View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in सरल देवनागरी script with simplified anusvaras. View this in शुद्ध देवनागरी (संस्कृतम्), with appropriate anusvaras marked.

बिल्वाष्टकम्

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पणम् ॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥

कोटि कन्या महादानं तिलपर्वत कोटयः ।
कांचनं शैलदानेन एकबिल्वं शिवार्पणम् ॥

काशीक्षेत्र निवासं च कालभैरव दर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥

इंदुवारे व्रतं स्थित्वा निराहारो महेश्वराः ।
नक्तं हौष्यामि देवेश एकबिल्वं शिवार्पणम् ॥

रामलिंग प्रतिष्ठा च वैवाहिक कृतं तथा ।
तटाकानिच संधानं एकबिल्वं शिवार्पणम् ॥

अखंड बिल्वपत्रं च आयुतं शिवपूजनम् ।
कृतं नाम सहस्रेण एकबिल्वं शिवार्पणम् ॥

उमया सहदेवेश नंदि वाहनमेव च ।
भस्मलेपन सर्वांगं एकबिल्वं शिवार्पणम् ॥

सालग्रामेषु विप्राणां तटाकं दशकूपयोः ।
यज्ञ्नकोटि सहस्रस्य एकबिल्वं शिवार्पणम् ॥

दंति कोटि सहस्रेषु अश्वमेधशतक्रतौ च ।
कोटिकन्या महादानं एकबिल्वं शिवार्पणम् ॥

बिल्वाणां दर्शनं पुण्यं स्पर्शनं पापनाशनम् ।
अघोर पापसंहारं एकबिल्वं शिवार्पणम् ॥

सहस्रवेद पाटेषु ब्रह्मस्तापनमुच्यते ।
अनेकव्रत कोटीनां एकबिल्वं शिवार्पणम् ॥

अन्नदान सहस्रेषु सहस्रोपनयनं तधा ।
अनेक जन्मपापानि एकबिल्वं शिवार्पणम् ॥

बिल्वाष्टकमिदं पुण्यं यः पठेश्शिव सन्निधौ ।
शिवलोकमवाप्नोति एकबिल्वं शिवार्पणम् ॥

----------------

विकल्प संकर्पण

त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रियायुधम् ।
त्रिजन्म पापसंहारं एकबिल्वं शिवार्पितम् ॥ 1 ॥

त्रिशाखैः बिल्वपत्रैश्च अच्छिद्रैः कोमलैः शुभैः ।
तवपूजां करिष्यामि एकबिल्वं शिवार्पितम् ॥ 2 ॥

दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारं एकबिल्वं शिवार्पितम् ॥ 3 ॥

सालग्रामेषु विप्रेषु तटाके वनकूपयोः ।
यज्ञ्नकोटि सहस्राणां एकबिल्वं शिवार्पितम् ॥ 4 ॥

दंतिकोटि सहस्रेषु अश्वमेध शतानि च ।
कोटिकन्याप्रदानेन एकबिल्वं शिवार्पितम् ॥ 5 ॥

एकं च बिल्वपत्रैश्च कोटियज्ञ्न फलं लभेत् ।
महादेवैश्च पूजार्थं एकबिल्वं शिवार्पितम् ॥ 6 ॥

काशीक्षेत्रे निवासं च कालभैरव दर्शनम् ।
गयाप्रयाग मे दृष्ट्वा एकबिल्वं शिवार्पितम् ॥ 7 ॥

उमया सह देवेशं वाहनं नंदिशंकरम् ।
मुच्यते सर्वपापेभ्यो एकबिल्वं शिवार्पितम् ॥ 8 ॥

इति श्री बिल्वाष्टकम् ॥




Browse Related Categories: