Back

शिव सहस्र नाम स्तोत्रम्



स्थिरः स्थाणुः प्रभुर्भानुः प्रवरो वरदो वरः |
सर्वात्मा सर्वविख्यातः सर्वः सर्वकरो भवः || 1 ||

जटी चर्मी शिखण्डी च सर्वाङ्गः सर्वाङ्गः सर्वभावनः |
हरिश्च हरिणाक्शश्च सर्वभूतहरः प्रभुः || 2 ||

प्रवृत्तिश्च निवृत्तिश्च नियतः शाश्वतो ध्रुवः |
श्मशानचारी भगवानः खचरो गोचरोऽर्दनः || 3 ||

अभिवाद्यो महाकर्मा तपस्वी भूत भावनः |
उन्मत्तवेषप्रच्छन्नः सर्वलोकप्रजापतिः || 4 ||

महारूपो महाकायो वृषरूपो महायशाः |
महाऽऽत्मा सर्वभूतश्च विरूपो वामनो मनुः || 5 ||

लोकपालोऽन्तर्हितात्मा प्रसादो हयगर्दभिः |
पवित्रश्च महांश्चैव नियमो नियमाश्रयः || 6 ||

सर्वकर्मा स्वयम्भूश्चादिरादिकरो निधिः |
सहस्राक्शो विरूपाक्शः सोमो नक्शत्रसाधकः || 7 ||

चन्द्रः सूर्यः गतिः केतुर्ग्रहो ग्रहपतिर्वरः |
अद्रिरद्\{\}र्यालयः कर्ता मृगबाणार्पणोऽनघः || 8 ||

महातपा घोर तपाऽदीनो दीनसाधकः |
संवत्सरकरो मन्त्रः प्रमाणं परमं तपः || 9 ||

योगी योज्यो महाबीजो महारेता महातपाः |
सुवर्णरेताः सर्वघः सुबीजो वृषवाहनः || 10 ||

दशबाहुस्त्वनिमिषो नीलकण्ठ उमापतिः |
विश्वरूपः स्वयं श्रेष्ठो बलवीरोऽबलोगणः || 11 ||

गणकर्ता गणपतिर्दिग्वासाः काम एव च |
पवित्रं परमं मन्त्रः सर्वभाव करो हरः || 12 ||

कमण्डलुधरो धन्वी बाणहस्तः कपालवानः |
अशनी शतघ्नी खड्गी पट्टिशी चायुधी महानः || 13 ||

स्रुवहस्तः सुरूपश्च तेजस्तेजस्करो निधिः |
उष्णिषी च सुवक्त्रश्चोदग्रो विनतस्तथा || 14 ||

दीर्घश्च हरिकेशश्च सुतीर्थः कृष्ण एव च |
सृगाल रूपः सर्वार्थो मुण्डः कुण्डी कमण्डलुः || 15 ||

अजश्च मृगरूपश्च गन्धधारी कपर्द्यपि |
उर्ध्वरेतोर्ध्वलिङ्ग उर्ध्वशायी नभस्तलः || 16 ||

त्रिजटैश्चीरवासाश्च रुद्रः सेनापतिर्विभुः |
अहश्चरोऽथ नक्तं च तिग्ममन्युः सुवर्चसः || 17 ||

गजहा दैत्यहा लोको लोकधाता गुणाकरः |
सिंहशार्दूलरूपश्च आर्द्रचर्माम्बरावृतः || 18 ||

कालयोगी महानादः सर्ववासश्चतुष्पथः |
निशाचरः प्रेतचारी भूतचारी महेश्वरः || 19 ||

बहुभूतो बहुधनः सर्वाधारोऽमितो गतिः |
नृत्यप्रियो नित्यनर्तो नर्तकः सर्वलासकः || 20 ||

घोरो महातपाः पाशो नित्यो गिरि चरो नभः |
सहस्रहस्तो विजयो व्यवसायो ह्यनिन्दितः || 21 ||

अमर्षणो मर्षणात्मा यघहा कामनाशनः |
दक्शयघापहारी च सुसहो मध्यमस्तथा || 22 ||

तेजोऽपहारी बलहा मुदितोऽर्थोऽजितो वरः |
गम्भीरघोषो गम्भीरो गम्भीर बलवाहनः || 23 ||

न्यग्रोधरूपो न्यग्रोधो वृक्शकर्णस्थितिर्विभुः |
सुदीक्श्णदशनश्चैव महाकायो महाननः || 24 ||

विष्वक्सेनो हरिर्यघः संयुगापीडवाहनः |
तीक्श्ण तापश्च हर्यश्वः सहायः कर्मकालवितः || 25 ||

विष्णुप्रसादितो यघः समुद्रो वडवामुखः |
हुताशनसहायश्च प्रशान्तात्मा हुताशनः || 26 ||

उग्रतेजा महातेजा जयो विजयकालवितः |
ज्योतिषामयनं सिद्धिः सन्धिर्विग्रह एव च || 27 ||

शिखी दण्डी जटी ज्वाली मूर्तिजो मूर्धगो बली |
वैणवी पणवी ताली कालः कालकटङ्कटः || 28 ||

नक्शत्रविग्रह विधिर्गुणवृद्धिर्लयोऽगमः |
प्रजापतिर्दिशा बाहुर्विभागः सर्वतोमुखः || 29 ||

विमोचनः सुरगणो हिरण्यकवचोद्भवः |
मेढ्रजो बलचारी च महाचारी स्तुतस्तथा || 30 ||

सर्वतूर्य निनादी च सर्ववाद्यपरिग्रहः |
व्यालरूपो बिलावासी हेममाली तरङ्गवितः || 31 ||

त्रिदशस्त्रिकालधृकः कर्म सर्वबन्धविमोचनः |
बन्धनस्त्वासुरेन्द्राणां युधि शत्रुविनाशनः || 32 ||

साङ्ख्यप्रसादो सुर्वासाः सर्वसाधुनिषेवितः |
प्रस्कन्दनो विभागश्चातुल्यो यघभागवितः || 33 ||

सर्वावासः सर्वचारी दुर्वासा वासवोऽमरः |
हेमो हेमकरो यघः सर्वधारी धरोत्तमः || 34 ||

लोहिताक्शो महाऽक्शश्च विजयाक्शो विशारदः |
सङ्ग्रहो निग्रहः कर्ता सर्पचीरनिवासनः || 35 ||

मुख्योऽमुख्यश्च देहश्च देह ऋद्धिः सर्वकामदः |
सर्वकामप्रसादश्च सुबलो बलरूपधृकः || 36 ||

सर्वकामवरश्चैव सर्वदः सर्वतोमुखः |
आकाशनिधिरूपश्च निपाती उरगः खगः || 37 ||

रौद्ररूपोंऽशुरादित्यो वसुरश्मिः सुवर्चसी |
वसुवेगो महावेगो मनोवेगो निशाचरः || 38 ||

सर्वावासी श्रियावासी उपदेशकरो हरः |
मुनिरात्म पतिर्लोके सम्भोज्यश्च सहस्रदः || 39 ||

पक्शी च पक्शिरूपी चातिदीप्तो विशाम्पतिः |
उन्मादो मदनाकारो अर्थार्थकर रोमशः || 40 ||

वामदेवश्च वामश्च प्राग्दक्शिणश्च वामनः |
सिद्धयोगापहारी च सिद्धः सर्वार्थसाधकः || 41 ||

भिक्शुश्च भिक्शुरूपश्च विषाणी मृदुरव्ययः |
महासेनो विशाखश्च षष्टिभागो गवाम्पतिः || 42 ||

वज्रहस्तश्च विष्कम्भी चमूस्तम्भनैव च |
ऋतुरृतु करः कालो मधुर्मधुकरोऽचलः || 43 ||

वानस्पत्यो वाजसेनो नित्यमाश्रमपूजितः |
ब्रह्मचारी लोकचारी सर्वचारी सुचारवितः || 44 ||

ईशान ईश्वरः कालो निशाचारी पिनाकधृकः |
निमित्तस्थो निमित्तं च नन्दिर्नन्दिकरो हरिः || 45 ||

नन्दीश्वरश्च नन्दी च नन्दनो नन्दिवर्धनः |
भगस्याक्शि निहन्ता च कालो ब्रह्मविदांवरः || 46 ||

चतुर्मुखो महालिङ्गश्चारुलिङ्गस्तथैव च |
लिङ्गाध्यक्शः सुराध्यक्शो लोकाध्यक्शो युगावहः || 47 ||

बीजाध्यक्शो बीजकर्ताऽध्यात्मानुगतो बलः |
इतिहास करः कल्पो गौतमोऽथ जलेश्वरः || 48 ||

दम्भो ह्यदम्भो वैदम्भो वैश्यो वश्यकरः कविः |
लोक कर्ता पशु पतिर्महाकर्ता महौषधिः || 49 ||

अक्शरं परमं ब्रह्म बलवानः शक्र एव च |
नीतिर्ह्यनीतिः शुद्धात्मा शुद्धो मान्यो मनोगतिः || 50 ||

बहुप्रसादः स्वपनो दर्पणोऽथ त्वमित्रजितः |
वेदकारः सूत्रकारो विद्वानः समरमर्दनः || 51 ||

महामेघनिवासी च महाघोरो वशीकरः |
अग्निज्वालो महाज्वालो अतिधूम्रो हुतो हविः || 52 ||

वृषणः शङ्करो नित्यो वर्चस्वी धूमकेतनः |
नीलस्तथाऽङ्गलुब्धश्च शोभनो निरवग्रहः || 53 ||

स्वस्तिदः स्वस्तिभावश्च भागी भागकरो लघुः |
उत्सङ्गश्च महाङ्गश्च महागर्भः परो युवा || 54 ||

कृष्णवर्णः सुवर्णश्चेन्द्रियः सर्वदेहिनामः |
महापादो महाहस्तो महाकायो महायशाः || 55 ||

महामूर्धा महामात्रो महानेत्रो दिगालयः |
महादन्तो महाकर्णो महामेढ्रो महाहनुः || 56 ||

महानासो महाकम्बुर्महाग्रीवः श्मशानधृकः |
महावक्शा महोरस्को अन्तरात्मा मृगालयः || 57 ||

लम्बनो लम्बितोष्ठश्च महामायः पयोनिधिः |
महादन्तो महादंष्ट्रो महाजिह्वो महामुखः || 58 ||

महानखो महारोमा महाकेशो महाजटः |
असपत्नः प्रसादश्च प्रत्ययो गिरि साधनः || 59 ||

स्नेहनोऽस्नेहनश्चैवाजितश्च महामुनिः |
वृक्शाकारो वृक्श केतुरनलो वायुवाहनः || 60 ||

मण्डली मेरुधामा च देवदानवदर्पहा |
अथर्वशीर्षः सामास्य ऋकःसहस्रामितेक्शणः || 61 ||

यजुः पाद भुजो गुह्यः प्रकाशो जङ्गमस्तथा |
अमोघार्थः प्रसादश्चाभिगम्यः सुदर्शनः || 62 ||

उपहारप्रियः शर्वः कनकः काझ्ण्चनः स्थिरः |
नाभिर्नन्दिकरो भाव्यः पुष्करस्थपतिः स्थिरः || 63 ||

द्वादशस्त्रासनश्चाद्यो यघो यघसमाहितः |
नक्तं कलिश्च कालश्च मकरः कालपूजितः || 64 ||

सगणो गण कारश्च भूत भावन सारथिः |
भस्मशायी भस्मगोप्ता भस्मभूतस्तरुर्गणः || 65 ||

अगणश्चैव लोपश्च महाऽऽत्मा सर्वपूजितः |
शङ्कुस्त्रिशङ्कुः सम्पन्नः शुचिर्भूतनिषेवितः || 66 ||

आश्रमस्थः कपोतस्थो विश्वकर्मापतिर्वरः |
शाखो विशाखस्ताम्रोष्ठो ह्यमुजालः सुनिश्चयः || 67 ||

कपिलोऽकपिलः शूरायुश्चैव परोऽपरः |
गन्धर्वो ह्यदितिस्तार्क्श्यः सुविघेयः सुसारथिः || 68 ||

परश्वधायुधो देवार्थ कारी सुबान्धवः |
तुम्बवीणी महाकोपोर्ध्वरेता जलेशयः || 69 ||

उग्रो वंशकरो वंशो वंशनादो ह्यनिन्दितः |
सर्वाङ्गरूपो मायावी सुहृदो ह्यनिलोऽनलः || 70 ||

बन्धनो बन्धकर्ता च सुबन्धनविमोचनः |
सयघारिः सकामारिः महादंष्ट्रो महाऽऽयुधः || 71 ||

बाहुस्त्वनिन्दितः शर्वः शङ्करः शङ्करोऽधनः |
अमरेशो महादेवो विश्वदेवः सुरारिहा || 72 ||

अहिर्बुध्नो निरृतिश्च चेकितानो हरिस्तथा |
अजैकपाच्च कापाली त्रिशङ्कुरजितः शिवः || 73 ||

धन्वन्तरिर्धूमकेतुः स्कन्दो वैश्रवणस्तथा |
धाता शक्रश्च विष्णुश्च मित्रस्त्वष्टा ध्रुवो धरः || 74 ||

प्रभावः सर्वगो वायुरर्यमा सविता रविः |
उदग्रश्च विधाता च मान्धाता भूत भावनः || 75 ||

रतितीर्थश्च वाग्मी च सर्वकामगुणावहः |
पद्मगर्भो महागर्भश्चन्द्रवक्त्रोमनोरमः || 76 ||

बलवांश्चोपशान्तश्च पुराणः पुण्यचझ्ण्चुरी |
कुरुकर्ता कालरूपी कुरुभूतो महेश्वरः || 77 ||

सर्वाशयो दर्भशायी सर्वेषां प्राणिनाम्पतिः |
देवदेवः मुखोऽसक्तः सदसतः सर्वरत्नवितः || 78 ||

कैलास शिखरावासी हिमवदः गिरिसंश्रयः |
कूलहारी कूलकर्ता बहुविद्यो बहुप्रदः || 79 ||

वणिजो वर्धनो वृक्शो नकुलश्चन्दनश्छदः |
सारग्रीवो महाजत्रु रलोलश्च महौषधः || 80 ||

सिद्धार्थकारी सिद्धार्थश्चन्दो व्याकरणोत्तरः |
सिंहनादः सिंहदंष्ट्रः सिंहगः सिंहवाहनः || 81 ||

प्रभावात्मा जगत्कालस्थालो लोकहितस्तरुः |
सारङ्गो नवचक्राङ्गः केतुमाली सभावनः || 82 ||

भूतालयो भूतपतिरहोरात्रमनिन्दितः || 83 ||

वाहिता सर्वभूतानां निलयश्च विभुर्भवः |
अमोघः संयतो ह्यश्वो भोजनः प्राणधारणः || 84 ||

धृतिमानः मतिमानः दक्शः सत्कृतश्च युगाधिपः |
गोपालिर्गोपतिर्ग्रामो गोचर्मवसनो हरः || 85 ||

हिरण्यबाहुश्च तथा गुहापालः प्रवेशिनामः |
प्रतिष्ठायी महाहर्षो जितकामो जितेन्द्रियः || 86 ||

गान्धारश्च सुरालश्च तपः कर्म रतिर्धनुः |
महागीतो महानृत्तोह्यप्सरोगणसेवितः || 87 ||

महाकेतुर्धनुर्धातुर्नैक सानुचरश्चलः |
आवेदनीय आवेशः सर्वगन्धसुखावहः || 88 ||

तोरणस्तारणो वायुः परिधावति चैकतः |
संयोगो वर्धनो वृद्धो महावृद्धो गणाधिपः || 89 ||

नित्यात्मसहायश्च देवासुरपतिः पतिः |
युक्तश्च युक्तबाहुश्च द्विविधश्च सुपर्वणः || 90 ||

आषाढश्च सुषाडश्च ध्रुवो हरि हणो हरः |
वपुरावर्तमानेभ्यो वसुश्रेष्ठो महापथः || 91 ||

शिरोहारी विमर्शश्च सर्वलक्शण भूषितः |
अक्शश्च रथ योगी च सर्वयोगी महाबलः || 92 ||

समाम्नायोऽसमाम्नायस्तीर्थदेवो महारथः |
निर्जीवो जीवनो मन्त्रः शुभाक्शो बहुकर्कशः || 93 ||

रत्न प्रभूतो रक्ताङ्गो महाऽर्णवनिपानवितः |
मूलो विशालो ह्यमृतो व्यक्ताव्यक्तस्तपो निधिः || 94 ||

आरोहणो निरोहश्च शलहारी महातपाः |
सेनाकल्पो महाकल्पो युगायुग करो हरिः || 95 ||

युगरूपो महारूपो पवनो गहनो नगः |
न्याय निर्वापणः पादः पण्डितो ह्यचलोपमः || 96 ||

बहुमालो महामालः सुमालो बहुलोचनः |
विस्तारो लवणः कूपः कुसुमः सफलोदयः || 97 ||

वृषभो वृषभाङ्काङ्गो मणि बिल्वो जटाधरः |
इन्दुर्विसर्वः सुमुखः सुरः सर्वायुधः सहः || 98 ||

निवेदनः सुधाजातः सुगन्धारो महाधनुः |
गन्धमाली च भगवानः उत्थानः सर्वकर्मणामः || 99 ||

मन्थानो बहुलो बाहुः सकलः सर्वलोचनः |
तरस्ताली करस्ताली ऊर्ध्व संहननो वहः || 100 ||

छत्रं सुच्छत्रो विख्यातः सर्वलोकाश्रयो महानः |
मुण्डो विरूपो विकृतो दण्डि मुण्डो विकुर्वणः || 101 ||

हर्यक्शः ककुभो वज्री दीप्तजिह्वः सहस्रपातः |
सहस्रमूर्धा देवेन्द्रः सर्वदेवमयो गुरुः || 102 ||

सहस्रबाहुः सर्वाङ्गः शरण्यः सर्वलोककृतः |
पवित्रं त्रिमधुर्मन्त्रः कनिष्ठः कृष्णपिङ्गलः || 103 ||

ब्रह्मदण्डविनिर्माता शतघ्नी शतपाशधृकः |
पद्मगर्भो महागर्भो ब्रह्मगर्भो जलोद्भवः || 104 ||

गभस्तिर्ब्रह्मकृदः ब्रह्मा ब्रह्मविदः ब्राह्मणो गतिः |
अनन्तरूपो नैकात्मा तिग्मतेजाः स्वयम्भुवः || 105 ||

ऊर्ध्वगात्मा पशुपतिर्वातरंहा मनोजवः |
चन्दनी पद्ममालाऽग्\{\}र्यः सुरभ्युत्तरणो नरः || 106 ||

कर्णिकार महास्रग्वी नीलमौलिः पिनाकधृकः |
उमापतिरुमाकान्तो जाह्नवी धृगुमाधवः || 107 ||

वरो वराहो वरदो वरेशः सुमहास्वनः |
महाप्रसादो दमनः शत्रुहा श्वेतपिङ्गलः || 108 ||

प्रीतात्मा प्रयतात्मा च संयतात्मा प्रधानधृकः |
सर्वपार्श्व सुतस्तार्क्श्यो धर्मसाधारणो वरः || 109 ||

चराचरात्मा सूक्श्मात्मा सुवृषो गो वृषेश्वरः |
साध्यर्षिर्वसुरादित्यो विवस्वानः सविताऽमृतः || 110 ||

व्यासः सर्वस्य सङ्क्शेपो विस्तरः पर्ययो नयः |
ऋतुः संवत्सरो मासः पक्शः सङ्ख्या समापनः || 111 ||

कलाकाष्ठा लवोमात्रा मुहूर्तोऽहः क्शपाः क्शणाः |
विश्वक्शेत्रं प्रजाबीजं लिङ्गमाद्यस्त्वनिन्दितः || 112 ||

सदसदः व्यक्तमव्यक्तं पिता माता पितामहः |
स्वर्गद्वारं प्रजाद्वारं मोक्शद्वारं त्रिविष्टपमः || 113 ||

निर्वाणं ह्लादनं चैव ब्रह्मलोकः परागतिः |
देवासुरविनिर्माता देवासुरपरायणः || 114 ||

देवासुरगुरुर्देवो देवासुरनमस्कृतः |
देवासुरमहामात्रो देवासुरगणाश्रयः || 115 ||

देवासुरगणाध्यक्शो देवासुरगणाग्रणीः |
देवातिदेवो देवर्षिर्देवासुरवरप्रदः || 116 ||

देवासुरेश्वरोदेवो देवासुरमहेश्वरः |
सर्वदेवमयोऽचिन्त्यो देवताऽऽत्माऽऽत्मसम्भवः || 117 ||

उद्भिदस्त्रिक्रमो वैद्यो विरजो विरजोऽम्बरः |
ईड्यो हस्ती सुरव्याघ्रो देवसिंहो नरर्षभः || 118 ||

विबुधाग्रवरः श्रेष्ठः सर्वदेवोत्तमोत्तमः |
प्रयुक्तः शोभनो वर्जैशानः प्रभुरव्ययः || 119 ||

गुरुः कान्तो निजः सर्गः पवित्रः सर्ववाहनः |
शृङ्गी शृङ्गप्रियो बभ्रू राजराजो निरामयः || 120 ||

अभिरामः सुरगणो विरामः सर्वसाधनः |
ललाटाक्शो विश्वदेहो हरिणो ब्रह्मवर्चसः || 121 ||

स्थावराणाम्पतिश्चैव नियमेन्द्रियवर्धनः |
सिद्धार्थः सर्वभूतार्थोऽचिन्त्यः सत्यव्रतः शुचिः || 122 ||

व्रताधिपः परं ब्रह्म मुक्तानां परमागतिः |
विमुक्तो मुक्ततेजाश्च श्रीमानः श्रीवर्धनो जगतः || 123 ||

श्रीमानः श्रीवर्धनो जगतः ॐ नम इति ||

इति श्री महाभारते अनुशासन पर्वे श्री शिव सहस्रनाम स्तोत्रम् सम्पूर्णम् ||

PDF, Full Site (with more options)