विष्णु षट्पदि
अविनयमपनय विष्णो दमय मनः शमय विषयमृगतृष्णाम् |
भूतदयां विस्तारय तारय संसारसागरतः || 1 ||
दिव्यधुनीमकरन्दे परिमलपरिभोगसच्चिदानन्दे |
श्रीपतिपदारविन्दे भवभयखेदच्छिदे वन्दे || 2 ||
सत्यपि भेदापगमे नाथ तवाऽहं न मामकीनस्त्वं |
सामुद्रो हि तरङ्गः क्वचन समुद्रो न तारङ्गः || 3 ||
उद्धृतनग नगभिदनुज दनुजकुलामित्र मित्रशशिदृष्टे |
दृष्टे भवति प्रभवति न भवति किं भवतिरस्कारः || 4 ||
मत्स्यादिभिरवतारैरवतारवताऽवता सदा वसुधां |
परमेश्वर परिपाल्यो भवता भवतापभीतोऽहं || 5 ||
दामोदर गुणमन्दिर सुन्दरवदनारविन्द गोविन्द |
भवजलधिमथनमन्दर परमं दरमपनय त्वं मे || 6 ||
नारायण करुणामय शरणं करवाणि तावकौ चरणौ |
इति षट्पदी मदीये वदनसरोजे सदा वसतु ||