अन्नमय्य कीर्तन वन्दे वासुदेवं
वन्दे वासुदेवं बृन्दारकाधीश वन्दित पदाब्जम् ॥
इन्दीवरश्याम मिन्दिराकुचतटी- चन्दनाङ्कित लसत्चारु देहम् । मन्दार मालिकामकुट संशोभितं कन्दर्पजनक मरविन्दनाभम् ॥
धगधग कौस्तुभ धरण वक्षस्थलं खगराज वाहनं कमलनयनम् । निगमादिसेवितं निजरूपशेषप- न्नगराज शायिनं घननिवासम् ॥
करिपुरनाथसंरक्षणे तत्परं करिराजवरद सङ्गतकराब्जम् । सरसीरुहाननं चक्रविभ्राजितं तिरु वेङ्कटाचलाधीशं भजे ॥
Browse Related Categories: