Devanagari,Sanskrit,Hindi

Bhartruhari Sataka Trisati – Srungaara Satakam – Devanagari

0 Comments 24 December 2014

PDFLarge PDFMultimediaMeaning

View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Oriya Bengali |

This stotram is in शुद्ध दॆवनागरी (Samskritam). View this in सरल दॆवनागरी (हिंन्दी), with simplified anuswaras for easy reading.
 
रचन: भर्तृहरि

शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकुम्भदासाः ।
वाचाम् अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ 2.1 ॥

स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥ 2.2 ॥

भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणाम् एतद्भूषणं चायुधं च ॥ 2.3 ॥

क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणाम् एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ 2.4 ॥

वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णम् अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
बक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥ 2.5 ॥

स्मितकिञ्चिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचाम् अभिनवविलासोक्तिसरसः ।
गतानाम् आरम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किम् इव न हि रम्यं मृगदृशः ॥ 2.6 ॥

द्रष्टव्येषु किम् उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्‌आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्‌ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ 2.7 ॥

एताश्चलद्वलयसंहतिमेखलोत्थझङ्कार
नूपुरपराजितराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ 2.8 ॥

कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥ 2.9 ॥

नूनं हि ते कविवरा विपरीतवाचो
ये नित्यम् आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयो‌உपि विजितास्त्वबलाः कथं ताः ॥ 2.10 ॥

नूनम् आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ 2.11 ॥

केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रम् अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमावित्थं
तन्वि वपुः प्रशान्तम् अपि तेरागं करोत्येव नः ॥ 2.12 ॥

मुग्धे धानुष्कता केयम् अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ 2.13 ॥

सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ।
विना मे मृगशावाक्ष्या तमोभूतम् इदं जगथ् ॥ 2.14 ॥

उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितम् ओष्ठपल्लवम् इदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापम् अधिकं र्ॐ‌आवलिः केन सा ॥ 2.15 ॥

मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ 2.16 ॥

गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ 2.17 ॥

तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किम् आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ 2.18 ॥

इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारम्भाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किम् अपि विजयन्ते मृगदृशाम् ॥ 2.19 ॥

प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी
रहसि किम् अपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ 2.20 ॥

विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयन्ती शशिनो मयूखान् ॥ 2.21 ॥

अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदम् ॥ 2.22 ॥

मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ 2.23 ॥

प्राङ्माम् एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमम् अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ 2.24 ॥

उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिद्‌उन्मीलितानाम् ।
उपरि सुरतखेदस्विन्नगण्डस्थलानामधर
मधु वधूनां भाग्यवन्तः पिबन्ति ॥ 2.25 ॥

आमीलितनयनानां यः
सुरतरसो‌உनु संविदं भाति ।
मिथुरैर्मिथो‌உवधारितमवितथम्
इदम् एव कामनिर्बर्हणम् ॥ 2.26 ॥

इदम् अनुचितम् अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ 2.27 ॥

राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थो‌உर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ 2.28 ॥

रागस्यागारम् एकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोके‌உस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ 2.29 ॥

शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः को‌உपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 2.30 ॥

संसारे‌உस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्ग
व्यस्तधैर्यं कथम् अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्‌इन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ 2.31 ॥

सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ 2.32 ॥

संसार तव पर्यन्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ 2.33 ॥

दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां
कवलम् उपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापाण्डुताम्बूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ 2.34 ॥

असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदम् इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यम् अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यम् अपरम् ॥ 2.35 ॥

एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥ 2.351 ॥

मात्सर्यम् उत्सार्य विचार्य कार्यमार्याः
समर्यादम् इदं वदन्तु ।
सेव्या नितम्बाः किम् उ भूधराणामत
स्मरस्मेरविलासिनीनाम् ॥ 2.36 ॥

संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।
नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ 2.37 ॥

आवासः क्रियतां गङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ 2.38 ॥

किम् इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ 2.39 ॥

सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यम् एतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥ 2.40 ॥

कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुङ्ग
पयोधरेति समुखाम्भोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदते‌உभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियम् अहो मोहस्य दुश्चेष्टितम् ॥ 2.41 ॥

स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ 2.42 ॥

तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ 2.43 ॥

नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ 2.44 ॥

आवर्तः संशयानाम् अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रम् अप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषम् अमृतमयं प्राणिलोकस्य पाशः ॥ 2.45 ॥

नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं
लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।
किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ 2.46 ॥

लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्‌अङ्घ्रिः ॥ 2.47 ॥

संमोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति ॥ 2.471 ॥

यदेतत्पूर्णेन्दुद्युतिहरम् उदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलम् इदानीम् अतिरसव्यतीते‌உस्मिन्
काले विषम् इव भविष्य्त्यसुखदम् ॥ 2.48 ॥

उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गत
चक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयम् अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ 2.49 ॥

जल्पन्ति सार्धम् अन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ 2.50 ॥

मधु तिष्ठति वाचि योषितां हृदि हालाहलम् एव केवलम् ।
अत‌एव निपीयते‌உधरो हृदयं मुष्टिभिरेव ताड्यते ॥ 2.51 ॥

अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुम् औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मन्त्रिणः ॥ 2.52 ॥

विस्तारितं मकरकेतनधीवरेण
स्त्रीसञ्ज्ञितं बडिशम् अत्र भवाम्बुराशौ ।
येनाचिरात्तद्‌अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ 2.53 ॥

कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा सञ्चर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ 2.54 ॥

व्यादीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परम् अहं दृष्टो न तच्चक्षुषा ।
दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण दर्मार्थिनो
मुग्धाक्ष्क्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ 2.55 ॥

इह हि मधुरगीतं नृत्यम् एतद्रसो‌உयं
स्फुरति परिमलो‌உसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितो‌உस्मि ॥ 2.56 ॥

न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कम् अपि विदधद्भङ्गम् असकृत्
स्मरापस्मारो‌உयं भ्रमयति दृशं घूर्णयति च ॥ 2.57 ॥

जात्य्‌अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ 2.58 ॥

वेश्यासौ मदनज्वाला
रूपे‌உन्धनविवर्धिता ।
कामिभिर्यत्र हूयन्ते
यौवनानि धनानि च ॥ 2.59 ॥

कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञम् अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ 2.60 ॥

धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिम् एति मनो न येषाम् ॥ 2.61 ॥

बाले लीलामुकुलितम् अमी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयम् उपरतं बाल्यम् आस्था वनान्ते
क्षीणो मोहस्तृणम् इव जगज्जालम् आलोकयामः ॥ 2.62 ॥

इयं बाला मां प्रत्यनवरतम् इन्दीवरदलप्रभा
चीरं चक्षुः क्षिपति किम् अभिप्रेतम् अनया ।
गतो मोहो‌உस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शान्ता तदपि न वराकी विरमति ॥ 2.63 ॥

किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल क्ॐ‌अलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ 2.64 ॥

विरहे‌உपि सङ्गमः खलु
परस्परं सङ्गतं मनो येषाम् ।
हृदयम् अपि विघट्टितं चेत्
सङ्गी विरहं विशेषयति ॥ 2.65 ॥

किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरम् ॥ 2.66 ॥

विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणम् अथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ 2.67 ॥

यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किम् उ तैः ।
प्रियाणाम् आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ 2.68 ॥

यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टनारीमयम् इदम् अशेषं जगदिति ।
इदानीम् अस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनम् अपि ब्रह्म मनुते ॥ 2.69 ॥

तावदेव कृतिनाम् अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥ 2.70 ॥

वचसि भवति सङ्गत्यागम् उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनम् अरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ 2.71 ॥

स्वपरप्रतारको‌உसौ
निन्दति यो‌உलीकपण्डितो युवतीः ।
यस्मात्तपसो‌உपि फलं
स्वर्गः स्वर्गे‌உपि चाप्सरसः ॥ 2.72 ॥

मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधे‌உपि दक्षाः ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ 2.73 ॥

सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयम् अपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 2.74 ॥

उन्मत्तप्रेमसंरम्भाद्
आरभन्ते यद्‌अङ्गनाः ।
तत्र प्रत्यूहम् आधातुं
ब्रह्मापि खलु कातरः ॥ 2.75 ॥

तावन्महत्त्वं पाण्डित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु
हतः पञ्चेषुपावकः ॥ 2.76 ॥

शास्त्रज्ञो‌உपि प्रगुणितनयो‌உत्यान्तबाधापि बाढं
संसारे‌உस्मिन्भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारम् उद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ 2.77 ॥

कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीम् अन्वेति श्वा हतम् अपि च हन्त्येव मदनः ॥ 2.78 ॥

स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ 2.79 ॥

विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्ते‌உपि
स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम्
इन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ 2.80 ॥

परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविधुरोत्कण्ठाभाजः प्रिया पिकपक्षिणाम् ।
विरलविरसस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ धात्र्यां जातो न कस्य गुणोदयः ॥ 2.81 ॥

मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥ 2.82 ॥

आवासः किलकिञ्चितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषाञ्चित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ 2.83 ॥

पान्थ स्त्रीविरहानलाहुतिकलाम् आतन्वती मञ्जरीमाकन्देषु
पिकाङ्गनाभिरधुना सोत्कण्ठम् आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ 2.84 ॥

प्रथितः प्रणयवतीनां
तावत्पदम् आतनोतु हृदि मानः ।
भवति न यावच्चन्दनतरु
सुरभिर्मलयपवमानः ॥ 2.85 ॥

सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्‌अन्ते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कण्ठा ॥ 2.86 ॥

अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च क्ॐ‌उदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ 2.87 ॥

स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघर्तावेतद्विलसति लभन्ते सुकृतिनः ॥ 2.88 ॥

सुधाशुभ्रं धाम स्फुरद्‌अमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदम् अखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ 2.89 ॥

तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षम् ॥ 2.90 ॥

वियद्‌उपचितमेघं भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनम् असुखिनं वा सर्वम् उत्कण्ठयन्ति ॥ 2.91 ॥

उपरि घनं घनपटलं
तिर्यग्गिरयो‌உपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला
दृष्टिं पथिकः क्व पातयति ॥ 2.92 ॥

इतो विद्युद्वल्लीविलसितम् इतः केतकितरोः
स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितम् इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ 2.93 ॥

असूचिसञ्चारे तमसि नभसि प्रौढजलदध्वनि
प्राज्ञंमन्ये पतति पृषतानां च निचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च म्लानिं च प्रथयति पथि स्वैरसुदृशाम् ॥ 2.94 ॥

आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तम् आयतदृशा गाढं समालिङ्ग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ 2.95 ॥

अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ॥ 2.96 ॥

हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ 2.97 ॥

प्रदुयत्प्रौढप्रियङ्गुद्युतिभृति विकसत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि ।
येषां नो कण्ठलग्ना क्षणम् अपि तुहिनक्षोददक्षा मृगाक्षी
तेसाम् आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ 2.98 ॥

चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदम् आपादयन्तः ।
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तो‌உंशुकानि
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ 2.99 ॥

केशानाकुलयन्दृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकम्पं शनैः ।
बारं बारम् उदारसीत्कृतकृतो दन्तच्छदान्पीडयन्
प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ 2.100 ॥

यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञे‌உपि ।
रमणीये‌உपि सुधांशौ न मनःकामः सरोजिन्याः ॥ 2.101 ॥

वैराग्ये सञ्चरत्येको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ 2.102 ॥

इति शुभं भूयात् ।

शृङ्गारशतकम्
भर्तृहरेः

Share your view

Post a comment

Join on Facebook, Twitter

Browse by Popular Topics