View this in:
English Devanagari Telugu Tamil Kannada Malayalam Gujarati Odia Bengali  |
Marathi Assamese Punjabi Hindi Samskritam Konkani Nepali Sinhala Grantha  |
This document is in शुद्ध देवनागरी with the right anusvaras marked.

अन्नमय्य कीर्तन राधा माधव रति चरितमिति

राधामाधवरतिचरितमिति
बोधावहं श्रुतिभूषणम् ॥

गहने द्वावपि गत्वा गत्वा
रहसि रतिं प्रेरयति सति ।
विहरतस्तदा विलसन्तौ
विहतगृहाशौ विवशौ तौ ॥

लज्जाशभल विलासलीलया
कज्जलनयन विकारेण ।
हृज्जाव्यवनहित हृदया रति
स्सज्जा सम्भ्रमचपला जाता ॥

पुरतो यान्तं पुरुषं वकुलैः
कुरण्टकैर्वा कुटजैर्वा ।
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदम् ॥

हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य ।
परिरञ्चण सम्पादितपुलकै
स्सुरुचिर्जाता सुमलतिकेव ॥

विधुमुखदर्शन विकलितलज्जा-
त्वधरबिम्बफलमास्वाद्य ।
मधुरोपायनमार्गेण कुचौ
निधिवद त्वा नित्यसुखमिता ॥

सुरुचिरकेतक सुमदल नखरै-
र्वरचिबुकं सा परिवृत्य ।
तरुणिमसिन्धौ तदीयदृग्जल-
चरयुगलं संसक्तं चकार ॥

वचन विलासैर्वशीकृत तं
निचुलकुञ्ज मानितदेशे ।
प्रचुरसैकते पल्लवशयने-
रचितरतिकला रागेणास ॥

अभिनवकल्याणाञ्चितरूपा-
वभिनिवेश संयतचित्तौ ।
बभूवतु स्तत्परौ वेङ्कट
विभुना सा तद्विधिना सतया ॥

सच लज्जावीक्षणो भवति तं
कचभरां गन्धं घ्रापयति ।
नचलतिचेन्मानवती तथापि
कुचसङ्गादनुकूलयति ॥

अवनतशिरसाप्यति सुभगं
विविधालापैर्विवशयति ।
प्रविमल कररुहरचन विलासै
र्भुवनपति तं भूषयति ॥

लतागृहमेलनं नवसै
कतवैभव सौख्यं दृष्ट्वा ।
ततस्ततश्चरसौ केली-
व्रतचर्यां तां वाञ्छन्तौ ।

वनकुसुम विशदवरवासनया-
घनसाररजोगन्धैश्च ।
जनयति पवने सपदि विकारं-
वनिता पुरुषौ जनिताशौ ॥

एवं विचरन् हेला विमुख-
श्रीवेङ्कटगिरि देवोयम् ।
पावनराधापरिरम्भसुख-
श्री वैभवसुस्थिरो भवति ॥




Browse Related Categories: