Back

सूर्य कवचम्

श्रीभैरव उवाच

यो देवदेवो भगवान् भास्करो महसां निधिः |
गयत्रीनायको भास्वान् सवितेति प्रगीयते || 1 ||

तस्याहं कवचं दिव्यं वज्रपञ्जरकाभिधम् |
सर्वमन्त्रमयं गुह्यं मूलविद्यारहस्यकम् || 2 ||

सर्वपापापहं देवि दुःखदारिद्र्यनाशनम् |
महाकुष्ठहरं पुण्यं सर्वरोगनिवर्हणम् || 3 ||

सर्वशत्रुसमूहघं सम्ग्रामे विजयप्रदम् |
सर्वतेजोमयं सर्वदेवदानवपूजितम् || 4 ||

रणे राजभये घ्रे सर्वोपद्रवनाशनम् |
मातृकावेष्टितं वर्म भैरवानननिर्गतम् || 5 ||

ग्रहपीडाहरं देवि सर्वसङ्कटनाशनम् |
धारणादस्य देवेशि ब्रह्मा लोकपितामहः || 6 ||

विष्णुर्नारायणो देवि रणे दैत्याञ्जिष्यति |
शङ्करः सर्वलोकेशो वासवोऽपि दिवस्पतिः || 7 ||

ओषधीशः शशी देवि शिवोऽहं भैरवेश्वरः |
मन्त्रात्मकं परं वर्म सवितुः सारमुत्तमम् || 8 ||

यो धारयेद् भुजे मूर्ध्नि रविवारे महेश्वरि |
स राजवल्लभो लोके तेजस्वी वैरिमर्दनः || 9 ||

बहुनोक्तेन किं देवि कवचस्यास्य धारणात् |
इह लक्ष्मीधनारोग्य-वृद्धिर्भवति नान्यथा || 10 ||

परत्र परमा मुक्तिर्देवानामपि दुर्लभा |
कवचस्यास्य देवेशि मूलविद्यामयस्य च || 11 ||

वज्रपञ्जरकाख्यस्य मुनिर्ब्रह्मा समीरितः |
गायत्र्यं छन्द इत्युक्तं देवता सविता स्मृतः || 12 ||

माया बीजं शरत् शक्तिर्नमः कीलकमीश्वरि |
सर्वार्थसाधने देवि विनियोगः प्रकीर्तितः || 13 ||

अथ सूर्य कवचं

ॐ अं आं इं ईं शिरः पातु ॐ सूर्यो मन्त्रविग्रहः |
उं ऊं ऋं ॠं ललाटं मे ह्रां रविः पातु चिन्मयः || 14 ||

~लुं ~लूं एं ऐं पातु नेत्रे ह्रीं ममारुणसारथिः |
ॐ औं अं अः श्रुती पातु सः सर्वजगदीश्वरः || 15 ||

कं खं गं घं पातु गण्डौ सूं सूरः सुरपूजितः |
चं छं जं झं च नासां मे पातु यारं अर्यमा प्रभुः || 16 ||

टं ठं डं ढं मुखं पायाद् यं योगीश्वरपूजितः |
तं थं दं धं गलं पातु नं नारायणवल्लभः || 17 ||

पं फं बं भं मम स्कन्धौ पातु मं महसां निधिः |
यं रं लं वं भुजौ पातु मूलं सकनायकः || 18 ||

शं षं सं हं पातु वक्षो मूलमन्त्रमयो ध्रुवः |
लं क्षः कुक्ष्सिं सदा पातु ग्रहाथो दिनेश्वरः || 19 ||

ङं ञं णं नं मं मे पातु पृष्ठं दिवसनायकः |
अं आं इं ईं उं ऊं ऋं ॠं नाभिं पातु तमोपहः || 20 ||

~लुं ~लूं एं ऐं ॐ औं अं अः लिङ्गं मेऽव्याद् ग्रहेश्वरः |
कं खं गं घं चं छं जं झं कटिं भानुर्ममावतु || 21 ||

टं ठं डं ढं तं थं दं धं जानू भास्वान् ममावतु |
पं फं बं भं यं रं लं वं जङ्घ् मेऽव्याद् विभाकरः || 22 ||

शं षं सं हं लं क्षः पातु मूलं पादौ त्रयितनुः |
ङं ञं णं नं मं मे पातु सविता सकलं वपुः || 23 ||

सोमः पूर्वे च मां पातु भौमोऽग्नौ मां सदावतु |
बुधो मां दक्षिणे पातु नैऋत्या गुररेव माम् || 24 ||

पश्चिमे मां सितः पातु वायव्यां मां शनैश्चरः |
उत्तरे मां तमः पायादैशान्यां मां शिखी तथा || 25 ||

ऊर्ध्वं मां पातु मिहिरो मामधस्ताञ्जगत्पतिः |
प्रभाते भास्करः पातु मध्याह्ने मां दिनेश्वरः || 26 ||

सायं वेदप्रियः पातु निशीथे विस्फुरापतिः |
सर्वत्र सर्वदा सूर्यः पातु मां चक्रनायकः || 27 ||

रणे राजकुले द्यूते विदादे शत्रुसङ्कटे |
सङ्गामे च ज्वरे रोगे पातु मां सविता प्रभुः || 28 ||

ॐ ॐ ॐ उत ॐउऔम् ह स म यः सूरोऽवतान्मां भयाद्
ह्रां ह्रीं ह्रुं हहहा हसौः हसहसौः हंसोऽवतात् सर्वतः |
सः सः सः सससा नृपाद्वनचराच्चौराद्रणात् सङ्कटात्
पायान्मां कुलनायकोऽपि सविता ॐ ह्रीं ह सौः सर्वदा || 29 ||

द्रां द्रीं द्रूं दधनं तथा च तरणिर्भाम्भैर्भयाद् भास्करो
रां रीं रूं रुरुरूं रविर्ज्वरभयात् कुष्ठाच्च शूलामयात् |
अं अं आं विविवीं महामयभयं मां पातु मार्तण्डको
मूलव्याप्ततनुः सदावतु परं हंसः सहस्रांशुमान् || 30||

अथ फलशृतिः

इति श्रीकवचं दिव्यं वज्रपञ्जरकाभिधम् |
सर्वदेवरहस्यं च मातृकामन्त्रवेष्टितम् || 31 ||

महारोगभयघं च पापघं मन्मुखोदितम् |
गुह्यं यशस्करं पुण्यं सर्वश्रेयस्करं शिवे || 32 ||

लिखित्वा रविवारे तु तिष्ये वा जन्मभे प्रिये |
अष्टगन्धेन दिव्येन सुधाक्षीरेण पार्वति || 33 ||

अर्कक्षीरेण पुण्येन भूर्जत्वचि महेश्वरि |
कनकीकाष्ठलेखन्या कवचं भास्करोदये || 34 ||

श्वेतसूत्रेण रक्तेन श्यामेनावेष्टयेद् गुटीम् |
सौवर्णेनाथ संवेष्ठ्य धारयेन्मूर्ध्नि वा भुजे || 35 ||

रणे रिपूञ्जयेद् देवि वादे सदसि जेष्यति |
राजमान्यो भवेन्नित्यं सर्वतेजोमयो भवेत् || 36 ||

कण्ठस्था पुत्रदा देवि कुक्षिस्था रोगनाशिनी |
शिरःस्था गुटिका दिव्या राकलोकवशङ्करी || 37 ||

भुजस्था धनदा नित्यं तेजोबुद्धिविवर्धिनी |
वन्ध्या वा काकवन्ध्या वा मृतवत्सा च याङ्गना || 38 ||

कण्ठे सा धारयेन्नित्यं बहुपुत्रा प्रजायये |
यस्य देहे भवेन्नित्यं गुटिकैषा महेश्वरि || 39 ||

महास्त्राणीन्द्रमुक्तानि ब्रह्मास्त्रादीनि पार्वति |
तद्देहं प्राप्य व्यर्थानि भविष्यन्ति न संशयः || 40 ||

त्रिकालं यः पठेन्नित्यं कवचं वज्रपञ्जरम् |
तस्य सद्यो महादेवि सविता वरदो भवेत् || 41 ||

अज्ञात्वा कवचं देवि पूजयेद् यस्त्रयीतनुम् |
तस्य पूजार्जितं पुण्यं जन्मकोटिषु निष्फलम् || 42 ||

शतावर्तं पठेद्वर्म सप्तम्यां रविवासरे |
महाकुष्ठार्दितो देवि मुच्यते नात्र संशयः || 43 ||

निरोगो यः पठेद्वर्म दरिद्रो वज्रपञ्जरम् |
लक्ष्मीवाञ्जायते देवि सद्यः सूर्यप्रसादतः || 44 ||

भक्त्या यः प्रपठेद् देवि कवचं प्रत्यहं प्रिये |
इह लोके श्रियं भुक्त्वा देहान्ते मुक्तिमाप्नुयात् || 45 ||

इति श्रीरुद्रयामले तन्त्रे श्रीदेविरहस्ये
वज्रपञ्जराख्यसूर्यकवचनिरूपणं त्रयस्त्रिंशः पटलः ||

PDF, Full Site (with more options)