Devanagari,Sanskrit,Hindi

Bhartruhari Sataka Trisati – Vairaagya Satakam – Devanagari

Comments Off on Bhartruhari Sataka Trisati – Vairaagya Satakam – Devanagari 24 December 2014

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
 

रचन: भर्तृहरि

चूडोत्तंसितचन्द्रचारुकलिकाचञ्चच्छिखाभास्वरो
लीलादग्धविलोलकामशलभः श्रेयोदशाग्रे स्फुरन् ।
अन्तःस्फूर्जद्‌अपारमोहतिमिरप्राग्भारम् उच्चाटयन्
श्वेतःसद्मनि योगिनां विजयते ज्ञानप्रदीपो हरः ॥ 3.1 ॥

भ्रान्तं देशम् अनेकदुर्गविषमं प्राप्तं न किञ्चित्फलं
त्यक्त्वा जातिकुलाभिमानम् उचितं सेवा कृता निष्फला ।
भुक्तं मानविवर्जितं परगृहेष्वाशङ्कया काकवत्
तृष्णे जृम्भसि पापकर्मपिशुने नाद्यापि सन्तुष्यसि ॥ 3.2 ॥

उत्खातं निधिशङ्कया क्षितितलं ध्माता गिरेर्धातवो
निस्तीर्णः सरितां पतिर्नृपतयो यत्नेन सन्तोषिताः ।
मन्त्राराधनतत्परेण मनसा नीताः श्मशाने निशाः
प्राप्तः काणवराटको‌உपि न मया तृष्णे सकामा भव ॥ 3.3 ॥

खलालापाः सौढाः कथम् अपि तद्‌आराधनपरैर्निगृह्यान्तर्
बाष्पं हसितम् अपि शून्येन मनसा ।
कृतो वित्तस्तम्भप्रतिहतधियाम् अञ्जलिरपि
त्वम् आशे मोघाशे किम अपरम् अतो नर्तयसि माम् ॥ 3.4 ॥

अमीषां प्राणानां तुलितविसिनीपत्रपयसां
कृते किं नास्माभिर्विगलितविवेकैर्व्यवसितम् ।
यद्‌आढ्यानाम् अग्रे द्रविणमदनिःसञ्ज्ञमनसां
कृतं मावव्रीडैर्निजगुणकथापातकम् अपि ॥ 3.5 ॥

क्षान्तं न क्षमया गृहोचितसुखं त्यक्तं न सन्तोषतः
सोढो दुःसहशीततापपवनक्लेशो न तप्तं तपः ।
ध्यातं वित्तम् अहर्निशं नित्यमितप्राणैर्न शम्भोः पदं
तत्तत्कर्म कृतं यदेव मुनिभिस्तैस्तैः फलैर्वञ्चिताः ॥ 3.6 ॥

भोगा न भुक्ता वयम् एव भुक्तास्
तपो न तप्तं वयम् एव तप्ताः ।
कालो न यातो वयम् एव यातास्तृष्णा
न जीर्णा वयम् एव जीर्णाः ॥ 3.7 ॥

बलिभिर्मुखम् आक्रान्तं पलितेनाङ्कितं शिरः ।
गात्राणि शिथिलायन्ते तृष्णैका तरुणायते ॥ 3.8 ॥

विवेकव्याकोशे विदधति समे शाम्यति तृषा
परिष्वङ्गे तुङ्गे प्रसरतितरां सा परिणता ।
जराजीर्णैश्वर्यग्रसनगहनाक्षेपकृपणस्तृषापात्रं
यस्यां भवति मरुताम् अप्यधिपतिः ॥ 3.81 ॥

निवृत्ता भोगेच्छा पुरुषबहुमानो‌உपि गलितः
समानाः स्वर्याताः सपदि सुहृदो जीवितसमाः ।
शनैर्यष्ट्युत्थानं घनतिमिररुद्धे च नयने
अहो मूढः कायस्तदपि मरणापायचकितः ॥ 3.9 ॥

आशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्याः परगता विशुद्धम् अलसो नन्दन्ति योगीश्वराः ॥ 3.10 ॥

न संसारोत्पन्नं चरितम् अनुपश्यामि कुशलं
विपाकः पुण्यानां जनयति भयं मे विमृशतः ।
महद्भिः पुण्यौघैश्चिरपरिगृहीताश्च विषया
महान्तो जायन्ते व्यसनम् इव दातुं विषयिणाम् ॥ 3.11 ॥

अवश्यं यातारश्चिरतरम् उषित्वापि विषया
वियोगे को भेदस्त्यजति न जनो यत्स्वयम् अमून् ।
व्रजन्तः स्वातन्त्र्यादतुलपरितापाय मनसः
स्वयं त्यक्ता ह्येते शमसुखम् अनन्तं विदधति ॥ 3.12 ॥

ब्रह्मज्ञानविवेकनिर्मलधियः कुर्वन्त्यहो दुष्करं
यन्मुञ्चन्त्युपभोगभाञ्ज्यपि धनान्येकान्ततो निःस्पृहाः ।
सम्प्रातान्न पुरा न सम्प्रति न च प्राप्तौ दृढप्रत्ययान्
वाञ्छामात्रपरिग्रहानपि परं त्यक्तुं न शक्ता वयम् ॥ 3.13 ॥

धन्यानां गिरिकन्दरेषु वसतां ज्योतिः परं ध्यायतामानन्दाश्रु
जलं पिबन्ति शकुना निःशङ्कम् अङ्केशयाः ।
अस्माकं तु मनोरथोपरचितप्रासादवापीतटक्रीडा
काननकेलिकौतुकजुषाम् आयुः परं क्षीयते ॥ 3.14 ॥

भिक्षाशतं तदपि नीरसम् एकबारं
शय्या च भूः परिजनो निजदेहमात्रम् ।
वस्त्रं विशीर्णशतखण्डमयी च कन्था
हा हा तथापि विषया न परित्यजन्ति ॥ 3.15 ॥

स्तनौ मांसग्रन्थी कनककलशावित्युपमिती
मुखं श्लेष्मागारं तदपि च शशाङ्केन तुलितम् ।
स्रवन्मूत्रक्लिन्नं करिवरशिरस्पर्धि जघनं
मुहुर्निन्द्यं रूपं कविजनविशेषैर्गुरुकृतम् ॥ 3.16 ॥

एको रागिषु राजते प्रियतमादेहार्धहारी हरो
नीरागेषु जनो विमुक्तललनासङ्गो न यस्मात्परः ।
दुर्वारस्मरबाणपन्नगविषव्याबिद्धमुग्धो जनः
शेषः कामविडम्बितान्न विषयान्भोक्तुं न मोक्तुं क्षमः ॥ 3.17 ॥

अजानन्दाहात्म्यं पततु शलभस्तीव्रदहने
स मीनो‌உप्यज्ञानाद्बडिशयुतम् अश्नातु पिशितम् ।
विजानन्तो‌உप्येते वयम् इह वियज्जालजटिलान्
न मुञ्चामः कानाम् अहह गहनो मोहमहिमा ॥ 3.18 ॥

तृषा शुष्यत्यास्ये पिबति सलिलं शीतमधुरं
क्षुधार्तः शाल्यन्नं कवलयति मांसादिकलितम् ।
प्रदीप्ते कामाग्नौ सुदृढतरम् आलिङ्गति वधूं
प्रतीकारं व्याधः सुखम् इति विपर्यस्यति जनः ॥ 3.19 ॥

तुङ्गं वेश्म सुताः सताम् अभिमताः सङ्ख्यातिगाः सम्पदः
कल्याणी दयिता वयश्च नवम् इत्यज्ञानमूढो जनः ।
मत्वा विश्वम् अनश्वरं निविशते संसारकारागृहे
सन्दृश्य क्षणभङ्गुरं तदखिलं धन्यस्तु सन्न्यस्यति ॥ 3.20 ॥

दीना दीनमुखैः सदैव शिशुकैराकृष्टजीर्णाम्बरा
क्रोशद्भिः क्षुधितैर्निरन्नविधुरा दृश्या न चेद्गेहिनी ।
याच्ञाभङ्गभयेन गद्गदगलत्रुट्यद्विलीनाक्षरं
को देहीति वदेत्स्वदग्धजठरस्यार्थे मनस्वी पुमान् ॥ 3.21 ॥

अभिमतमहामानग्रन्थिप्रभेदपटीयसी
गुरुतरगुणग्रामाभोजस्फुटोज्ज्वलचन्द्रिका ।
विपुलविलल्लज्जावल्लीवितानकुठारिका
जठरपिठरी दुस्पुरेयं करोति विडम्बनम् ॥ 3.22 ॥

पुण्ये ग्रामे वने वा महति सितपटच्छन्नपाली कपालिं
ह्यादाय न्यायगर्भद्विजहुतहुतभुग्धूमधूम्रोपकण्ठे ।
द्वारं द्वारं प्रविष्टो वरम् उदरदरीपूरणाय क्षुधार्तो
मानी प्राणैः सनाथो न पुनरनुदिनं तुल्यकुल्येसु दीनः ॥ 3.23 ॥

गङ्गातरङ्गकणशीकरशीतलानि
विद्याधराध्युषितचारुशिलातलानि ।
स्थानानि किं हिमवतः प्रलयं गतानि
यत्सावमानपरपिण्डरता मनुष्याः ॥ 3.24 ॥

किं कन्दाः कन्दरेभ्यः प्रलयम् उपगता निर्झरा वा गिरिभ्यः
प्रध्वस्ता वा तरुभ्यः सरसगलभृतो वल्कलिन्यश्च शाखाः ।
वीक्ष्यन्ते यन्मुखानि प्रसभम् अपगतप्रश्रयाणां खलानां
दुःखाप्तस्वल्पवित्तस्मयपवनवशानर्तितभ्रूलतानि ॥ 3.25 ॥

पुण्यैर्मूलफलैस्तथा प्रणयिनीं वृत्तिं कुरुष्वाधुना
भूशय्यां नवपल्लवैरकृपणैरुत्तिष्ठ यावो वनम् ।
क्षुद्राणाम् अविवेकमूढमनसां यत्रेश्वराणां सदा
वित्तव्याधिविकारविह्वलगिरां नामापि न श्रूयते ॥ 3.26 ॥

फलं स्वेच्छालभ्यं प्रतिवनम् अखेदं क्षितिरुहां
पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् ।
मृदुस्पर्शा शय्या सुललितलतापल्लवमयी
सहन्ते सन्तापं तदपि धनिनां द्वारि कृपणाः ॥ 3.27 ॥

ये वर्तन्ते धनपतिपुरः प्रार्थनादुःखभाजो
ये चाल्पत्वं दधति विषयाक्षेपपर्याप्तबुद्धेः ।
तेषाम् अन्तःस्फुरितहसितं वासराणि स्मरेयं
ध्यानच्छेदे शिखरिकुहरग्रावशय्यानिषण्णः ॥ 3.28 ॥

ये सन्तोषनिरन्तरप्रमुदितस्तेषां न भिन्ना मुदो
ये त्वन्ये धनलुब्धसङ्कलधियस्तेसां न तृष्णाहता ।
इत्थं कस्य कृते कुतः स विधिना कीदृक्पदं सम्पदां
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ 3.29 ॥

भिक्षाहारम् अदैन्यम् अप्रतिसुखं भीतिच्छिदं सर्वतो
दुर्मात्सर्यमदाभिमानमथनं दुःखौघविध्वंसनम् ।
सर्वत्रान्वहम् अप्रयत्नसुलभं साधुप्रियं पावनं
शम्भोः सत्रम् अवायम् अक्षयनिधिं शंसन्ति योगीश्वराः ॥ 3.30 ॥

भोगे रोगमयं कुले च्युतिभयं वित्ते नृपालाद्भयं
माने धैन्यभयं बले रिपुभयं रूपे जराय भयम् ।
शास्त्रे वादिभयं गुणे खलभयं काये कृतान्ताद्भयं
सर्वं वस्तु भयान्वितं भुवि न्णां वैराग्यम् एवाभयम् ॥ 3.31 ॥

आक्रान्तं मरणेन जन्म जरसा चात्युज्ज्वलं यौवनं
सन्तोषो धनलिप्सया शममुखं प्रौढाङ्गनाविभ्रमैः ।
लोकैर्मत्सरिभिर्गुणा वनभुवो व्यालैर्नृपा दुर्जनैर्
अस्थैर्येण विभूतयो‌உप्यपहता ग्रस्तं न किं केन वा ॥ 3.32 ॥

आधिव्याधिशतैर्जनस्य विविधैरारोग्यम् उन्मूल्यते
लक्ष्मीर्यत्र पतन्ति तत्र विवृतद्वारा इव व्यापदः ।
जातं जातम् अवश्यम् आशु विवशं मृत्युः करोत्यात्मसात्
तत्किं तेन निरङ्कुशेन विधिना यन्निर्मितं सुस्थिरम् ॥ 3.33 ॥

भोगास्तुङ्गतरङ्गभङ्गतरलाः प्राणाः क्षणध्वंसिनः
स्तोकान्येव दिनानि यौवनसुखं स्फूर्तिः प्रियासु स्थिता ।
तत्संसारम् असारम् एव निखिलं बुद्ध्वा बुधा बोधका
लोकानुग्रहपेशलेन मनसा यत्नः समाधीयताम् ॥ 3.34 ॥

भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चला
आयुर्वायुविघट्टिताब्जपटलीलीनाम्बुवद्भङ्गुरम् ।
लीला यौवनलालसास्तनुभृताम् इत्याकलय्य द्रुतं
योगे धैर्यसमाधिसिद्धिसुलभे बुद्धिं विदध्वं बुधाः ॥ 3.35 ॥

आयुः कल्लोललोलं कतिपयदिवसस्थायिनी यौवनश्रीर्
अर्थाः सङ्कल्पकल्पा घनसमयतडिद्विभ्रमा भोगपूगाः ।
कण्ठाश्लेषोपगूढ तदपि च न चिरं यत्प्रियाभः प्रणीतं
ब्रह्मण्यासक्तचित्ता भवत भवमयाम्भोधिपारं तरीतुम् ॥ 3.36 ॥

कृच्छ्रेणामेध्यमध्ये नियमिततनुभिः स्थीयते गर्भवासे
कान्ताविश्लेषदुःखव्यतिकरविषमो यौवने चोपभोगः ।
वामाक्षीणाम् अवज्ञाविहसितवसतिर्वृद्धभावो‌உन्यसाधुः
संसारे रे मनुष्या वदत यदि सुखं स्वल्पम् अप्यस्ति किञ्चिथ् ॥ 3.37 ॥

व्याघ्रीव तिष्ठति जरा परितर्जयन्ती
रोगाश्च शत्रव इव प्रहरन्ति देहम् ।
आयुः परिस्रवन्ति भिन्नघटादिवाम्भो
लोकस्तथाप्यहितम् आचरतीति चित्रम् ॥ 3.38 ॥

भोगा भङ्गुरवृत्तयो बहुविधास्तैरेव चायं भवस्तत्
कस्येह कृते परिभ्रमत रे लोकाः कृतं चेष्टतैः ।
आशापाशशतापशान्तिविशदं चेतःसमाधीयतां
कामोत्पत्तिवशात्स्वधामनि यदि श्रद्देयम् अस्मद्वचः ॥ 3.39 ॥

सखे धन्याः केचित्त्रुटितभवबन्धव्यतिकरा
वनान्ते चित्तान्तर्विषम् अविषयाशीत्विषगताः ।
शरच्चन्द्रज्योत्स्नाधवलगगनाभोगसुभगां
नयन्ते ये रात्रिं सुकृतचयचिन्तैकशरणाः ॥ 3.391 ॥

ब्रह्मेन्द्रादिमरुद्गणांस्तृणकणान्यत्र स्थितो मन्यते
यत्स्वादाद्विरसा भवन्ति विभवास्त्रैलोक्यराज्यादयः ।
भोगः को‌உपि स एव एक परमो नित्योदितो जृम्भते
भोः साधो क्षणभङ्गुरे तदितरे भोगे रतिं मा कृथाः ॥ 3.40 ॥

सा रम्या नगरी महान्स नृपतिः सामन्तचक्रं च तत्
पार्श्वे तस्य च सा विदग्धपरिषत्ताश्चन्द्रबिम्बाननाः ।
उद्वृत्तः स राजपुत्रनिवहस्ते वन्दिनस्ताः कथाः
सर्वं यस्य वशादगात्स्मृतिपथं कालाय तस्मै नमः ॥ 3.41 ॥

यत्रानेकः क्वचिदपि गृहे तत्र तिष्ठत्यथैको
यत्राप्येकस्तदनु बहवस्तत्र नैको‌உपि चान्ते ।
इत्थं नयौ रजनिदिवसौ लोलयन्द्वाविवाक्षौ
कालः कल्यो भुवनफलके क्रडति प्राणिशारैः ॥ 3.42 ॥

आदित्यस्य गतागतैरहरहः सङ्क्षीयते जीवितं
व्यापारैर्बहुकार्यभारगुरुभिः कालो‌உपि न ज्ञायते ।
दृष्ट्वा जन्मजराविपत्तिमरणं त्रासश्च नोत्पद्यते
पीत्वा मोहमयीं प्रमादमदिराम् उन्मत्तभूतं जगथ् ॥ 3.43 ॥

रात्रिः सैव पुनः स एव दिवसो मत्वा मुधा जन्तवो
धावन्त्युद्यमिनस्तथैव निभृतप्रारब्धतत्तत्क्रियाः ।
व्यापारैः पुनर्‌उक्तभूतविषयैरित्थं विधेनामुना
संसारेण कदर्थिता वयम् अहो मोहान्न लज्जामहे ॥ 3.44 ॥

न ध्यानं पदम् ईश्वरस्य विधिवत्संसारविच्छित्तये
स्वर्गद्वारकपाटपाटनपटुर्धर्मो‌உपि नोपार्जितः ।
नारीपीनपयोधरोरुयुगलं स्वप्ने‌உपि नालिङ्गितं
मातुः केवलम् एव यौवनवनच्छेदे कुठारा वयम् ॥ 3.45 ॥

नाभ्यस्ता प्रतिवादिवृन्ददमनी विद्या विनीतोचिता
खड्गाग्रैः करिकुम्भपीठदलनैर्नाकं न नीतं यशः ।
कान्ताक्ॐ‌अलपल्लवाधररसः पीतो न चन्द्रोदये
तारुण्यं गतम् एव निष्फलम् अहो शून्यालये दीपवथ् ॥ 3.46 ॥

विद्या नाधिगता कलङ्करहिता वित्तं च नोपार्जितं
शुश्रूषापि समाहितेन मनसा पित्रोर्न सम्पादिता ।
आलोलायतलोचनाः प्रियतमाः स्वप्ने‌உपि नालिङ्गिताः
कालो‌உयं परपिण्डलोलुपतया काकैरिव प्रेर्यते ॥ 3.47 ॥

वयं येभ्यो जाताश्चिरपरिगता एव खलु ते
समं यैः संवृद्धाः स्मृतिविषयतां ते‌உपि गमिताः ।
इदानीम् एते स्मः प्रतिदिवसम् आसन्नपतना
गतास्तुल्यावस्थां सिकतिलनदीतीरतरुभिः ॥ 3.48 ॥

आयुर्वर्षशतं न्णां परिमितं रात्रौ तद्‌अर्धं गतं
तस्यार्धस्य परस्य चार्धम् अपरं बालत्ववृद्धत्वयोः ।
शेषं व्याधिवियोगदुःखसहितं सेवादिभिर्नीयते
जीवे वारितरङ्गचञ्चलतरे सौख्यं कुतः प्राणिनाम् ॥ 3.49 ॥

क्षणं बालो भूत्वा क्षणं पै युवा कामरसिकः
क्षणं वित्तैर्हीनः क्षणम् अपि च सम्पूर्णविभवः ।
जराजीर्णैरङ्गैर्नट इव बलीमण्डिततनूर्
नरः संसारान्ते विशति यमधानीयवनिकाम् ॥ 3.50 ॥

त्वं राजा वयम् अप्युपासितगुरुप्रज्ञाभिमानोन्नताः
ख्यातस्त्वं विभवैर्यशांसि कवयो दिक्षु प्रतन्वन्ति नः ।
इत्थं मानधनातिदूरम् उभयोरप्यावयोरन्तरं
यद्यस्मासु पराङ्मुखो‌உसि वयम् अप्येकान्ततो निःस्पृहा ॥ 3.51 ॥

अर्थानाम् ईशिषे त्वं वयम् अपि च गिराम् ईश्महे यावदर्थं
शूरस्त्वं वादिदर्पव्युपशमनविधावक्षयं पाटवं नः ।
सेवन्ते त्वां धनाढ्या मतिमलहतयेमाम् अपि श्रोतुकामामय्य्
अप्यास्था न ते चेत्त्वयि मम नितराम् एव राजन्ननास्था ॥ 3.52 ॥

वयम् इह परितुष्टा वल्कलैस्त्वं दुकूलैः
सम इह परितोषो निर्विशेषो विशेषः ।
स तु भवतु दरिद्रो यस्य तृष्णा विशाला
मनसि च परितुष्टे को‌உर्थवान्को दरिद्रः ॥ 3.53 ॥

फलम् अलम् अशनाय स्वादु पानाय तोयं
क्षितिरपि शयनार्थं वाससे वल्कलं च ।
नवघनमधुपानभ्रान्तसर्वेन्द्रियाणामविनयम्
अनुमन्तुं नोत्सहे दुर्जनानाम् ॥ 3.54 ॥

अश्नीमहि वयं भिक्षाम् आशावासो वसीमहि ।
शयीमहि महीपृष्ठे कुर्वीमहि किम् ईश्वरैः ॥ 3.55 ॥

न नटा ना विटा न गायका न च सभ्येतरवादचुञ्चवः ।
नृपम् ईक्षितुम् अत्र के वयं स्तनभारानमिता न योषितः ॥ 3.56 ॥

विपुलहृदयैरीशैरेतज्जगज्जनितं पुरा
विधृतम् अपरैर्दत्तं चान्यैर्विजित्य तृणं यथा ।
इह हि भुवनान्यन्यैर्धीराश्चतुर्दश भुञ्जते
कतिपयपुरस्वाम्ये पुंसां क एष मदज्वरः ॥ 3.57 ॥

अभुक्तायां यस्यां क्षणम् अपि न यातं नृपशतैर्
धुवस्तस्या लाभे क इव बहुमानः क्षितिभृताम् ।
तद्‌अंशस्याप्यंशे तद्‌अवयलेशे‌உपि पतयो
विषादे कर्तव्ये विदधति जडाः प्रत्युत मुदम् ॥ 3.58 ॥

मृत्पिण्डो जलरेखया बलयतिः सर्वो‌உप्ययं नन्वणुः
स्वांशीकृत्य स एव सङ्गरशतै राज्ञां गणा भुञ्जते ।
ये दद्युर्ददतो‌உथवा किम् अपरं क्षुद्रा दरिद्रं भृशं
धिग्धिक्तान्पुरुषाधमान्धनकणान्वाञ्छन्ति तेभ्यो‌உपि ये ॥ 3.59 ॥

स जातः को‌உप्यासीन्मदनरिपुणा मूर्ध्नि धवलं
कपालं यस्योच्चैर्विनिहितम् अलङ्कारविधये ।
नृभिः प्राणत्राणप्रवणमतिभिः कैश्चिदधुना
नमद्भिः कः पुंसाम् अयम् अतुलदर्पज्वरभरः ॥ 3.60 ॥

परेषां चेतांसि प्रतिदिवसम् आराध्य बहुधा
प्रसादं किं नेतुं विशसि हृदय क्लेशकलितम् ।
प्रसन्ने त्वय्यन्तःसवयमुदितचिन्तामणिगणो
विविक्तः सङ्कल्पः किम् अभिलषितं पुष्यति न ते ॥ 3.61 ॥

सत्याम् एव त्रिलोकीसरिति हरशिरश्चुम्बिनीवच्छटायां
सद्वृत्तिं कल्पयन्त्यां बटविटपभवैर्वल्कलैः सत्फलैश्च ।
को‌உयं विद्वान्विपत्तिज्वरजनितरुजातीवदुःखासिकानां
वक्त्रं वीक्षेत दुःस्थे यदि हि न विभृयात्स्वे कुटुम्बे‌உनुकम्पाम् ॥ 3.611 ॥

परिभ्रमसि किं मुधा क्वचन चित्त विश्राम्यतां
स्वयं भवति यद्यथा भवति तत्तथा नान्यथा ।
अतीतम् अननुस्मरन्नपि च भाव्यसङ्कल्पयन्नतर्कित
समागमानुभवामि भोगनाहम् ॥ 3.62 ॥

एतस्माद्विरमेन्द्रियार्थगहनादायासकादाश्रयश्रेयो
मार्गम् अशेषदुःखशमनव्यापारदक्षं क्षणात् ।
स्वात्मीभावम् उपैहि सन्त्यज निजां कल्लोललोलं गतिं
मा भूयो भज भङ्गुरां भवरतिं चेतः प्रसीदाधुना ॥ 3.63 ॥

मोहं मार्जय ताम् उपार्जय रतिं चन्द्रार्धचूडामणौ
चेतः स्वर्गतरङ्गिणीतटभुवाम् आसङ्गम् अङ्गीकुरु ।
को वा वीचिषु बुद्बुदेषु च तडिल्लेखासु च श्रीषु च
ज्वालाग्रेषु च पन्नगेषु सरिद्वेगेषु च चप्रत्ययः ॥ 3.64 ॥

चेतश्चिन्तय मा रमां सकृदिमाम् अस्थायिनीम् आस्थया
भूपालभ्रुकुटीकुटीविहरणव्यापारपण्याङ्गनाम् ।
कन्थाकञ्चुकिनः प्रविश्य भवनद्वाराणि वाराणसीरथ्या
पङ्क्तिषु पाणिपात्रपतितां भिक्षाम् अपेक्षामहे ॥ 3.65 ॥

अग्रे गीतं सरसकवयः पार्श्वयोर्दाक्षिणात्याः
पश्चाल्लीलावलयरणितं चामरग्राहिणीनाम् ।
यद्यस्त्येवं कुरु भवरसास्वादने लम्पटत्वं
नो चेच्चेतः प्रविश सहसा निर्विकल्पे समाधौ ॥ 3.66 ॥

प्राप्ताः श्रियः सकलकामदुधास्ततः किं
न्यस्तं पदं शिरसि विद्विषतां ततः किम् ।
सम्पादिताः प्रणयिनो विभवैस्ततः किं
कल्पं स्थितास्तनुभृतां तनवस्ततः किम् ॥ 3.67 ॥

भक्तिर्भवे मरणजन्मभयं हृदिस्थं
स्नेहो न बन्धुषु न मन्मथजा विकाराः ।
संसर्ज दोषरहिता विजया वनान्ता
वैराग्यम् अस्ति किम् इतः परमर्थनीयम् ॥ 3.68 ॥

तस्मादनन्तम् अजरं परमं विकासि
तद्ब्रह्म चिन्तय किम् एभिरसद्विकल्पैः ।
यस्यानुषङ्गिण इमे भुवनाधिपत्यभोगादयः
कृपणलोकमता भवन्ति ॥ 3.69 ॥

पातालम् आविशसि यासि नभो विलङ्घ्य
दिङ्मण्डलं भ्रमसि मानस चापलेन ।
भ्रान्त्यापि जातु विमलं कथम् आत्मनीनं
न ब्रह्म संसरसि विर्वृतिमम् एषि येन ॥ 3.70 ॥

किं वेदैः स्मृतिभिः पुराणपठनैः शास्त्रैर्महाविस्तरैः
स्वर्गग्रामकुटीनिवासफलदैः कर्मक्रियाविभ्रमैः ।
मुक्त्वैकं भवदुःखभाररचनाविध्वंसकालानलं
स्वात्मानन्दपदप्रवेशकलनं शेसैर्वाणिग्वृत्तिभिः ॥ 3.71 ॥

नायं ते समयो रहस्यम् अधुना निद्राति नाथो यदि
स्थित्वा द्रक्ष्यति कुप्यति प्रभुरिति द्वारेषु येषां वचः ।
चेतस्तानपहाय याहि भवनं देवस्य विश्वेशितुर्
निर्दौवारिकनिर्दयोक्त्य्‌अपरुषं निःस्ॐ‌अशर्मप्रदम् ॥ 3.711 ॥

यतो मेरुः श्रीमान्निपतति युगान्ताग्निवलितः
समुद्राः शुष्यन्ति प्रचुरमकरग्राहनिलयाः ।
धरा गच्छत्यन्तं धरणिधरपादैरपि धृता
शरीरे का वार्ता करिकलभकर्णाग्रचपले ॥ 3.72 ॥

गात्रं सङ्कुचितं गतिर्विगलिता भ्रष्टा च दन्तावलिर्
दृष्टिर्नक्ष्यति वर्धते वधिरता वक्त्रं च लालायते ।
वाक्यं नाद्रियते च बान्धवजनो भार्या न शुश्रूषते
हा कष्टं पुरुषस्य जीर्णवयसः पुत्रो‌உप्यमित्रायते ॥ 3.73 ॥

वर्णं सितं शिरसि वीक्ष्य शिरोरुहाणां
स्थानं जरापरिभवस्य तदा पुमांसम् ।
आरोपितांस्थिशतकं परिहृत्य यान्ति
चण्डालकूपम् इव दूरतरं तरुण्यः ॥ 3.74 ॥

यावत्स्वस्थम् इदं शरीरम् अरुजं यावच्च दूरे जरा
यावच्चेन्द्रियशक्तिरप्रतिहता यावत्क्षयो नायुषः ।
आत्मश्रेयसि तावदेव विदुषा कार्यः प्रयत्नो महान्
सन्दीप्ते भवने तु कूपखननं प्रत्युद्यमः कीदृशः ॥ 3.75 ॥

तपस्यन्तः सन्तः किम् अधिनिवसामः सुरनदीं
गुणोदारान्दारानुत परिचरामः सविनयम् ।
पिबामः शास्त्रौघानुतविविधकाव्यामृतरसान्
न विद्मः किं कुर्मः कतिपयनिमेषायुषि जने ॥ 3.76 ॥

दुराराध्याश्चामी तुरगचलचित्ताः क्षितिभुजो
वयं तु स्थूलेच्छाः सुमहति फले बद्धमनसः ।
जरा देहं मृत्युर्हरति दयितं जीवितम् इदं
सखे नान्यच्छ्रेयो जगति विदुषे‌உन्यत्र तपसः ॥ 3.77 ॥

माने म्लायिनि खण्डिते च वसुनि व्यर्थे प्रयाते‌உर्थिनि
क्षीणे बन्धुजने गते परिजने नष्टे शनैर्यौवने ।
युक्तं केवलम् एतदेव सुधियां यज्जह्नुकन्यापयःपूताग्राव
गिरीन्द्रकन्दरतटीकुञ्जे निवासः क्वचिथ् ॥ 3.78 ॥

रम्याश्चन्द्रमरीचयस्तृणवती रम्या वनान्तस्थली
रम्यं साधुसमागमागतसुखं काव्येषु रम्याः कथाः ।
कोपोपाहितबाष्पबिन्दुतरलं रम्यं प्रियाया मुखं
सर्वं रम्यम् अनित्यताम् उपगते चित्ते न किञ्चित्पुनः ॥ 3.79 ॥

रम्यं हर्म्यतलं न किं वसतये श्रव्यं न गेयादिकं
किं वा प्राणसमासमागमसुखं नैवाधिकप्रीतये ।
किन्तु भ्रान्तपतङ्गक्षपवनव्यालोलदीपाङ्कुरच्छाया
चञ्चलम् आकलय्य सकलं सन्तो वनान्तं गताः ॥ 3.80 ॥

आ संसारात्त्रिभुवनम् इदं चिन्वतां तात्तादृङ्नैवास्माकं
नयनपदवीं श्रोत्रमार्गं गतो वा ।
यो‌உयं धत्ते विषयकरिणो गाढगूढाभिमानक्षीवस्यान्तः
करणकरिणः संयमालानलीलाम् ॥ 3.81 ॥

यदेतत्स्वच्छन्दं विहरणम् अकार्पण्यम् अशनं
सहार्यैः संवासः श्रुतम् उपशमैकव्रतफलम् ।
मनो मन्दस्पन्दं बहिरपि चिरस्यापि विमृशन्न
जाने कस्यैषा परिणतिरुदारस्य तपसः ॥ 3.82 ॥

जीर्णा एव मनोरथाश्च हृदये यातं च तद्यौवनं
हन्ताङ्गेषु गुणाश्बन्ध्यफलतां याता गुणज्ञैर्विना ।
किं युक्तं सहसाभ्युपैति बलवान्कालः कृतान्तो‌உक्षमी
हा ज्ञातं मदनान्तकाङ्घ्रियुगलं मुक्त्वास्ति नान्यो गतिः ॥ 3.83 ॥

महेश्वरे वा जगताम् अधीश्वरे
जनार्दने वा जगद्‌अन्तरात्मनि ।
न वस्तुभेदप्रतिपत्तिरस्ति मे
तथापि भक्तिस्तरुणेन्दुशेखरे ॥ 3.84 ॥

स्फुरत्स्फारज्योत्स्नाधवलिततले क्वापि पुलिने
सुखासीनाः शान्तध्वन्तिसु रजनीषु द्युसरितः ।
भवाभोगोद्विग्नाः शिव शिव शिवेत्युच्चवचसः
कदा यास्यामो‌உतर्गतबहुलबाष्पाकुलदशाम् ॥ 3.85 ॥

महादेवो देवः सरिदपि च सैषा सुरसरिद्गुहा
एवागारं वसनम् अपि ता एव हरितः ।
सुहृदा कालो‌உयं व्रतम् इदम् अदैन्यव्रतम् इदं
कियद्वा वक्ष्यामो वटविटप एवास्तु दयिता ॥ 3. ॥

वितीर्णे सर्वस्वे तरुणकरुणापूर्णहृदयाः
स्मरन्तः संसारे विगुणपरिणामां विधिगतिम् ।
वयं पुण्यारण्ये परिणतशरच्चन्द्रकिरणास्
त्रियामा नेस्यामो हरचरणचिन्तैकशरणाः ॥ 3.86 ॥

कदा वाराणस्याम् अमरतटिनीरोधसि वसन्
वसानः कौपीनं शिरसि निदधानो‌உञ्जलिपुटम् ।
अये गौरीनाथ त्रिपुरहर शम्भो त्रिनयन
प्रसीदेत्याक्रोशन्निमिषम् इव नेष्यामि दिवसान् ॥ 3.87 ॥

उद्यानेषु विचित्रभोजनविधिस्तीव्रातितीव्रं तपः
कौपीनावरणं सुवस्त्रम् अमितं भिक्षाटनं मण्डनम् ।
आसन्नं मरणं च मङ्गलसमं यस्यां समुत्पद्यते
तां काशीं परिहृत्य हन्त विबुधैरन्यत्र किं स्थीयते ॥ 3. ॥

स्नात्वा गाङ्गैः पयोभिः शुचिकुसुमफलैरर्चयित्वा विभो त्वा
ध्येये ध्यानं निवेश्य क्षितिधरकुहरग्रावपर्यङ्कमूले ।
आत्मारामः फलाशी गुरुवचनरतस्त्वत्प्रसादात्स्मरारे
दुःखं मोक्ष्ये कदाहं समकरचरणे पुंसि सेवासमुत्थम् ॥ 3.88 ॥

एकाकी निःस्पृहः शान्तः पाणिपात्रो दिगम्बरः ।
कदा शम्भो भविष्यामि कर्मनिर्मूलनक्षमः ॥ 3.89 ॥

पाणिं पात्रयतां निसर्गशुचिना भैक्षेण सन्तुष्यतां
यत्र क्वापि निषीदतां बहुतृणं विश्वं मुहुः पश्यताम् ।
अत्यागे‌உपि तनोरखण्डपरमानन्दावबोधस्पृशा
मध्वा को‌உपि शिवप्रसादसुलभः सम्पत्स्यते योगिनाम् ॥ 3.90 ॥

कौपीनं शतखण्डजर्जरतरं कन्था पुनस्तादृशी
नैश्चिन्त्यं निरपेक्षभैक्ष्यम् अशनं निद्रा श्मशाने वने ।
स्वातन्त्र्येण निरङ्कुशं विहरणं स्वान्तं प्रशान्तं सदा
स्थैर्यं योगमहोत्सवे‌உपि च यदि त्रैलोक्यराज्येन किम् ॥ 3.91 ॥

ब्रह्माण्डं मण्डलीमात्रं किं लोभाय मनस्विनः ।
शफरीस्फुर्तेनाब्धिः क्षुब्धो न खलु जायते ॥ 3.92 ॥

मातर्लक्ष्मि भजस्व कञ्चिदपरं मत्काङ्क्षिणी मा स्म भूर्
भोगेषु स्पृहयालवस्तव वशे का निःस्पृहाणाम् असि ।
सद्यः स्यूतपलाशपत्रपुटिकापात्रैः पवित्रीकृतैर्
भिक्षावस्तुभिरेव सम्प्रति वयं वृत्तिं समीहामहे ॥ 3.93 ॥

महाशय्या पृथ्वी विपुलम् उपधानं भुजलतां
वितानं चाकाशं व्यजनम् अनुकूलो‌உयम् अनिलः ।
शरच्चन्द्रो दीपो विरतिवनितासङ्गमुदितः
सुखी शान्तः शेते मुनिरतनुभूतिर्नृप इव ॥ 3.94 ॥

भिक्षासी जनमध्यसङ्गरहितः स्वायत्तचेष्टः सदा
हानादानविरक्तमार्गनिरतः कश्चित्तपस्वी स्थितः ।
रथ्याकीर्णविशीर्णजीर्णवसनः सम्प्राप्तकन्थासनो
निर्मानो निरहङ्कृतिः शमसुखाभोगैकबद्धस्पृहः ॥ 3.95 ॥

चण्डालः किम् अयं द्विजातिरथवा शूद्रो‌உथ किं तापसः
किं वा तत्त्वविवेकपेशलमतिर्योगीश्वरः को‌உपि किम् ।
इत्युत्पन्नविकल्पजल्पमुखरैराभाष्यमाणा जनैर्
न क्रुद्धाः पथि नैव तुष्टमनसो यान्ति स्वयं योगिनः ॥ 3.96 ॥

हिंसाशून्यम् अयत्नलभ्यम् अशनं धात्रा मरुत्कल्पितं
व्यालानं पशवस्तृणाङ्कुरभुजस्तुष्टाः स्थलीशायिनः ।
संसारार्णवलङ्घनक्षमधियां वृत्तिः कृता सा नृणां
ताम् अन्वेषयतां प्रयान्ति सततं सर्वं समाप्तिं गुणाः ॥ 3.97 ॥

गङ्गातीरे हिमगिरिशिलाबद्धपद्मासनस्य
ब्रह्मध्यानाभ्यसनविधिना योगनिद्रां गतस्य ।
किं तैर्भाव्यं मम सुदिवसैर्यत्र ते निर्विशङ्काः
कण्डूयन्ते जरठहरिणाः स्वाङ्गम् अङ्गे मदीये ॥ 3.98 ॥

जीर्णाः कन्था ततः किं सितम् अमलपटं पट्टसूत्रं ततः किं
एका भार्या ततः किं हयकरिसुगणैरावृतो वा ततः किम् ।
भक्तं भुक्तं ततः किं कदशनम् अथवा वासरान्ते ततः किं
व्यक्तज्योतिर्न वान्तर्मथितभवभयं वैभवं वा ततः किम् ॥ 3. ॥

पाणिः पात्रं पवित्रं भ्रमणपरिगतं भैक्ष्यम् अक्षय्यम् अन्नं
विस्तीर्णं वस्त्रम् आशादशकम् अचपलं तल्पम् अस्वल्पम् उर्वीम् ।
येषां निःसङ्गताङ्गीकरणपरिणतस्वान्तसन्तोषिणस्ते
धन्याः संन्यस्तदैन्यव्यतिकरनिकराः कर्म निर्मूलयन्ति ॥ 3.99 ॥

त्रैलोक्याधिपतित्वम् एव विरसं यस्मिन्महाशासने
तल्लब्ध्वासनवस्त्रमानघटने भोगे रतिं मा कृथाः ।
भोगः को‌உपि स एक एव परमो नित्योदिता जृम्भने
यत्स्वादाद्विरसा भवन्ति विसयास्त्रैलोक्यराज्यादयः ॥ 3.991 ॥

मातर्मेदिनि तात मारुति सखे तेजः सुबन्धो जल
भ्रातर्व्य्ॐ‌अ निबद्ध एष भवताम् अन्त्यः प्रणामाञ्जलिः ।
युष्मत्सङ्गवशोपजातसुकृतस्फारस्फुरन्निर्मलज्ञानापास्त
समस्तमोहमहिमा लीने परब्रह्मणि ॥ 3.100 ॥

शय्या शैलशिलागृहं गिरिगुहा वस्त्रं तरुणां त्वचः
सारङ्गाः सुहृदो ननु क्षितिरुहां वृत्तिः फलैः क्ॐ‌अलैः ।
येसां निर्झरम् अम्बुपानम् उचितं रत्यै तु विद्याङ्गना
मन्ये ते परमेश्वराः शिरसि यरि बद्धो न सेवाञ्जलिः ॥ 3.1001 ॥

धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी
सत्यं मित्रम् इदं दया च भगिनी भ्राता मनःसंयमः ।
शय्या भूमितलं दिशो‌உपि वसनं ज्ञानामृतं भोजनं
ह्येते यस्य कुटुम्बिनो वद सखे कस्माद्भयं योगिनः ॥ 3.1002 ॥

अहो वा हारे वा बलवति रिपौ वा सुहृदि वा
मणौ वा लोष्ठे वा कुसुमशयने वा दृषदि वा ।
तृणे वा स्त्रैणे वा मम समदृशो यान्ति दिवसाः
क्वचित्पुण्यारण्ये शिव शिव शिवेति प्रलपतः ॥ 3.1003 ॥

Comments are closed.

Join on Facebook, Twitter

Browse by Popular Topics