अन्नमय्य कीर्तन देव देवं भजे
रागं: धन्नासि
देव देवं भजे दिव्यप्रभावम् । रावणासुरवैरि रणपुङ्गवम् ॥
राजवरशेखरं रविकुलसुधाकरं आजानुबाहु नीलाभ्रकायम् । राजारि कोदण्ड राज दीक्षागुरुं राजीवलोचनं रामचन्द्रम् ॥
नीलजीमूत सन्निभशरीरं घनवि- शालवक्षं विमल जलजनाभम् । तालाहिनगहरं धर्मसंस्थापनं भूललनाधिपं भोगिशयनम् ॥
पङ्कजासनविनुत परमनारायणं शङ्करार्जित जनक चापदलनम् । लङ्का विशोषणं लालितविभीषणं वॆङ्कटेशं साधु विबुध विनुतम् ॥
Browse Related Categories: