्दूरावलंबिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एष परोपकारिणाम् ॥ १.७१ ॥

श्रोत्रं श्रुतेनैव न कुंडलेन
दानेन पाणिर्न तु कंकणेन ।
विभाति कायः करुणपराणां
परोपकारैर्न तु चंदनेन ॥ १.७२ ॥

पापान्निवारयति योजयते हिताय
गुह्यं निगूहति गुणान्प्रकटीकरोति ।
आपद्गतं च न जहाति ददाति काले
सन्मित्रलक्षणम् इदं प्रवदंति संतः ॥ १.७३ ॥

पद्माकरं दिनकरो विकचीकरोति
चम्द्र्प्वोलासयति कैरवचक्रवालम् ।
नाभ्यर्थितो जलधरो‌உपि जलं ददाति
संतः स्वयं परहिते विहिताभियोगाः ॥ १.७४ ॥

एके सत्पुरुषाः परार्थघटकाः स्वार्थं परित्यजंति ये
सामान्यास्तु परार्थम् उद्यमभृतः स्वार्थाविरोधेन ये ।
ते‌உमी मानुषराक्षसाः परहितं स्वार्थाय निघ्नंति ये
ये तु घ्नंति निरर्थकं परहितं ते के न जानीमहे ॥ १.७५ ॥

क्षीरेणात्मगतोदकाय हि गुणा दत्ता पुरा ते‌உखिला
क्षीरोत्तापम् अवेक्ष्य तेन पयसा स्वात्मा कृशानौ हुतः ।
गंतुं पावकम् उन्मनस्तदभवद्दृष्ट्वा तु मित्रापदं
युक्तं तेन जलेन शाम्यति सतां मैत्री पुनस्त्वीदृशी ॥ १.७६ ॥

इतः स्वपिति केशवः कुलम् इतस्तदीयद्विषाम्
इतश्च शरणार्थिनां शिखरिणां गणाः शेरते ।
इतो‌உपि बडवानलः सह समस्तसंवर्तकै‌ऋ
अहो विततम् ऊर्जितं भरसहं सिंधोर्वपुः ॥ १.७७ ॥

तृष्णां छिंधि भज क्षमां जहि मदं पापे रतिं मा कृथाः
सत्यं ब्रूह्यनुयाहि साधुपदवीं सेवस्व विद्वज्जनम् ।
मान्यान्मानय विद्विषो‌உप्यनुनय प्रख्यापय प्रश्रयं
कीर्तिं पालय दुःखिते कुरु दयाम् एतत्सतां चेष्टितम् ॥ १.७८ ॥

मनसि वचसि काये पुण्यपीयूषपूर्णास्
त्रिभुवनम् उपकारश्रेणिभिः प्रीणयंतः ।
परगुणपरमाणून्पर्वतीकृत्य नित्यं
निजहृदि विकसंतः संत संतः कियंतः ॥ १.७९ ॥

किं तेन हेमगिरिणा रजताद्रिणा वा
यत्राश्रिताश्च तरवस्तरवस्त एव ।
मन्यामहे मलयम् एव यद्‌आश्रयेण
कंकोलनिंबकटुजा अपि चंदनाः स्युः ॥ १.८० ॥

रत्नैर्महार्हैस्तुतुषुर्न देवा
न भेजिरे भीमविषेण भीतिम् ।
सुधां विना न परयुर्विरामं
न निश्चितार्थाद्विरमंति धीराः ॥ १.८१ ॥

क्वचित्पृथ्वीशय्यः क्वचिदपि च परंकशयनः
क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः ।
क्वचित्कंथाधारी क्वचिदपि च दिव्यांबरधरो
मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥ १.८२ ॥

ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो
ज्ञानस्योपशमः श्रुतस्य विनयो वित्तस्य पात्रे व्ययः ।
अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्वाजता
सर्वेषाम् अपि सर्वकारणम् इदं शीलं परं भूषणम् ॥ १.८३ ॥

निंदंतु नीतिनिपुणा यदि वा स्तुवंतु
लक्ष्मीः समाविशतु गच्छतु वा यथेष्ठम् ।
अद्यैव वा मरणम् अस्तु युगांतरे वा
न्याय्यात्पथः प्रविचलंति पदं न धीराः ॥ १.८४ ॥

भग्नाशस्य करंडपिंडिततनोर्म्लानेंद्रियस्य क्षुधा
कृत्वाखुर्विवरं स्वयं निपतितो नक्तं मुखे भोगिनः ।
तृप्तस्तत्पिशितेन सत्वरम् असौ तेनैव यातः यथा
लोकाः पश्यत दैवम् एव हि नृणां वृद्धौ क्षये कारणम् ॥ १.८५ ॥

आलस्यं हि मनुष्याणां
शरीरस्थो महान्रिपुः ।
नास्त्युद्यमसमो बंधुः
कुर्वाणो नावसीदति ॥ १.८६ ॥

छिन्नो‌உपि रोहति तर्क्षीणो‌உप्युपचीयते पुनश्चंद्रः ।
इति विमृशंतः संतः संतप्यंते न दुःखेषु ॥ १.८७ ॥

नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः
स्वर्गो दुर्गम् अनुग्रहः किल हरेरैरावतो वारणः ।
इत्यैश्वर्यबलान्वितो‌உपि बलभिद्भग्नः परैः संगरे
तद्व्यक्तं ननु दैवम् एव शरणं धिग्धिग्वृथा पौरुषम् ॥ १.८८ ॥

कर्मायत्तं फलं पुंसां
बुद्धिः कर्मानुसारिणी ।
तथापि सुधिया भाव्यं
सुविचार्यैव कुर्वता ॥ १.८९ ॥

खल्वातो दिवसेश्वरस्य किरणैः संताडितो मस्तके
वाञ्छंदेशम् अनातपं विधिवशात्तालस्य मूलं गतः ।
तत्राप्यस्य महाफलेन पतता भग्नं सशब्दं शिरः
प्रायो गच्छति यत्र भाग्यरहितस्तत्रैव यांत्यापदः ॥ १.९० ॥

रविनिशाकरयोर्ग्रहपीडनं
गजभुजंगमयोरपि बंधनम् ।
मतिमतां च विलोक्य दरिद्रतां
विधिरहो बलवानिति मे मतिः ॥ १.९१ ॥

सृजति तावदशेषगुणकरं
पुरुषरत्नम् अलंकरणं भुवः ।
तदपि तत्क्षणभंगि करोति
चेदहह कष्टम् अपंडितता विधेः ॥ १.९२ ॥

पत्रं नैव यदा करीरविटपे दोषो वसंतस्य किम्
नोलूको‌உप्यव‌ओकते यदि दिवा सूर्यस्य किं दूषणम् ।
धारा नैव पतंति चातकमुखे मेघस्य किं दूषणम्
यत्पूर्वं विधिना ललाटलिखितं तन्मार्जितुं कः क्षमः ॥ १.९३ ॥

नमस्यामो देवान्ननु हतविधेस्ते‌உपि वशगा
विधिर्वंद्यः सो‌உपि प्रतिनियतकर्मैकफलदः ।
फलं कर्मायत्तं यदि किम् अमरैः किं च विधिना
नमस्तत्कर्मभ्यो विधिरपि न येभ्यः प्रभवति ॥ १.९४ ॥

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माडभांडोदरे
विष्णुर्येन दशावतारगहने क्षिप्तो महासंकटे ।
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः
सूर्यो भ्राम्यति नित्यम् एव गगने तस्मै नमः कर्मणे ॥ १.९५ ॥

नैवाकृतिः फलति नैवा कुलं न शीलं
विद्यापि नैव न च यत्नकृतापि सेवा ।
भाग्यानि पूर्वतपसा खलु संचितानि
काले फलंति पुरुषस्य यथैव वृक्षाः ॥ १.९६ ॥

वने रणे शत्रुजलाग्निमध्ये
महार्णवे पर्वतमस्तके वा ।
सुप्तं प्रमत्तं विषमस्थितं वा
रक्षंति पुण्यानि पुराकृतानि ॥ १.९७ ॥

या साधूंश्च खलान्करोति विदुषो मूर्खान्हितांद्वेषिणः
प्रत्यक्षं कुरुते परीक्षम् अमृतं हालाहलं तत्क्षणात् ।
ताम् आराधय सत्क्रियां भगवतीं भोक्तुं फलं वाञ्छितं
हे साधो व्यसनैर्गुणेषु विपुलेष्वास्थां वृथा मा कृथाः ॥ १.९८ ॥

गुणवदगुणवद्वा कुर्वता कार्यजातं
परिणतिरवधार्या यत्नतः पंडितेन ।
अतिरभसकृतानां कर्मणाम् आविपत्तेर्
भवति हृदयदाही शल्यतुल्यो विपाकः ॥ १.९९ ॥

स्थाल्यां वैदूर्यमय्यां पचति तिलकणांश्चंदनैरिंधनौघैः
सौवर्णैर्लांगलाग्रैर्विलिखति वसुधाम् अर्कमूलस्य हेतोः ।
कृत्वा कर्पूरखंडान्वृत्तिम् इह कुरुते कोद्रवाणां समंतात्
प्राप्येमां कर्ंभूमिं न चरति मनुजो यस्तोप मंदभाग्यः ॥ १.१०० ॥

मज्जत्वंभसि यातु मेरुशिखरं शत्रुं जयत्वाहवे
वाणिज्यं कृषिसेवने च सकला विद्याः कलाः शिक्षताम् ।
आकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्नं परं
नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः ॥ १.१०१ ॥

भीमं वनं भवति तस्य पुरं प्रधानं
सर्वो जनः स्वजनताम् उपयाति तस्य ।
कृत्स्ना च भूर्भवति सन्निधिरत्नपूर्णा
यस्यास्ति पूर्वसुकृतं विपुलं नरस्य ॥ १.१०२ ॥

को लाभो गुणिसंगमः किम् असुखं प्राज्ञेतरैः संगतिः
का हानिः समयच्युतिर्निपुणता का धर्मतत्त्वे रतिः ।
कः शूरो विजितेंद्रियः प्रियतमा का‌உनुव्रता किं धनं
विद्या किं सुखम् अप्रवासगमनं राज्यं किम् आज्ञाफलम् ॥ १.१०३ ॥

अप्रियवचनदरिद्रैः प्रियवचनधनाढ्यैः स्वदारपरितुष्टैः ।
परपरिवादनिवृत्तैः क्वचित्क्वचिन्मंडिता वसुधा ॥ १.१०४ ॥

कदर्थितस्यापि हि धैर्यवृत्तेर्
न शक्यते धैर्यगुणः प्रमार्ष्टुम् ।
अध्ॐ‌उखस्यापि कृतस्य वह्नेर्
नाधः शिखा याति कदाचिदेव ॥ १.१०५ ॥

कांताकटाक्षविशिखा न लुनंति यस्य
चित्तं न निर्दहति किपकृशानुतापः ।
कर्षंति भूरिविषयाश्च न लोभपाशैर्
लोकत्रयं जयति कृत्स्नम् इदं स धीरः ॥ १.१०६ ॥

एकेनापि हि शूरेण
पादाक्रांतं महीतलम् ।
क्रियते भास्करेणैव
स्फारस्फुरिततेजसा ॥ १.१०७ ॥

वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान्
मेरुः स्वल्पशिलायते मृगपतिः सद्यः कुरंगायते ।
व्यालो माल्यगुणायते विषरसः पीयूषवर्षायते
यस्यांगे‌உखिललोकवल्लभतमं शीलं समुन्मीलति ॥ १.१०८ ॥

लज्जागुणौघजननीं जननीम् इव स्वाम्
अत्यंतशुद्धहृदयाम् अनुवर्तमानाम् ।
तेजस्विनः सुखम् असूनपि संत्यजनति
सत्यव्रतव्यसनिनो न पुनः प्रतिज्ञाम् ॥ १.१०९ ॥

Hindi

Sri Rama Mangalasasanam (Prapatti & Mangalam) – Hindi

No Comments 15 May 2013

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 
मंगलं कौसलेंद्राय महनीय गुणात्मने ।
चक्रवर्ति तनूजाय सार्वभौमाय मंगलम् ॥ १ ॥

वेदवेदांत वेद्याय मेघश्यामल मूर्तये ।
पुंसां मोहन रूपाय पुण्यश्लोकाय मंगलम् ॥ २ ॥

विश्वामित्रांत रंगाय मिथिला नगरी पते ।
भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ ३ ॥

पित्रुभक्ताय सततं भातृभिः सह सीतया ।
नंदिताखिल लोकाय रामभद्राय मंगलम् ॥ ४ ॥

त्यक्त साकेत वासाय चित्रकूट विहारिणे ।
सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ ५ ॥

सौमित्रिणाच जानक्या चाप बाणासि धारिणे ।
संसेव्याय सदा भक्त्या स्वामिने मम मंगलम् ॥ ६ ॥

दंडकारण्य वासाय खरदूषण शत्रवे ।
गृध्र राजाय भक्ताय मुक्ति दायास्तु मंगलम् ॥ ७ ॥

सादरं शबरी दत्त फलमूल भिलाषिणे ।
सौलभ्य परिपूर्णाय सत्योद्रिक्ताय मंगलम् ॥ ८ ॥

हनुंत्समवेताय हरीशाभीष्ट दायिने ।
वालि प्रमध नायास्तु महाधीराय मंगलम् ॥ ९ ॥

श्रीमते रघु वीराय सेतूल्लंघित सिंधवे ।
जितराक्षस राजाय रणधीराय मंगलम् ॥ १० ॥

विभीषण कृते प्रीत्या लंकाभीष्ट प्रदायिने ।
सर्वलोक शरण्याय श्रीराघवाय मंगलम् ॥ ११ ॥

आगत्य नगरीं दिव्यामभिषिक्ताय सीतया ।
राजाधि राज राजाय रामभद्राय मंगलम् ॥ १२ ॥

भ्रह्मादि देवसेव्याय भ्रह्मण्याय महात्मने ।
जानकी प्राण नाथाय रघुनाथाय मंगलम् ॥ १३ ॥

श्रीसौम्य जामातृमुनेः कृपयास्मानु पेयुषे ।
महते मम नाथाय रघुनाथाय मंगलम् ॥ १४ ॥

मंगलाशासन परैर्मदाचार्य पुरोगमै ।
सर्वैश्च पूर्वैराचार्र्यैः सत्कृतायास्तु मंगलम् ॥ १५ ॥

रम्यजा मातृ मुनिना मंगला शासनं कृतम् ।
त्रैलोक्याधिपतिः श्रीमान् करोतु मंगलं सदा ॥

Hindi

Shiva Bhujanga Prayata Stotram – Hindi

No Comments 12 May 2013

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: आदि शंकराचार्य

कृपासागरायाशुकाव्यप्रदाय
प्रणम्राखिलाभीष्टसंदायकाय ।
यतींद्रैरुपास्यांघ्रिपाथोरुहाय
प्रबोधप्रदात्रे नमः शंकराय ॥१॥

चिदानंदरूपाय चिन्मुद्रिकोद्य-
त्करायेशपर्यायरूपाय तुभ्यम् ।
मुदा गीयमानाय वेदोत्तमांगैः
श्रितानंददात्रे नमः शंकराय ॥२॥

जटाजूटमध्ये पुरा या सुराणां
धुनी साद्य कर्मंदिरूपस्य शंभोः
गले मल्लिकामालिकाव्याजतस्ते
विभातीति मन्ये गुरो किं तथैव ॥३॥

नखेंदुप्रभाधूतनम्रालिहार्दा-
ंधकारव्रजायाब्जमंदस्मिताय ।
महामोहपाथोनिधेर्बाडबाय
प्रशांताय कुर्मो नमः शंकराय ॥४॥

प्रणम्रांतरंगाब्जबोधप्रदात्रे
दिवारात्रमव्याहतोस्राय कामम् ।
क्षपेशाय चित्राय लक्ष्म क्षयाभ्यां
विहीनाय कुर्मो नमः शंकराय ॥५॥

प्रणम्रास्यपाथोजमोदप्रदात्रे
सदांतस्तमस्तोमसंहारकर्त्रे ।
रजन्या मपीद्धप्रकाशाय कुर्मो
ह्यपूर्वाय पूष्णे नमः शंकराय ॥६॥

नतानां हृदब्जानि फुल्लानि शीघ्रं
करोम्याशु योगप्रदानेन नूनम् ।
प्रबोधाय चेत्थं सरोजानि धत्से
प्रफुल्लानि किं भो गुरो ब्रूहि मह्यम् ॥७॥

प्रभाधूतचंद्रायुतायाखिलेष्ट-
प्रदायानतानां समूहाय शीघ्रम्।
प्रतीपाय नम्रौघदुःखाघपंक्ते-
र्मुदा सर्वदा स्यान्नमः शंकराय ॥८॥

विनिष्कासितानीश तत्त्वावबोधा –
न्नतानां मनोभ्यो ह्यनन्याश्रयाणि ।
रजांसि प्रपन्नानि पादांबुजातं
गुरो रक्तवस्त्रापदेशाद्बिभर्षि ॥९॥

मतेर्वेदशीर्षाध्वसंप्रापकाया-
नतानां जनानां कृपार्द्रैः कटाक्षैः ।
ततेः पापबृंदस्य शीघ्रं निहंत्रे
स्मितास्याय कुर्मो नमः शंकराय ॥१०॥

सुपर्वोक्तिगंधेन हीनाय तूर्णं
पुरा तोटकायाखिलज्ञानदात्रे।
प्रवालीयगर्वापहारस्य कर्त्रे
पदाब्जम्रदिम्ना नमः शंकराय ॥११॥

भवांभोधिमग्नान्जनांदुःखयुक्तान्
जवादुद्दिधीर्षुर्भवानित्यहो‌உहम् ।
विदित्वा हि ते कीर्तिमन्यादृशांभो
सुखं निर्विशंकः स्वपिम्यस्तयत्नः ॥१२॥

॥इति श्रीशंकराचार्य भुजंगप्रयातस्तोत्रम्॥

Hindi

Daridrya Dahana Shiva Stotram – Hindi

No Comments 29 April 2013

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: वसिष्ठ महर्षि

विश्वेश्वराय नरकार्णव तारणाय
कर्णामृताय शशिशेखर धारणाय ।
कर्पूरकांति धवलाय जटाधराय
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ १ ॥

गौरीप्रियाय रजनीश कलाधराय
कालांतकाय भुजगाधिप कंकणाय ।
गंगाधराय गजराज विमर्धनाय
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ २ ॥

भक्तप्रियाय भवरोग भयापहाय
उग्राय दुःख भवसागर तारणाय ।
ज्योतिर्मयाय गुणनाम सुनृत्यकाय
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ ३ ॥

चर्मांबराय शवभस्म विलेपनाय
फालेक्षणाय मणिकुंडल मंडिताय ।
मंजीरपादयुगलाय जटाधराय
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ ४ ॥

पंचाननाय फणिराज विभूषणाय
हेमांकुशाय भुवनत्रय मंडिताय
आनंद भूमि वरदाय तमोपयाय ।
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ ५ ॥

भानुप्रियाय भवसागर तारणाय
कालांतकाय कमलासन पूजिताय ।
नेत्रत्रयाय शुभलक्षण लक्षिताय
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ ६ ॥

रामप्रियाय रघुनाथ वरप्रदाय
नागप्रियाय नरकार्णव तारणाय ।
पुण्याय पुण्यभरिताय सुरार्चिताय
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ ७ ॥

मुक्तेश्वराय फलदाय गणेश्वराय
गीताप्रियाय वृषभेश्वर वाहनाय ।
मातंगचर्म वसनाय महेश्वराय
दारिद्र्यदुःख दहनाय नमश्शिवाय ॥ ८ ॥

वसिष्ठेन कृतं स्तोत्रं सर्वरोग निवारणम् ।
सर्वसंपत्करं शीघ्रं पुत्रपौत्रादि वर्धनम् ।
त्रिसंध्यं यः पठेन्नित्यं न हि स्वर्ग मवाप्नुयात् ॥ ९ ॥

॥ इति श्री वसिष्ठ विरचितं दारिद्र्यदहन शिवस्तोत्रम् संपूर्णम् ॥

Hindi

Gopala Krishna Dasavatharam – Hindi

No Comments 29 April 2013

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 
मल्लेपूलहारमेय्यवे
ओयम्म नन्नु मत्स्यावतारुडनवे

मल्लेपूलहारमेसेदा गोपालकृष्ण
मत्स्यावतारुडनेद

कुप्पिकुच्चुल जडलुवेय्यवे
ओयम्म नन्नु कूर्मावतारुडनवे

कुप्पिकुच्चुल जडलुवेसेदा गोपालकृष्ण
कूर्मावतारुडनेद

वरमुलिच्चि दीविंचवे
ओयम्म नन्नु वरहावतारुडनवे

वरमुलिच्चि दीविंचेद गोपालकृष्ण
वरहावतारुडनेद

नाण्यमैन नगलुवेयवे
ओयम्म नन्नु नरसिंहावतारुडनवे

नाण्यमैन नगलुवेसेदा गोपालकृष्ण
नरसिंहावतारुडनेद

वायुवेग रथमुनिय्यवे
ओयम्म नन्नु वामनवतारुडनवे

वायुवेग रथमुनिच्चेदा गोपालकृष्ण
वामनावतारुडनेद

पालु पोसि बुव्वपेट्टवे
ओयम्म नन्नु परशुरामावतारुडनवे

पालु पोसि बुव्वपेट्टेद गोपालकृष्ण
परशुरामावतारुडनेद

आनंदबालुडनवे
ओयम्म नन्नु अयोध्यवासुडनवे

आनंदबालुडनेद गोपालकृष्ण
अयोध्यवासुडनेद

गोवुलुकाचे बालुडनवे
ओयम्म नन्नु गोपालकृष्णुडनवे

गोवुलुकाचे बालुडनेद
ना तंड्रि निन्नु गोपालकृष्णुडनेद

बुध्धुलु कलिपि मुद्दपेट्टवे
ओयम्म नन्नु बुध्धावतारुडनवे

बुध्धुलु कलिपि मुद्दपेट्टेद गोपालकृष्ण
बुध्धावतारुडनेद

काल्लकु पसिडिगज्जेलु कट्टवे
ओयम्म नन्नु कलिकावतारुडनवे

काल्लकु पसिडिगज्जेलु कट्टेद गोपालकृष्ण
कलिकावतारुडनेद

Hindi

Mooka Pancha Sathi 5 – Mandasmitha Satakam – Hindi

No Comments 18 February 2013

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: श्री मूक शंकरेंद्र सरस्वति

बध्नीमो वयमंजलिं प्रतिदिनं बंधच्छिदे देहिनां
कंदर्पागमतंत्रमूलगुरवे कल्याणकेलीभुवे ।
कामाक्ष्या घनसारपुंजरजसे कामद्रुहश्चक्षुषां
मंदारस्तबकप्रभामदमुषे मंदस्मितज्योतिषे ॥१॥

सध्रीचे नवमल्लिकासुमनसां नासाग्रमुक्तामणे-
राचार्याय मृणालकांडमहसां नैसर्गिकाय द्विषे ।
स्वर्धुन्या सह युध्वेन हिमरुचेरर्धासनाध्यासिने
कामाक्ष्याः स्मितमंजरीधवलिमाद्वैताय तस्मै नमः ॥२॥

कर्पूरद्युतिचातुरीमतितरामल्पीयसीं कुर्वती
दौर्भाग्योदयमेव संविदधती दौषाकरीणां त्विषाम् ।
क्षुल्लानेव मनोज्ञमल्लिनिकरान्फुल्लानपि व्यंजती
कामाक्ष्या मृदुलस्मितांशुलहरी कामप्रसूरस्तु मे ॥३॥

या पीनस्तनमंडलोपरि लसत्कर्पूरलेपायते
या नीलेक्षणरात्रिकांतिततिषु ज्योत्स्नाप्ररोहायते ।
या सौंदर्यधुनीतरंगततिषु व्यालोलहंसायते
कामाक्ष्याः शिशिरीकरोतु हृदयं सा मे स्मितप्राचुरी ॥४॥

येषां गच्छति पूर्वपक्षसरणिं कौमुद्वतः श्वेतिमा
येषां संततमारुरुक्षति तुलाकक्ष्यां शरच्चंद्रमाः ।
येषामिच्छति कंबुरप्यसुलभामंतेवसत्प्रक्रियां
कामाक्ष्या ममतां हरंतु मम ते हासत्विषामंकुराः ॥५॥

आशासीमसु संततं विदधती नैशाकरीं व्याक्रियां
काशानामभिमानभंगकलनाकौशल्यमाबिभ्रती ।
ईशानेन विलोकिता सकुतुकं कामाक्षि ते कल्मष-
क्लेशापायकरी चकास्ति लहरी मंदस्मितज्योतिषाम् ॥६॥

आरूढस्य समुन्नतस्तनतटीसाम्राज्यसिंहासनं
कंदर्पस्य विभोर्जगत्त्रयप्राकट्यमुद्रानिधेः ।
यस्याश्चामरचातुरीं कलयते रश्मिच्छटा चंचला
सा मंदस्मितमंजरी भवतु नः कामाय कामाक्षि ते ॥७॥

शंभोर्या परिरंभसंभ्रमविधौ नैर्मल्यसीमानिधिः
गैर्वाणीव तरंगिणी कृतमृदुस्यंदां कलिंदात्मजाम् ।
कल्माषीकुरुते कलंकसुषमां कंठस्थलीचुंबिनीं
कामाक्ष्याः स्मितकंदली भवतु नः कल्याणसंदोहिनी ॥८॥

जेतुं हारलतामिव स्तनतटीं संजग्मुषी संततं
गंतुं निर्मलतामिव द्विगुणितां मग्ना कृपास्त्रोतसि ।
लब्धुं विस्मयनीयतामिव हरं रागाकुलं कुर्वती
मंजुस्ते स्मितमंजरी भवभयं मथ्नातु कामाक्षि मे ॥९॥

श्वेतापि प्रकटं निशाकररुचां मालिन्यमातन्वती
शीतापि स्मरपावकं पशुपतेः संधुक्षयंती सदा ।
स्वाभाव्यादधराश्रितापि नमतामुच्चैर्दिशंती गतिं
कामाक्षि स्फुटमंतरा स्फुरतु नस्त्वन्मंदहासप्रभा ॥१०॥

वक्त्रश्रीसरसीजले तरलितभ्रूवल्लिकल्लोलिते
कालिम्ना दधती कटाक्षजनुषा माधुव्रतीं व्यापृतिम् ।
निर्निद्रामलपुंडरीककुहनापांडित्यमाबिभ्रती
कामाक्ष्याः स्मितचातुरी मम मनः कातर्यमुन्मूलयेत् ॥११॥

नित्यं बाधितबंधुजीवमधरं मैत्रीजुषं पल्लवैः
शुद्धस्य द्विजमंडलस्य च तिरस्कर्तारमप्याश्रिता ।
या वैमल्यवती सदैव नमतां चेतः पुनीतेतरां
कामाक्ष्या हृदयं प्रसादयतु मे सा मंदहासप्रभा ॥१२॥

द्रुह्यंती तमसे मुहुः कुमुदिनीसाहाय्यमाबिभ्रती
यांती चंद्रकिशोरशेखरवपुःसौधांगणे प्रेंखणम् ।
ज्ञानांभोनिधिवीचिकां सुमनसां कूलंकषां कुर्वती
कामाक्ष्याः स्मितकौमुदी हरतु मे संसारतापोदयम् ॥१३॥

काश्मीरद्रवधातुकर्दमरुचा कल्माषतां बिभ्रती
हंसौधैरिव कुर्वती परिचितिं हारीकृतैर्मौक्तिकैः ।
वक्षोजन्मतुषारशैलकटके संचारमातन्वती
कामाक्ष्या मृदुलस्मितद्युतिमयी भागीरथी भासते ॥१४॥

कंबोर्वंशपरंपरा इव कृपासंतानवल्लीभुवः
संफुल्लस्तबका इव प्रसृमरा मूर्ताः प्रसादा इव ।
वाक्पीयूषकणा इव त्रिपथगापर्यायभेदा इव
भ्राजंते तव मंदहासकिरणाः कांचीपुरीनायिके ॥१५॥

वक्षोजे घनसारपत्ररचनाभंगीसपत्नायिता
कंठे मौक्तिकहारयष्टिकिरणव्यापारमुद्रायिता ।
ओष्ठश्रीनिकुरुंबपल्लवपुटे प्रेंखत्प्रसूनायिता
कामाक्षि स्फुरतां मदीयहृदये त्वन्मंदहासप्रभा ॥१६॥

येषां बिंदुरिवोपरि प्रचलितो नासाग्रमुक्तामणिः
येषां दीन इवाधिकंठमयते हारः करालंबनम् ।
येषां बंधुरिवोष्ठयोररुणिमा धत्ते स्वयं रंजनं
कामाक्ष्याः प्रभवंतु ते मम शिवोल्लासाय हासांकुराः ॥१७॥

या जाड्यांबुनिधिं क्षिणोति भजतां वैरायते कैरवैः
नित्यं यां नियमेन या च यतते कर्तुं त्रिणेत्रोत्सवम् ।
बिंबं चांद्रमसं च वंचयति या गर्वेण सा तादृशी
कामाक्षि स्मितमंजरी तव कथं ज्योत्स्नेत्यसौ कीर्त्यते ॥१८॥

आरुढा रभसात्पुरः पुररिपोराश्लेषणोपक्रमे
या ते मातरुपैति दिव्यतटिनीशंकाकरी तत्क्षणम् ।
ओष्ठौ वेपयति भ्रुवौ कुटिलयत्यानम्रयत्याननं
तां वंदे मृदुहासपूरसुषमामेकाम्रनाथप्रिये ॥१९॥

वक्त्रेंदोस्तव चंद्रिका स्मितततिर्वल्गु स्फुरंती सतां
स्याच्चेद्युक्तिमिदं चकोरमनसां कामाक्षि कौतूहलम् ।
एतच्चित्रमहर्निशं यदधिकामेषा रुचिं गाहते
बिंबोष्ठद्युमणिप्रभास्वपि च यद्बिब्बोकमालंबते ॥२०॥

सादृश्यं कलशांबुधेर्वहति यत्कामाक्षि मंदस्मितं
शोभामोष्ठरुचांब विद्रुमभवामेताद्भिदां ब्रूमहे ।
एकस्मादुदितं पुरा किल पपौ शर्वः पुराणः पुमान्
एतन्मध्यसमुद्भवं रसयते माधुर्यरूपं रसम् ॥२१॥

उत्तुंगस्तनकुंभशैलकटके विस्तारिकस्तूरिका-
पत्रश्रीजुषि चंचलाः स्मितरुचः कामाक्षि ते कोमलाः ।
संध्यादीधितिरंजिता इव मुहुः सांद्राधरज्योतिषा
व्यालोलामलशारदाभ्रशकलव्यापारमातन्वते ॥२२॥

क्षीरं दूरत एव तिष्ठतु कथं वैमल्यमात्रादिदं
मातस्ते सहपाठवीथिमयतां मंदस्मितैर्मंजुलैः ।
किं चेयं तु भिदास्ति दोहनवशादेकं तु संजायते
कामाक्षि स्वयमर्थितं प्रणमतामन्यत्तु दोदुह्यते ॥२३॥

कर्पूरैरमृतैर्जगज्जननि ते कामाक्षि चंद्रातपैः
मुक्ताहारगुणैर्मृणालवलयैर्मुग्धस्मितश्रीरियम् ।
श्रीकांचीपुरनायिके समतया संस्तूयते सज्जनैः
तत्तादृङ्मम तापशांतिविधये किं देवि मंदायते ॥२४॥

मध्येगर्भितमंजुवाक्यलहरीमाध्वीझरीशीतला
मंदारस्तबकायते जननि ते मंदस्मितांशुच्छटा ।
यस्या वर्धयितुं मुहुर्विकसनं कामाक्षि कामद्रुहो
वल्गुर्वीक्षणविभ्रमव्यतिकरो वासंतमासायते ॥२५॥

बिंबोष्ठद्युतिपुंजरंजितरुचिस्त्वन्मंदहासच्छटा ।
कल्याणं गिरिसार्वभौमतनये कल्लोलयत्वाशु मे ।
फुल्लन्मल्लिपिनद्धहल्लकमयी मालेव या पेशला
श्रीकांचीश्वरि मारमर्दितुरुरोमध्ये मुहुर्लंबते ॥२६॥

बिभ्राणा शरदभ्रविभ्रमदशां विद्योतमानाप्यसो
कामाक्षि स्मितमंजरी किरति ते कारुण्यधारारसम् ।
आश्चर्यं शिशिरीकरोति जगतीश्चालोक्य चैनामहो
कामं खेलति नीलकंठहृदयं कौतूहलांदोलितम् ॥२७॥

प्रेंखत्प्रौढकटाक्षकुंजकुहरेष्वत्यच्छगुच्छायितं
वक्त्रेंदुच्छविसिंधुवीचिनिचये फेनप्रतानायितम् ।
नैरंतर्यविजृंभितस्तनतटे नैचोलपट्टायितं
कालुष्यं कबलीकरोतु मम ते कामाक्षि मंदस्मितम् ॥२८॥

पीयूषं तव मंथरस्मितमिति व्यर्थैव सापप्रथा
कामाक्षि ध्रुवमीदृशं यदि भवेदेतत्कथं वा शिवे ।
मंदारस्य कथालवं न सहते मथ्नाति मंदाकिनी-
मिंदुं निंदति कीर्तिते‌உपि कलशीपाथोधिमीर्ष्यायते ॥२९॥

विश्वेषां नयनोत्सवं वितनुतां विद्योततां चंद्रमा
विख्यातो मदनांतकेन मुकुटीमध्ये च संमान्यताम् ।
आः किं जातमनेन हाससुषमामालोक्य कामाक्षि ते
कालंकीमवलंबते खलु दशां कल्माषहीनो‌உप्यसौ ॥३०॥

चेतः शीतलयंतु नः पशुपतेरानंदजीवातवो
नम्राणां नयनाध्वसीमसु शरच्चंद्रातपोपक्रमाः ।
संसाराख्यसरोरुहाकरखलीकारे तुषारोत्कराः
कामाक्षि स्मरकीर्तिबीजनिकरास्त्वन्मंदहासांकुराः ॥३१॥

कर्मौघाख्यतमःकचाकचिकरान्कामाक्षि संचिंतये
त्वन्मंदस्मितरोचिषां त्रिभुवनक्षेमंकरानंकुरान् ।
ये वक्त्रं शिशिरश्रियो विकसितं चंद्रातपांभोरुह-
द्वेषोद्धेषोणचातुरीमिव तिरस्कर्तुं परिष्कुर्वते ॥३२॥

कुर्युर्नः कुलशैलराजतनये कूलंकषं मंगलं
कुंदस्पर्धनचुंचवस्तव शिवे मंदस्मितप्रक्रमाः ।
ये कामाक्षि समस्तसाक्षिनयनं संतोषयंतीश्वरं
कर्पूरप्रकरा इव प्रसृमराः पुंसामसाधारणाः ॥३३॥

कम्रेण स्नपयस्व कर्मकुहनाचोरेण मारागम-
व्याख्याशिक्षणदीक्षितेन विदुषामक्षीणलक्ष्मीपुषा ।
कामाक्षि स्मितकंदलेन कलुषस्फोटक्रियाचुंचुना
कारुण्यामृतवीचिकाविहरणप्राचुर्यधुर्येण माम् ॥३४॥

त्वन्मंदस्मितकंदलस्य नियतं कामाक्षि शंकामहे
बिंबः कश्चन नूतनः प्रचलितो नैशाकरः शीकरः ।
किंच क्षीरपयोनिधिः प्रतिनिधिः स्वर्वाहिनीवीचिका-
बिब्वोको‌உपि विडंब एव कुहना मल्लीमतल्लीरुचः ॥३५॥

दुष्कर्मार्कनिसर्गकर्कशमहस्संपर्कतपतं मिल-
त्पंकं शंकरवल्लभे मम मनः कांचीपुरालंक्रिये ।
अंब त्वन्मृदुलस्मितामृतरसे मंक्त्वा विधूय व्यथा-
मानंदोदयसौधशृंगपदवीमारोढुमाकांक्षति ॥३६॥

नम्राणां नगराजशेखरसुते नाकालयानां पुरः
कामाक्षि त्वरया विपत्प्रशमेन कारुण्यधाराः किरन् ।
आगच्छंतमनुग्रहं प्रकटयन्नानंदबीजानि ते
नासीरे मृदुहास एव तनुते नाथे सुधाशीतलः ॥३७॥

कामाक्षि प्रथमानविभ्रमनिधिः कंदर्पदर्पप्रसूः
मुग्धस्ते मृदुहास एव गिरिजे मुष्णातु मे किल्बिषम् ।
यं द्रष्टुं विहिते करग्रह उमे शंभुस्त्रपामीलितं
स्वैरं कारयति स्म तांडवविनोदानंदिना तंडुना ॥३८॥

क्षुण्णं केनचिदेव धीरमनसा कुत्रापि नानाजनैः
कर्मग्रंथिनियंत्रितैरसुगमं कामाक्षि सामान्यतः ।
मुग्धैर्द्रुष्टुमशक्यमेव मनसा मूढसय मे मौक्तिकं
मार्गं दर्शयतु प्रदीप इव ते मंदस्मितश्रीरियम् ॥३९॥

ज्योत्स्नाकांतिभिरेव निर्मलतरं नैशाकरं मंडलं
हंसैरेव शरद्विलाससमये व्याकोचमंभोरुहम् ।
स्वच्छैरेव विकस्वरैरुडुगुणैः कामाक्षि बिंबं दिवः
पुण्यैरेव मृदुस्मितैस्तव मुखं पुष्णाति शोभाभरम् ॥४०॥

मानग्रंथिविधुंतुदेन रभसादास्वाद्यमाने नव-
प्रेमाडंबरपूर्णिमाहिमकरे कामाक्षि ते तत्क्षणम् ।
आलोक्य स्मितचंद्रिकां पुनरिमामुन्मीलनं जग्मुषीं
चेतः शीलयते चकोरचरितं चंद्रार्धचूडामणेः ॥४१॥

कामाक्षि स्मितमंजरीं तव भजे यस्यास्त्विषामंकुरा-
नापीनस्तनपानलालसतया निश्शंकमंकेशयः ।
ऊर्ध्वं वीक्ष्य विकर्षति प्रसृमरानुद्दामया शुंडया
सूनुसुते बिसशंकयाशु कुहनादंतावलग्रामणीः ॥४२॥

गाढाश्लेषविमर्दसंभ्रमवशादुद्दाममुक्तागुण-
प्रालंबे कुचकुंभयोर्विगलिते दक्षद्विषो वक्षसि ।
या सख्येन पिनह्यति प्रचुरया भासा तदीयां दशां
सा मे खेलतु कामकोटि हृदये सांद्रस्मितांशुच्छटा ॥४३॥

मंदारे तव मंथरस्मितरुचां मात्सर्यमालोक्यते
कामाक्षि स्मरशासने च नियतो रागोदयो लक्ष्यते ।
चांद्रीषु द्युतिमंजरीषु च महांद्वेषांकुरो दृश्यते
शुद्धानां कथमीदृशी गिरिसुते‌உतिशुद्धा दशा कथ्यताम् ॥४४॥

पीयूषं खलु पीयते सुरजनैर्दुग्धांबुधिर्मथ्यते
माहेशैश्च जटाकलापनिगडैर्मंदाकिनी नह्यते ।
शीतांशुः परिभूयते च तमसा तस्मादनेतादृशी
कामाक्षि स्मितमंजरी तव वचोवैदग्ध्यमुल्लंघते ॥४५॥

आशंके तव मंदहासलहरीमन्यादृशीं चंद्रिका-
मेकाम्रेशकुटुंबिनि प्रतिपदं यस्याः प्रभासंगमे ।
वक्षोजांबुरुहे न ते रचयतः कांचिद्दशां कौङ्मली-
मास्यांभोरुहमंब किंच शनकैरालंबते फुल्लताम् ॥४६॥

आस्तीर्णाधरकांतिपल्लवचये पातं मुहुर्जग्मुषी
मारद्रोहिणि कंदलत्स्मरशरज्वालावलीर्व्यंजती ।
निंदंती घनसारहारवलयज्योत्स्नामृणालानि ते
कामाक्षि स्मितचातुरी विरहिणीरीतिं जगाहेतराम् ॥४७॥

सूर्यालोकविधौ विकासमधिकं यांती हरंती तम-
स्संदोहं नमतां निजस्मरणतो दोषाकरद्वेषिणी ।
निर्यांती वदनारविंदकुहरान्निर्धूतजाड्या नृणां
श्रीकामाक्षि तव स्मितद्युतिमयी चित्रीयते चंद्रिका ॥४८॥

कुंठीकुर्युरमी कुबोधघटनामस्मन्मनोमाथिनीं
श्रीकामाक्षि शिवंकरास्तव शिवे श्रीमंदहासांकुराः ।
ये तन्वंति निरंतरं तरुणिमस्तंबेरमग्रामणी-
कुंभद्वंद्वविडंबिनि स्तनतटे मुक्ताकुथाडंबरम् ॥४९॥

प्रेंखंतः शरदंबुदा इव शनैः प्रेमानिलैः प्रेरिता
मज्जंतो मंदनारिकंठसुषमासिंधौ मुहुर्मंथरम् ।
श्रीकामाक्षि तव स्मितांशुनिकराः श्यामायमानश्रियो
नीलांभोधरनैपुणीं तत इतो निर्निद्रयंत्यंजसा ॥५०॥

व्यापारं चतुराननैकविहृतौ व्याकुर्वती कुर्वती
रुद्राक्षग्रहणं महेशि सततं वागूर्मिकल्लोलिता ।
उत्फुल्लं धवलारविंदमधरीकृत्य स्फुरंती सदा
श्रीकामाक्षि सरस्वती विजयते त्वन्मंदहासप्रभा ॥५१॥

कर्पूरद्युतितस्करेण महसा कल्माषयत्याननं
श्रीकांचीपुरनायिके पतिरिव श्रीमंदहासो‌உपि ते ।
आलिंगत्यतिपीवरां स्तनतटीं बिंबाधरं चुंबति
प्रौढं रागभरं व्यनक्ति मनसो धैर्यं धुनीतेतराम् ॥५२॥

वैशद्येन च विश्वतापहरणक्रीडापटीयस्तया
पांडित्येन पचेलिमेन जगतां नेत्रोत्सवोत्पादेन ।
कामाक्षि स्मितकंदलैस्तव तुलामारोढुमुद्योगिनी
ज्योत्स्नासौ जलराशिपोषणतया दूष्यां प्रपन्ना दशाम् ॥५३॥

लावण्यांबुजिनीमृणालवलयैः शृंगारगंधद्विप-
ग्रामण्यः श्रुतिचामरैस्तरुणिमस्वाराज्यतेजोंकुरैः ।
आनंदामृतसिंधुवीचिपृषतैरास्याब्जहंसैस्तव
श्रीकामाक्षि मथान मंदहसितैर्मत्कं मनःकल्मषम् ॥५४॥

उत्तुंगस्तनमंडलीपरिचलन्माणिक्यहारच्छटा-
चंचच्छोणिमपुंजमध्यसरणिं मातः परिष्कुर्वती ।
या वैदग्ध्यमुपैति शंकरजटाकांतारवाटीपत-
त्स्वर्वापीपयसः स्मितद्युतिरसौ कामाक्षि ते मंजुला ॥५५॥

सन्नामैकजुषा जनेन सुलभं संसूचयंती शनै-
रुत्तुंगस्य चिरादनुग्रहतरोरुत्पत्स्यमानं फलम् ।
प्राथम्येन विकस्वरा कुसुमवत्प्रागल्भ्यमभ्येयुषी
कामाक्षि स्मितचातुरी तव मम क्षेमंकरी कल्पताम् ॥५६॥

धानुष्काग्रसरस्य लोलकुटिलभ्रूलेखया बिभ्रतो
लीलालोकशिलीमुखं नववयस्साम्राज्यलक्ष्मीपुषः ।
जेतुं मन्मथमर्दिनं जननि ते कामाक्षि हासः स्वयं
वल्गुर्विभ्रमभूभृतो वितनुते सेनापतिप्रक्रियाम् ॥५७॥

यन्नाकंपत कालकूटकबलीकारे चुचुंबे न यद्-
ग्लान्या चक्षुषि रूषितानलशिखे रुद्रस्य तत्तादृशम् ।
चेतो यत्प्रसभं स्मरज्वरशिखिज्वालेन लेलिह्यते
तत्कामाक्षि तव स्मितांशुकलिकाहेलाभवं प्राभवम् ॥५८॥

संभिन्नेव सुपर्वलोकतटिनी वीचीचयैर्यामुनैः
संमिश्रेव शशांकदीप्तिलहरी नीलैर्महानीरदैः ।
कामाक्षि स्फुरिता तव स्मितरुचिः कालांजनस्पर्धिना
कालिम्ना कचरोचिषां व्यतिकरे कांचिद्दशामश्नुते ॥५९॥

जानीमो जगदीश्वरप्रणयिनि त्वन्मंदहासप्रभां
श्रीकामाक्षि सरोजिनीमभिनवामेषा यतः सर्वदा ।
आस्येंदोरवलोकेन पशुपतेरभ्येति संफुल्लतां
तंद्रालुस्तदभाव एव तनुते तद्वैपरीत्यक्रमम् ॥६०॥

यांती लोहितिमानमभ्रतटिनी धातुच्छटाकर्दमैः
भांती बालगभस्तिमालिकिरणैर्मेघावली शारदी ।
बिंबोष्ठद्युतिपुंजचुंबनकलाशोणायमानेन ते
कामाक्षि स्मितरोचिषा समदशामारोढुमाकांक्षते ॥६१॥

श्रीकामाक्षि मुखेंदुभूषणमिदं मंदस्मितं तावकं
नेत्रानंदकरं तथा हिमकरो गच्छेद्यथा तिग्मताम् ।
शीतं देवि तथा यथा हिमजलं संतापमुद्रास्पदं
श्वेतं किंच तथा यथा मलिनतां धत्ते च मुक्तामणिः ॥६२॥

त्वन्मंदस्मितमंजरीं प्रसृमरां कामाक्षि चंद्रातपं
संतः संततमामनंत्यमलता तल्लक्षणं लक्ष्यते ।
अस्माकं न धुनोति तापकमधिकं धूनोति नाभ्यंतरं
ध्वांतं तत्खलु दुःखिनो वयमिदं केनोति नो विद्महे ॥६३॥

नम्रस्य प्रणयप्ररूढकलहच्छेदाय पादाब्जयोः
मंदं चंद्रकिशोरशेखरमणेः कामाक्षि रागेण ते ।
बंधूकप्रसवश्रियं जितवतो बंहीयसीं तादृशीं
बिंबोष्ठस्य रुचिं निरस्य हसितज्योत्स्ना वयस्यायते ॥६४॥

मुक्तानां परिमोचनं विदधतस्तत्प्रीतिनिष्पादिनी
भूयो दूरत एव धूतमरुतस्तत्पालनं तन्वती ।
उद्भूतस्य जलांतरादविरतं तद्दूरतां जग्मुषी
कामाक्षि स्मितमंजरी तव कथं कंबोस्तुलामश्नुते ॥६५॥

श्रीकामाक्षि तव स्मितद्युतिझरीवैदग्ध्यलीलायितं
पश्यंतो‌உपि निरंतरं सुविमलंमन्या जगन्मंडले ।
लोकं हासयितुं किमर्थमनिशं प्राकाश्यमातन्वते
मंदाक्षं विरहय्य मंगलतरं मंदारचंद्रादयः ॥६६॥

क्षीराब्धेरपि शैलराजतनये त्वन्मंदहासस्य च
श्रीकामाक्षि वलक्षिमोदयनिधेः किंचिद्भिदां ब्रूमहे ।
एकस्मै पुरुषाय देवि स ददौ लक्ष्मीं कदाचित्पुरा
सर्वेभ्यो‌உपि ददात्यसौ तु सततं लक्ष्मीं च वागीश्वरीम् ॥६७॥

श्रीकांचीपुररत्नदीपकलिके तान्येव मेनात्मजे
चाकोराणि कुलानि देवि सुतरां धन्यानि मन्यामहे ।
कंपातीरकुटुंबचंक्रमकलाचुंचूनि चंचूपुटैः
नित्यं यानि तव स्मितेंदुमहसामास्वादमातन्वते ॥६८॥

शैत्यप्रक्रममाश्रितो‌உपि नमतां जाड्यप्रथां धूनयन्
नैर्मल्यं परमं गतो‌உपि गिरिशं रागाकुलं चारयन् ।
लीलालापपुरस्सरो‌உपि सततं वाचंयमान्प्रीणयन्
कामाक्षि स्मितरोचिषां तव समुल्लासः कथं वर्ण्यते ॥६९॥

श्रोणीचंचलमेखलामुखरितं लीलागतं मंथरं
भ्रूवल्लीचलनं कटाक्षवलनं मंदाक्षवीक्षाचणम् ।
यद्वैदग्ध्यमुखेन मन्मथरिपुं संमोहयंत्यंजसा
श्रीकामाक्षि तव स्मिताय सततं तस्मै नम्सकुर्महे ॥७०॥

श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्प्ररोहे तव
स्फीतश्वेतिमसार्वभौमसरणिप्रागल्भ्यमभ्येयुषि ।
चंद्रो‌உयं युवराजतां कलयते चेटीधुरं चंद्रिका
शुद्धा सा च सुधाझरी सहचरीसाधर्म्यमालंबते ॥७१॥

ज्योत्स्ना किं तनुते फलं तनुमतामौष्ण्यप्रशांतिं विना
त्वन्मंदस्मितरोचिषा तनुमतां कामाक्षि रोचिष्णुना ।
संतापो विनिवार्यते नववयःप्राचुर्यमंकूर्यते
सौंदर्यं परिपूर्यते जगति सा कीर्तिश्च संचार्यते ॥७२॥

वैमल्यं कुमुदश्रियां हिमरुचः कांत्यैव संधुक्ष्यते
ज्योत्स्नारोचिरपि प्रदोषसमयं प्राप्यैव संपद्यते ।
स्वच्छत्वं नवमौक्तिकस्य परमं संस्कारतो दृश्यते
कामाक्ष्याः स्मितदीधितेर्विशदिमा नैसर्गिको भासते ॥७३॥

प्राकाश्यं परमेश्वरप्रणयिनि त्वन्मंदहासश्रियः
श्रीकामाक्षि मम क्षिणोतु ममतावैचक्षणीमक्षयाम् ।
यद्भीत्येव निलीयते हिमकरो मेघोदरे शुक्तिका-
गर्भे मौक्तिकमंडली च सरसीमध्ये मृणाली च सा ॥७४॥

हेरंबे च गुहे हर्षभरितं वात्सल्यमंकूरयत्
मारद्रोहिणि पूरुषे सहभुवं प्रेमांकुरं व्यंजयत् ।
आनम्रेषु जनेषु पूर्णकरुणावैदग्ध्यमुत्तालयत्
कामाक्षि स्मितमंजसा तव कथंकारं मया कथ्यते ॥७५॥

संक्रुद्धद्विजराजको‌உप्यविरतं कुर्वंद्विजैः संगमं
वाणीपद्धतिदूरगो‌உपि सततं तत्साहचर्यं वहन् ।
अश्रांतं पशुदुर्लभो‌உपि कलयन्पत्यौ पशूनां रतिं
श्रीकामाक्षि तव स्मितामृतरसस्यंदो मयि स्पंदताम् ॥७६॥

श्रीकामाक्षि महेश्वरे निरुपमप्रेमांकुरप्रक्रमम्ं
नित्यं यः प्रकटीकरोति सहजामुन्निद्रयन्माधुरीम् ।
तत्तादृक्तव मंदहासमहिमा मातः कथं मानितां
तन्मूर्ध्ना सुरनिम्नगां च कलिकामिंदोश्च तां निंदति ॥७७॥

ये माधुर्यविहारमंटपभुवो ये शैत्यमुद्राकरा
ये वैशद्यदशाविशेषसुभगास्ते मंदहासांकुराः ।
कामाक्ष्याः सहजं गुणत्रयमिदं पर्यायतः कुर्वतां
वाणीगुंफनडंबरे च हृदये कीर्तिप्ररोहे च मे ॥७८॥

कामाक्ष्या मृदुलस्मितांशुनिकरा दक्षांतके वीक्षणे
मंदाक्षग्रहिला हिमद्युतिमयूखाक्षेपदीक्षांकुराः ।
दाक्ष्यं पक्ष्मलयंतु माक्षिकगुडद्राक्षाभवं वाक्षु मे
सूक्ष्मं मोक्षपथं निरीक्षितुमपि प्रक्षालयेयुर्मनः ॥७९॥

जात्या शीतशीतलानि मधुराण्येतानि पूतानि ते
गांगानीव पयांसि देवि पटलान्यल्पस्मितज्योतिषाम् ।
एनःपंकपरंपरामलिनितामेकाम्रनाथप्रिये
प्रज्ञानात्सुतरां मदीयधिषणां प्रक्षालयंतु क्षणात् ॥८०॥

अश्रांतं परतंत्रितः पशुपतिस्त्वन्मंदहासांकुरैः
श्रीकामाक्षि तदीयवर्णसमतासंगेन शंकामहे ।
इंदुं नाकधुनीं च शेखरयते मालां च धत्ते नवैः
वैकुंठैरवकुंठनं च कुरुते धूलीचयैर्भास्मनैः ॥८१॥

श्रीकांचीपुरदेवते मृदुवचस्सौरभ्यमुद्रास्पदं
प्रौढप्रेमलतानवीनकुसुमं मंदस्मितं तावकम् ।
मंदं कंदलति प्रियस्य वदनालोके समाभाषणे
श्लक्ष्णे कुङ्मलति प्ररूढपुलके चाश्लोषणे फुल्लति ॥८२॥

किं त्रैस्रोतसमंबिके परिणतं स्रोतश्चतुर्थं नवं
पीयूषस्य समस्ततापहरणं किंवा द्वितीयं वपुः ।
किंस्वित्त्वन्निकटं गतं मधुरिमाभ्यासाय गव्यं पयः
श्रीकांचीपुरनायकप्रियतमे मंदस्मितं तावकम् ॥८३॥

भूषा वक्त्रसरोरुहस्य सहजा वाचां सखी शाश्वती
नीवी विभ्रमसंततेः पशुपतेः सौधी दृशां पारणा ।
जीवातुर्मदनश्रियः शशिरुचेरुच्चाटनी देवता
श्रीकामाक्षि गिरामभूमिमयते हासप्रभामंजरी ॥८४॥

सूतिः श्वेतिमकंदलस्य वसतिः शृंगारसारश्रियः
पूर्तिः सूक्तिझरीरसस्य लहरी कारुण्यपाथोनिधेः ।
वाटी काचन कौसुमी मधुरिमस्वाराज्यलक्ष्म्यास्तव
श्रीकामाक्षि ममास्तु मंगलकरी हासप्रभाचातुरी ॥८५॥

जंतूनां जनिदुःखमृत्युलहरीसंतापनं कृंततः
प्रौढानुग्रहपूर्णशीतलरुचो नित्योदयं बिभ्रतः ।
श्रीकामाक्षि विसृत्वरा इव करा हासांकुरास्ते हठा-
दालोकेन निहन्युरंधतमसस्तोमस्य मे संततिम् ॥८६॥

उत्तुंगस्तनमंडलस्य विलसल्लावण्यलीलानटी-
रंगस्य स्फुटमूर्ध्वसीमनि मुहुः प्राकाश्यमभ्येयुषी ।
श्रीकामाक्षि तव स्मितद्युतिततिर्बिंबोष्ठकांत्यंकुरैः
चित्रां विद्रुममुद्रितां वितनुते मौक्तीं वितानश्रियम् ॥८७॥

स्वाभाव्यात्तव वक्त्रमेव ललितं संतोषसंपादनं
शंभोः किं पुनरंचितस्मितरुचः पांडित्यपात्रीकृतम् ।
अंभोजं स्वत एव सर्वजगतां चक्षुःप्रियंभावुकं
कामाक्षि स्फुरिते शरद्विकसिते कीदृग्विधं भ्राजते ॥८८॥

पुंभिर्निर्मलमानसौर्विदधते मैत्रीं दृढं निर्मलां
लब्ध्वा कर्मलयं च निर्मलतरां कीर्तिं लभंतेतराम् ।
सूक्तिं पक्ष्मलयंति निर्मलतमां यत्तावकाः सेवकाः
तत्कामाक्षि तव स्मितस्य कलया नैर्मल्यसीमानिधेः ॥८९॥

आकर्षन्नयनानि नाकिसदसां शैत्येन संस्तंभय-
न्निंदुं किंच विमोहयन्पशुपतिं विश्वार्तिमुच्चाटयन् ।
हिंसत्संसृतिडंबरं तव शिवे हासाह्वयो मांत्रिकः
श्रीकामाक्षि मदीयमानसतमोविद्वेषणे चेष्टताम् ॥९०॥

क्षेपीयः क्षपयंतु कल्मषभयान्यस्माकमल्पस्मित-
ज्योतिर्मंडलचंक्रमास्तव शिवे कामाक्षि रोचिष्णवः ।
पीडाकर्मठकर्मघर्मसमयव्यापारतापानल-
श्रीपाता नवहर्षवर्षणसुधास्रोतस्विनीशीकराः ॥९१॥

श्रीकामाक्षि तव स्मितैंदवमहःपूरे परिंफूर्जति
प्रौढां वारिधिचातुरीं कलयते भक्तात्मनां प्रातिभम् ।
दौर्गत्यप्रसरास्तमःपटलिकासाधर्म्यमाबिभ्रते
सर्वं कैरवसाहचर्यपदवीरीतिं विधत्ते परम् ॥९२॥

मंदारादिषु मन्मथारिमहिषि प्राकाश्यरीतिं निजां
कादाचित्कतया विशंक्य बहुशो वैशद्यमुद्रागुणः ।
सातत्येन तव स्मिते वितनुते स्वैरासनावासनाम् ॥९३॥

इंधाने भववीतिहोत्रनिवहे कर्मौघचंडानिल-
प्रौढिम्ना बहुलीकृते निपतितं संतापचिंताकुलम् ।
मातर्मां परिषिंच किंचिदमलैः पीयूषवर्षैरिव
श्रीकामाक्षि तव स्मितद्युतिकणैः शैशिर्यलीलाकरैः ॥९४॥

भाषाया रसनाग्रखेलनजुषः शृंगारमुद्रासखी-
लीलाजातरतेः सुखेन नियमस्नानाय मेनात्मजे ।
श्रीकामाक्षि सुधामयीव शिशिरा स्रोतस्विनी तावकी
गाढानंदतरंगिता विजयते हासप्रभाचातुरी ॥९५॥

संतापं विरलीकरोतु सकलं कामाक्षि मच्चेतना
मज्जंती मधुरस्मितामरधुनीकल्लोलजालेषु ते ।
नैरंतर्यमुपेत्य मन्मथमरुल्लोलेषु येषु स्फुटं
प्रेमेंदुः प्रतिबिंबितो वितनुते कौतूहलं धूर्जटेः ॥९६॥

चेतःक्षीरपयोधिमंथरचलद्रागाख्यमंथाचल-
क्षोभव्यापृतिसंभवां जननि ते मंदस्मितश्रीसुधाम् ।
स्वादंस्वादमुदीतकौतुकरसा नेत्रत्रयी शांकरी
श्रीकामाक्षि निरंतरं परिणमत्यानंदवीचीमयी ॥९७॥

आलोके तव पंचसायकरिपोरुद्दामकौतूहल-
प्रेंखन्मारुतघट्टनप्रचलितादानंददुग्धांबुधेः ।
काचिद्वीचिरुदंचति प्रतिनवा संवित्प्ररोहात्मिका
तां कामाक्षि कवीश्वराः स्मितमिति व्याकुर्वते सर्वदा ॥९८॥

सूक्तिः शीलयते किमद्रितनये मंदस्मितात्ते मुहुः
माधुर्यागमसंप्रदायमथवा सूक्तेर्नु मंदस्मितम् ।
इत्थं कामपि गाहते मम मनः संदेहमार्गभ्रमिं
श्रीकामाक्षि न पारमार्थ्यसरणिस्फूर्तौ निधत्ते पदम् ॥९९॥

क्रीडालोलकृपासरोरुहमुखीसौधांगणेभ्यः कवि-
श्रेणीवाक्परिपाटिकामृतझरीसूतीगृहेभ्यः शिवे ।
निर्वाणांकुरसार्वभौमपदवीसिंहासनेभ्यस्तव
श्रीकामाक्षि मनोज्ञमंदहसितज्योतिष्कणेभ्यो नमः ॥१००॥

आर्यामेव विभावयन्मनसि यः पादारविंदं पुरः
पश्यन्नारभते स्तुतिं स नियतं लब्ध्वा कटाक्षच्छविम् ।
कामाक्ष्या मृदुलस्मितांशुलहरीज्योत्स्नावयस्यान्विताम्
आरोहत्यपवर्गसौधवलभीमानंदवीचीमयीम् ॥१०१॥

॥ इति मंदस्मितशतकं संपूर्णम् ॥

॥ इति श्री मूकपंचशती संपूर्णा ॥

॥ॐ तत् सत् ॥

Hindi

Mooka Pancha Sathi 4 – Kataakshya Satakam – Hindi

No Comments 18 February 2013

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in सरल दॆवनागरी(हिंन्दी). View this in शुद्ध दॆवनागरी (Samskritam), with appropriate anuswaras marked.
 

रचन: श्री मूक शंकरेंद्र सरस्वति

मोहांधकारनिवहं विनिहंतुमीडे
मूकात्मनामपि महाकवितावदान्यान् ।
श्रीकांचिदेशशिशिरीकृतिजागरूकान्
एकाम्रनाथतरुणीकरुणावलोकान् ॥१॥

मातर्जयंति ममताग्रहमोक्षणानि
माहेंद्रनीलरुचिशिक्षणदक्षिणानि ।
कामाक्षि कल्पितजगत्त्रयरक्षणानि
त्वद्वीक्षणानि वरदानविचक्षणानि ॥२॥

आनंगतंत्रविधिदर्शितकौशलानाम्
आनंदमंदपरिघूर्णितमंथराणाम् ।
तारल्यमंब तव ताडितकर्णसीम्नां
कामाक्षि खेलति कटाक्षनिरीक्षणानाम् ॥३॥

कल्लोलितेन करुणारसवेल्लितेन
कल्माषितेन कमनीयमृदुस्मितेन ।
मामंचितेन तव किंचन कुंचितेन
कामाक्षि तेन शिशिरीकुरु वीक्षितेन ॥४॥

साहाय्यकं गतवती मुहुरर्जनस्य
मंदस्मितस्य परितोषितभीमचेताः ।
कामाक्षि पांडवचमूरिव तावकीना
कर्णांतिकं चलति हंत कटाक्षलक्ष्मीः ॥५॥

अस्तं क्षणान्नयतु मे परितापसूर्यम्
आनंदचंद्रमसमानयतां प्रकाशम् ।
कालांधकारसुषुमां कलयंदिगंते
कामाक्षि कोमलकटाक्षनिशागमस्ते ॥६॥

ताटांकमौक्तिकरुचांकुरदंतकांतिः
कारुण्यहस्तिपशिखामणिनाधिरूढः ।
उन्मूलयत्वशुभपादपमस्मदीयं
कामाक्षि तावककटाक्षमतंगजेतंद्रः ॥७॥

छायाभरणे जगतां परितापहारी
ताटंकरत्नमणितल्लजपल्लवश्रीः ।
कारुण्यनाम विकिरन्मकरंदजालं
कामाक्षि राजति कटाक्षसुरद्रुमस्ते ॥८॥

सूर्याश्रयप्रणयिनी मणिकुंडलांशु-
लौहित्यकोकनदकाननमाननीया ।
यांती तव स्मरहराननकांतिसिंधुं
कामाक्षि राजति कटाक्षकलिंदकन्या ॥९॥

प्राप्नोति यं सुकृतिनं तव पक्षपातात्
कामाक्षि वीक्षणविलासकलापुरंध्री ।
सद्यस्तमेव किल मुक्तिवधूर्वृणीते
तस्मान्नितांतमनयोरिदमैकमत्यम् ॥१०॥

यांती सदैव मरुतामनुकूलभावं
भ्रूवल्लिशक्रधनुरुल्लसिता रसार्द्रा ।
कामाक्षि कौतुकतरंगितनीलकंठा
कादंबिनीव तव भाति कटाक्षमाला ॥११॥

गंगांभसि स्मितमये तपनात्मजेव
गंगाधरोरसि नवोत्पलमालिकेव ।
वक्त्रप्रभासरसि शैवलमंडलीव
कामाक्षि राजति कटाक्षरुचिच्छटा ते ॥१२॥

संस्कारतः किमपि कंदलितान् रसज्ञ-
केदारसीम्नि सुधियामुपभोगयोग्यान् ।
कल्याणसूक्तिलहरीकलमांकुरान्नः
कामाक्षि पक्ष्मलयतु त्वदपांगमेघः ॥१३॥

चांचल्यमेव नियतं कलयन्प्रकृत्या
मालिन्यभूः श्रतिपथाक्रमजागरूकः ।
कैवल्यमेव किमु कल्पयते नतानां
कामाक्षि चित्रमपि ते करुणाकटाक्षः ॥१४॥

संजीवने जननि चूतशिलीमुखस्य
संमोहने शशिकिशोरकशेखरस्य ।
संस्तंभने च ममताग्रहचेष्टितस्य
कामाक्षि वीक्षणकला परमौषधं ते ॥१५॥

नीलो‌உपि रागमधिकं जनयन्पुरारेः
लोलो‌உपि भक्तिमधिकां दृढयन्नराणाम् ।
वक्रो‌உपि देवि नमतां समतां वितन्वन्
कामाक्षि नृत्यतु मयि त्वदपांगपातः ॥१६॥

कामद्रुहो हृदययंत्रणजागरूका
कामाक्षि चंचलदृगंचलमेखला ते ।
आश्चर्यमंब भजतां झटिति स्वकीय-
संपर्क एव विधुनोति समस्तबंधान् ॥१७॥

कुंठीकरोतु विपदं मम कुंचितभ्रू-
चापांचितः श्रितविदेहभवानुरागः ।
रक्षोपकारमनिशं जनयंजगत्यां
कामाक्षि राम इव ते करुणाकटाक्षः ॥१८॥

श्रीकामकोटि शिवलोचनशोषितस्य
शृंगारबीजविभवस्य पुनःप्ररोहे ।
प्रेमांभसार्द्रमचिरात्प्रचुरेण शंके
केदारमंब तव केवलदृष्टिपातम् ॥१९॥

माहात्म्यशेवधिरसौ तव दुर्विलंघ्य-
संसारविंध्यगिरिकुंठनकेलिचुंचुः ।
धैर्यांबुधिं पशुपतेश्चुलकीकरोति
कामाक्षि वीक्षणविजृंभणकुंभजन्मा ॥२०॥

पीयूषवर्षवशिशिरा स्फुटदुत्पलश्री-
मैत्री निसर्गमधुरा कृततारकाप्तिः ।
कामाक्षि संश्रितवती वपुरष्टमूर्तेः
ज्योत्स्नायते भगवति त्वदपांगमाला ॥२१॥

अंब स्मरप्रतिभटस्य वपुर्मनोज्ञम्
अंभोजकाननमिवांचितकंटकाभम् ।
भृंगीव चुंबति सदैव सपक्षपाता
कामाक्षि कोमलरुचिस्त्वदपांगमाला ॥२२॥

केशप्रभापटलनीलवितानजाले
कामाक्षि कुंडलमणिच्छविदीपशोभे ।
शंके कटाक्षरुचिरंगतले कृपाख्या
शैलूषिका नटति शंकरवल्लभे ते ॥२३॥

अत्यंतशीतलमतंद्रयतु क्षणार्धम्
अस्तोकविभ्रममनंगविलासकंदम् ।
अल्पस्मितादृतमपारकृपाप्रवाहम्
अक्षिप्ररोहमचिरान्मयि कामकोटि ॥२४॥

मंदाक्षरागतरलीकृतिपारतंत्र्यात्
कामाक्षि मंथरतरां त्वदपांगडोलाम् ।
आरुह्य मंदमतिकौतुकशालि चक्षुः
आनंदमेति मुहुरर्धशशांकमौलेः ॥२५॥

त्रैयंबकं त्रिपुरसुंदरि हर्म्यभूमि-
रंगं विहारसरसी करुणाप्रवाहः ।
दासाश्च वासवमुखाः परिपालनीयं
कामाक्षि विश्वमपि वीक्षणभूभृतस्ते ॥२६॥

वागीश्वरी सहचरी नियमेन लक्ष्मीः
भ्रूवल्लरीवशकरी भुवनानि गेहम् ।
रूपं त्रिलोकनयनामृतमंब तेषां
कामाक्षि येषु तव वीक्षणपारतंत्री ॥२७॥

माहेश्वरं झटिति मानसमीनमंब
कामाक्षि धैर्यजलधौ नितरां निमग्नम् ।
जालेन शृंखलयति त्वदपांगनाम्ना
विस्तारितेन विषमायुधदाशको‌உसौ ॥२८॥

उन्मथ्य बोधकमलाकारमंब जाड्य-
स्तंबेरमं मम मनोविपिने भ्रमंतम् ।
कुंठीकुरुष्व तरसा कुटिलाग्रसीम्ना
कामाक्षि तावककटाक्षमहांकुशेन ॥२९॥

उद्वेल्लितस्तबकितैर्ललितैर्विलासैः
उत्थाय देवि तव गाढकटाक्षकुंजात् ।
दूरं पलाययतु मोहमृगीकुलं मे
कामाक्षि स्तवरमनुग्रहकेसरींद्रः ॥३०॥

स्नेहादृतां विदलितोत्पलकंतिचोरां
जेतारमेव जगदीश्वरि जेतुकामः ।
मानोद्धतो मकरकेतुरसौ धुनीते
कामाक्षि तावककटाक्षकृपाणवल्लीम् ॥३१॥

श्रौतीं व्रजन्नपि सदा सरणिं मुनीनां
कामाक्षि संततमपि स्मृतिमार्गगामी ।
कौटिल्यमंब कथमस्थिरतां च धत्ते
चौर्यं च पंकजरुचां त्वदपांगपातः ॥३२॥

नित्यं श्रेतुः परिचितौ यतमानमेव
नीलोत्पलं निजसमीपनिवासलोलम् ।
प्रीत्यैव पाठयति वीक्षणदेशिकेंद्रः
कामाक्षी किंतु तव कालिमसंप्रदायम् ॥३३॥

भ्रांत्वा मुहुः स्तबकितस्मितफेनराशौ
कामाक्षि वक्त्ररुचिसंचयवारिराशौ ।
आनंदति त्रिपुरमर्दननेत्रलक्ष्मीः
आलंब्य देवि तव मंदमपांगसेतुम् ॥३४॥

श्यामा तव त्रिपुरसुंदरि लोचनश्रीः
कामाक्षि कंदलितमेदुरतारकांतिः ।
ज्योत्स्नावती स्मितरुचापि कथं तनोति
स्पर्धामहो कुवलयैश्च तथा चकोरैः ॥३५॥

कालांजनं च तव देवि निरीक्षणं च
कामाक्षि साम्यसरणिं समुपैति कांत्या ।
निश्शेषनेत्रसुलभं जगतीषु पूर्व-
मन्यत्त्रिनेत्रसुलभं तुहिनाद्रिकन्ये ॥३६॥

धूमांकुरो मकरकेतनपावकस्य
कामाक्षि नेत्ररुचिनीलिमचातुरी ते ।
अत्यंतमद्भुतमिदं नयनत्रयस्य
हर्षोदयं जनयते हरुणांकमौलेः ॥३७॥

आरभ्भलेशसमये तव वीक्षणस्स
कामाक्षि मूकमपि वीक्षणमात्रनम्रम् ।
सर्वज्ञता सकललोकसमक्षमेव
कीर्तिस्वयंवरणमाल्यवती वृणीते ॥३८॥

कालांबुवाह उव ते परितापहारी
कामाक्षि पुष्करमधःकुरुते कटाख़्षः ।
पूर्वः परं क्षणरुचा समुपैति मैत्री-
मन्यस्तु स.ततरुचिं प्रकटीकरोति ॥३९॥

सूक्ष्मे‌உपि दुर्गमतरे‌உपि गुरुप्रसाद-
साहाय्यकेन विचरन्नपवर्गमार्गे ।
संसारपंकनिचये न पतत्यमूं ते
कामाक्षि गाढमवलंब्य कटाक्षयष्टिम् ॥४०॥

कामाक्षि संततमसौ हरिनीलरत्न-
स्तंभे कटाक्षरुचिपुंजमये भवत्याः ।
बद्धो‌உपि भक्तिनिगलैर्मम चित्तहस्ती
स्तंभं च बंधमपि मुंचति हंत चित्रम् ॥४१॥

कामाक्षि काष्णर्यमपि संततमंजनं च
बिभ्रन्निसर्गतरलो‌உपि भवत्कटाक्षः ।
वैमल्यमन्वहमनंजनता च भूयः
स्थैर्यं च भक्तहृदयाय कथं ददाति ॥४२॥

मंदस्मितस्तबकितं मणिकुंडलांशु-
स्तोमप्रवालरुचिरं शिशिरीकृताशम् ।
कामाक्षि राजति कटाक्षरुचेः कदंबम्
उद्यानमंब करुणाहरिणेक्षणायाः ॥४३॥

कामाक्षि तावककटाक्षमहेंद्रनील-
सिंहासनं श्रितवतो मकरध्वजस्य ।
साम्राज्यमंगलविधौ मुणिकुंडलश्रीः
नीराजनोत्सवतरंगितदीपमाला ॥४४॥

मातः क्षणं स्नपय मां तव वीक्षितेन
मंदाक्षितेन सुजनैरपरोक्षितेन ।
कामाक्षि कर्मतिमिरोत्करभास्करेण
श्रेयस्करेण मधुपद्युतितस्करेण ॥४५॥

प्रेमापगापयसि मज्जनमारचय्य
युक्तः स्मितांशुकृतभस्मविलेपनेन ।
कामाक्षि कुंडलमणिद्युतिभिर्जटालः
श्रीकंठमेव भजते तव दृष्टिपातः ॥४६॥

कैवल्यदाय करुणारसकिंकराय
कामाक्षि कंदलितविभ्रमशंकराय ।
आलोकनाय तव भक्तशिवंकराय
मातर्नमो‌உस्तु परतंत्रितशंकराय ॥४७॥

साम्राज्यमंगलविधौ मकरध्वजस्य
लोलालकालिकृततोरणमाल्यशोभे ।
कामेश्वरि प्रचलदुत्पलवैजयंती-
चातुर्यमेति तव चंचलदृष्टिपातः ॥४८॥

मार्गेण मंजुकचकांतितमोवृतेन
मंदायमानगमना मदनातुरासौ ।
कामाक्षि दृष्टिरयते तव शंकराय
संकेतभूमिमचिरादभिसारिकेव ॥४९॥

व्रीडनुवृत्तिरमणीकृतसाहचर्या
शैवालितां गलरुचा शशिशेखरस्य ।
कामाक्षि कांतिसरसीं त्वदपांगलक्ष्मीः
मंदं समाश्रयति मज्जनखेलनाय ॥५०॥

काषायमंशुकमिव प्रकटं दधानो
माणिक्यकुंडलरुचिं ममताविरोधी ।
श्रुत्यंतसीमनि रतः सुतरां चकास्ति
कामाक्षि तावककटाक्षयतीश्वरो‌உसौ ॥५१॥

पाषाण एव हरिनीलमणिर्दिनेषु
प्रम्लनतां कुवलयं प्रकटीकरोति ।
नौमित्तिको जलदमेचकिमा ततस्ते
कामाक्षि शून्यमुपमनमपांगलक्ष्म्याः ॥५२॥

शृंगारविभ्रमवती सुतरां सलज्जा
नासाग्रमौक्तिकरुचा कृतमंदहासा ।
श्यामा कटाक्षसुषमा तव युक्तमेतत्
कामाक्षि चुंबति दिगंबरवक्त्रबिंबम् ॥५३॥

नीलोत्पलेन मधुपेन च दृष्टिपातः
कामाक्षि तुल्य इति ते कथमामनंति ।
शैत्येन निंदयति यदन्वहमिंदुपादान्
पाथोरुहेण यदसौ कलहायते च ॥५४॥

ओष्ठप्रभापटलविद्रुममुद्रिते ते
भ्रूवल्लिवीचिसुभगे मुखकांतिसिंधौ ।
कामाक्षि वारिभरपूरणलंबमान-
कालांबुवाहसरणिं लभते कटाक्षः ॥५५॥

मंदस्मितैर्धवलिता मणिकुंडलांशु-
संपर्कलोहितरुचिस्त्वदपांगधारा ।
कामाक्षि मल्लिकुसुमैर्नवपल्लवैश्च
नीलोत्पलैश्च रचितेव विभाति माला ॥५६॥

कामाक्षि शीतलकृपारसनिर्झरांभः-
संपर्कपक्ष्मलरुचिस्त्वदपांगमाला ।
गोभिः सदा पुररिपोरभिलष्यमाणा
दूर्वाकदंबकविडंबनमातनोति ॥५७॥

हृत्पंकजं मम विकासयतु प्रमुष्ण-
न्नुल्लासमुत्पलरुचेस्तमसां निरोद्धा ।
दोषानुषंगजडतां जगतां धुनानः
कामाक्षि वीक्षणविलासदिनोदयस्ते ॥५८॥

चक्षुर्विमोहयति चंद्रविभूषणस्य
कामाक्षि तावककटाक्षतमःप्ररोहः ।
प्रत्यङ्मुखं तु नयनं स्तिमितं मुनीनां
प्राकाश्यमेव नयतीति परं विचित्रम् ॥५९॥

कामाक्षि वीक्षणरुचा युधि निर्जितं ते
नीलोत्पलं निरवशेषगताभिमानम् ।
आगत्य तत्परिसरं श्रवणवतंस-
व्योजेन नूनमभयार्थनमातनोति ॥६०॥

आश्चर्यमंब मदानाभ्युदयावलंबः
कामाक्षि चंचलनिरीक्षणविभ्रमस्ते ।
धैर्यं विधूय तनुते हृदि रागबंधं
शंभोस्तदेव विपरीततया मुनीनाम् ॥६१॥

जंतोः सकृत्प्रणमतो जगदीड्यतां च
तेजास्वितां च निशितां च मतिं सभायाम् ।
कामाक्षि माक्षिकझरीमिव वैखरीं च
लक्ष्मीं च पक्ष्मलयति क्षणवीक्षणं ते ॥६२॥

कादंबिनी किमयते न जलानुषंगं
भृंगावली किमुररीकुरुते न पद्मम् ।
किं वा कलिंदतनया सहते न भंगं
कामाक्षि निश्चयपदं न तवाक्षिलक्ष्मीः ॥६३॥

काकोलपावकतृणीकरणे‌உपि दक्षः
कामाक्षि बालकसुधाकरशेखरस्य ।
अत्यंतशीतलतमो‌உप्यनुपारतं ते
चित्तं विमोहयति चित्रमयं कटाक्षः ॥६४॥

कार्पण्यपूरपरिवर्धितमंब मोह-
कंदोद्गतं भवमयं विषपादपं मे ।
तुंगं छिनत्तु तुहिनाद्रिसुते भवत्याः
कांचीपुरेश्वरि कटाक्षकुठारधारा ॥६५॥

कामाक्षि घोरभवरोगचिकित्सनार्थ-
मभ्यर्थ्य देशिककटाक्षभिषक्प्रसादात् ।
तत्रापि देवि लभते सुकृती कदाचि-
दन्यस्य दुर्लभमपांगमहौषधं ते ॥६६॥

कामाक्षि देशिककृपांकुरमाश्रयंतो
नानातपोनियमनाशितपाशबंधाः ।
वासालयं तव कटाक्षममुं महांतो
लब्ध्वा सुखं समाधियो विचरंति लोके ॥६७॥

साकूतसंलपितसंभृतमुग्धहासं
व्रीडानुरागसहचारि विलोकनं ते ।
कामाक्षि कामपरिपंथिनि मारवीर-
साम्राज्यविभ्रमदशां सफलीकरोति ॥६८॥

कामाक्षि विभ्रमबलैकनिधिर्विधाय
भ्रूवल्लिचापकुटिलीकृतिमेव चित्रम् ।
स्वाधीनतां तव निनाय शशांकमौले-
रंगार्धराज्यसुखलाभमपांगवीरः ॥६९॥

कामांकुरैकनिलयस्तव दृष्टिपातः
कामाक्षि भक्तमनसां प्रददातु कामान् ।
रागान्वितः स्वयमपि प्रकटीकरोति
वैराग्यमेव कथमेष महामुनीनाम् ॥७०॥

कालांबुवाहनिवहैः कलहायते ते
कामाक्षि कालिममदेन सदा कटाक्षः ।
चित्रं तथापि नितराममुमेव दृष्ट्वा
सोत्कंठ एव रमते किल नीलकंठः ॥७१॥

कामाक्षि मन्मथरिपुं प्रति मारताप-
मोहांधकारजलदागमनेन नृत्यन् ।
दुष्कर्मकंचुकिकुलं कबलीकरोतु
व्यामिश्रमेचकरुचिस्त्वदपांगकेकी ॥७२॥

कामाक्षि मन्मथरिपोरवलोकनेषु
कांतं पयोजमिव तावकमक्षिपातम् ।
प्रेमागमो दिवसवद्विकचीकरोति
लज्जाभरो रजनिवन्मुकुलीकरोति ॥७३॥

मूको विरिंचति परं पुरुषः कुरूपः
कंदर्पति त्रिदशराजति किंपचानः ।
कामाक्षि केवलमुपक्रमकाल एव
लीलातरंगितकटाक्षरुचः क्षणं ते ॥७४॥

नीलालका मधुकरंति मनोज्ञनासा-
मुक्तारुचः प्रकटकंदबिसांकुरंति ।
कारुण्यमंब मकरंदति कामकोटि
मन्ये ततः कमलमेव विलोचनं ते ॥७५॥

आकांक्ष्यमाणफलदानविचक्षणायाः ।
कामाक्षि तावककटाक्षककामधेनोः ।
संपर्क एव कथमंब विमुक्तपाश-
बंधाः स्फुटं तनुभृतः पशुतां त्यजंति ॥७६॥

संसारघर्मपरितापजुषां नराणां
कामाक्षि शीतलतराणि तवेक्षितानि ।
चंद्रातपंति घनचंदनकर्दमंति
मुक्तागुणंति हिमवारिनिषेचनंति ॥७७॥

प्रेमांबुराशिसततस्नपितानि चित्रं
कामाक्षि तावककटाक्षनिरीक्षणानि ।
संधुक्षयंति मुहुरिंधनराशिरीत्या
मारद्रुहो मनसि मन्मथचित्रभानुम् ॥७८॥

कालांजनप्रतिभटं कमनीयकांत्या
कंदर्पतंत्रकलया कलितानुभावम् ।
कांचीविहाररसिके कलुषार्तिचोरं
कल्लोलयस्व मयि ते करुणाकटाक्षम् ॥७९॥

क्रांतेन मन्मथदेन विमोह्यमान-
स्वांतेन चूततरुमूलगतस्य पुंसः ।
कांतेन किंचिदवलोकय लोचनस्य
प्रांतेन मां जननि कांचिपुरीविभूषे ॥८०॥

कामाक्षि को‌உपि सुजनास्त्वदपांगसंगे
कंठेन कंदलितकालिमसंप्रदायाः ।
उत्तंसकल्पितचकोरकुटुंबपोषा
नक्तंदिवसप्रसवभूनयना भवंति ॥८१॥

नीलोत्पलप्रसवकांतिनिर्दशनेन
कारुण्यविभ्रमजुषा तव वीक्षणेन ।
कामाक्षि कर्मजलधेः कलशीसुतेन
पाशत्रयाद्वयममी परिमोचनीयाः ॥८२॥

अत्यंतचंचलमकृत्रिममंजनं किं
झंकारभंगिरहिता किमु भृंगमाला ।
धूमांकुरः किमु हुताशनसंगहीनः
कामाक्षि नेत्ररुचिनीलिमकंदली ते ॥८३॥

कामाक्षि नित्यमयमंजलिरस्तु मुक्ति-
बीजाय विभ्रममदोदयघूर्णिताय ।
कंदर्पदर्पपुनरुद्भवसिद्धिदाय
कल्याणदाय तव देवि दृगंचलाय ॥८४॥

दर्पांकुरो मकरकेतनविभ्रमाणां
निंदांकुरो विदलितोत्पलचातुरीणाम् ।
दीपांकुरो भवतमिस्रकदंबकानां
कामाक्षि पालयतु मां त्वदपांगपातः ॥८५॥

कैवल्यदिव्यमणिरोहणपर्वतेभ्यः
कारुण्यनिर्झरपयःकृतमंजनेभ्यः ।
कामाक्षि किंकरितशंकरमानसेभ्य-
स्तेभ्यो नमो‌உस्तु तव वीक्षणविभ्रमेभ्यः ॥८६॥

अल्पीय एव नवमुत्पलमंब हीना
मीनस्य वा सरणिरंबुरुहां च किं वा ।
दूरे मृगीदृगसमंजसमंजनं च
कामाक्षि वीक्षणरुचौ तव तर्कयामः ॥८७॥

मिश्रीभवद्गरलपंकिलशंकरोरस्-
सीमांगणे किमपि रिंखणमादधानः ।
हेलावधूतललितश्रवणोत्पलो‌உसौ
कामाक्षि बाल इव राजति ते कटाक्षः ॥८८॥

प्रौढिकरोति विदुषां नवसूक्तिधाटी-
चूताटवीषु बुधकोकिललाल्यमानम् ।
माध्वीरसं परिमलं च निरर्गलं ते
कामाक्षि वीक्षणविलासवसंतलक्ष्मीः ॥८९॥

कूलंकषं वितनुते करुणांबुवर्षी
सारस्वतं सुकृतिनः सुलभं प्रवाहम् ।
तुच्छीकरोति यमुनांबुतरंगभंगीं
कामाक्षि किं तव कटाक्षमहांबुवाहः ॥९०॥

जगर्ति देवि करुणाशुकसुंदरी ते
ताटंकरत्नरुचिदाडिमखंडशोणे ।
कामाक्षि निर्भरकटाक्षमरीचिपुंज-
माहेंद्रनीलमणिपंजरमध्यभागे ॥९१॥

कामाक्षि सत्कुवलयस्य सगोत्रभावा-
दाक्रामति श्रुतिमसौ तव दृष्टिपातः ।
किंच स्फुटं कुटिलतां प्रकटीकरोति
भ्रूवल्लरीपरिचितस्य फलं किमेतत् ॥९२॥

एषा तवाक्षिसुषमा विषमायुधस्य
नाराचवर्षलहरी नगराजकन्ये ।
शंके करोति शतधा हृदि धैर्यमुद्रां
श्रीकामकोटि यदसौ शिशिरांशुमौलेः ॥९३॥

बाणेन पुष्पधनुषः परिकल्प्यमान-
त्राणेन भक्तमनसां करुणाकरेण ।
कोणेन कोमलदृशस्तव कामकोटि
शोणेन शोषय शिवे मम शोकसिंधुम् ॥९४॥

मारद्रुहा मुकुटसीमनि लाल्यमाने
मंदाकिनीपयसि ते कुटिलं चरिष्णुः ।
कामाक्षि कोपरभसाद्वलमानमीन-
संदेहमंकुरयति क्षणमक्षिपातः ॥९५॥

कामाक्षि संवलितमौक्तिककुंडलांशु-
चंचत्सितश्रवणचामरचातुरीकः ।
स्तंभे निरंतरमपांगमये भवत्या
बद्धश्चकास्ति मकरध्वजमत्तहस्ती ॥९६॥

यावत्कटाक्षरजनीसमयागमस्ते
कामाक्षि तावदचिरान्नमतां नराणाम् ।
आविर्भवत्यमृतदीधितिबिंबमंब
संविन्मयं हृदयपूर्वगिरींद्रशृंगे ॥९७॥

कामाक्षि कल्पविटपीव भवत्कटाक्षो
दित्सुः समस्तविभवं नमतां नराणाम् ।
भृंगस्य नीलनलिनस्य च कांतिसंप-
त्सर्वस्वमेव हरतीति परं विचित्रम् ॥९८॥

अत्यंतशीतलमनर्गलकर्मपाक-
काकोलहारि सुलभं सुमनोभिरेतत् ।
पीयूषमेव तव वीक्षणमंब किंतु
कामाक्षि नीलमिदमित्ययमेव भेदः ॥९९॥

अज्ञातभक्तिरसमप्रसरद्विवेक-
मत्यंतगर्वमनधीतसमस्तशास्त्रम् ।
अप्राप्तसत्यमसमीपगतं च मुक्तेः
कामाक्षि नैव तव स्पृहयति दृष्टिपातः ॥१००॥

(कामाक्षि मामवतु ते करुणाकटाक्षः)
पातेन लोचनरुचेस्तव कामकोटि
पोतेन पतकपयोधिभयातुराणाम् ।
पूतेन तेन नवकांचनकुंडलांशु-
वीतेन शीतलय भूधरकन्यके माम् ॥१०१॥

॥ इति कटाक्षशतकं संपूर्णम् ॥

Join on Facebook, Twitter

Browse by Popular Topics