Back

गङ्गा स्तोत्रम्

देवि! सुरेश्वरि! भगवति! गङ्गे त्रिभुवनतारिणि तरलतरङ्गे |
शङ्करमौलिविहारिणि विमले मम मतिरास्तां तव पदकमले || 1 ||

भागीरथिसुखदायिनि मातस्तव जलमहिमा निगमे ख्यातः |
नाहं जाने तव महिमानं पाहि कृपामयि मामज्ञानम् || 2 ||

हरिपदपाद्यतरङ्गिणि गङ्गे हिमविधुमुक्ताधवलतरङ्गे |
दूरीकुरु मम दुष्कृतिभारं कुरु कृपया भवसागरपारम् || 3 ||

तव जलममलं येन निपीतं परमपदं खलु तेन गृहीतम् |
मातर्गङ्गे त्वयि यो भक्तः किल तं द्रष्टुं न यमः शक्तः || 4 ||

पतितोद्धारिणि जाह्नवि गङ्गे खण्डित गिरिवरमण्डित भङ्गे |
भीष्मजननि हे मुनिवरकन्ये पतितनिवारिणि त्रिभुवन धन्ये || 5 ||

कल्पलतामिव फलदां लोके प्रणमति यस्त्वां न पतति शोके |
पारावारविहारिणि गङ्गे विमुखयुवति कृततरलापाङ्गे || 6 ||

तव चेन्मातः स्रोतः स्नातः पुनरपि जठरे सोपि न जातः |
नरकनिवारिणि जाह्नवि गङ्गे कलुषविनाशिनि महिमोत्तुङ्गे || 7 ||

पुनरसदङ्गे पुण्यतरङ्गे जय जय जाह्नवि करुणापाङ्गे |
इन्द्रमुकुटमणिराजितचरणे सुखदे शुभदे भृत्यशरण्ये || 8 ||

रोगं शोकं तापं पापं हर मे भगवति कुमतिकलापम् |
त्रिभुवनसारे वसुधाहारे त्वमसि गतिर्मम खलु संसारे || 9 ||

अलकानन्दे परमानन्दे कुरु करुणामयि कातरवन्द्ये |
तव तटनिकटे यस्य निवासः खलु वैकुण्ठे तस्य निवासः || 10 ||

वरमिह नीरे कमठो मीनः किं वा तीरे शरटः क्षीणः |
अथवाश्वपचो मलिनो दीनस्तव न हि दूरे नृपतिकुलीनः || 11 ||

भो भुवनेश्वरि पुण्ये धन्ये देवि द्रवमयि मुनिवरकन्ये |
गङ्गास्तवमिमममलं नित्यं पठति नरो यः स जयति सत्यम् || 12 ||

येषां हृदये गङ्गा भक्तिस्तेषां भवति सदा सुखमुक्तिः |
मधुराकन्ता पञ्झटिकाभिः परमानन्दकलितललिताभिः || 13 ||

गङ्गास्तोत्रमिदं भवसारं वाञ्छितफलदं विमलं सारम् |
शङ्करसेवक शङ्कर रचितं पठति सुखीः तव इति च समाप्तः || 14 ||

PDF, Full Site (with more options)