Back

बुध कवचम्

अस्य श्रीबुधकवचस्तोत्रमन्त्रस्य, कश्यप ऋषिः,
अनुष्टुप् छन्दः, बुधो देवता, बुधप्रीत्यर्थं जपे विनियोगः |

अथ बुध कवचम्
बुधस्तु पुस्तकधरः कुङ्कुमस्य समद्युतिः |
पीताम्बरधरः पातु पीतमाल्यानुलेपनः || 1 ||

कटिं च पातु मे सौम्यः शिरोदेशं बुधस्तथा |
नेत्रे ज्ञानमयः पातु श्रोत्रे पातु निशाप्रियः || 2 ||

घाणं गन्धप्रियः पातु जिह्वां विद्याप्रदो मम |
कण्ठं पातु विधोः पुत्रो भुजौ पुस्तकभूषणः || 3 ||

वक्षः पातु वराङ्गश्च हृदयं रोहिणीसुतः |
नाभिं पातु सुराराध्यो मध्यं पातु खगेश्वरः || 4 ||

जानुनी रौहिणेयश्च पातु जङ्घ्??उखिलप्रदः |
पादौ मे बोधनः पातु पातु सौम्यो??उखिलं वपुः || 5 ||

अथ फलश्रुतिः
एतद्धि कवचं दिव्यं सर्वपापप्रणाशनम् |
सर्वरोगप्रशमनं सर्वदुःखनिवारणम् || 6 ||

आयुरारोग्यशुभदं पुत्रपौत्रप्रवर्धनम् |
यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् || 7 ||

|| इति श्रीब्रह्मवैवर्तपुराणे बुधकवचं सम्पूर्णम् ||

PDF, Full Site (with more options)