Back

बृहस्पति कवचम् (गुरु कवचम्)

अस्य श्रीबृहस्पति कवचमहा मन्त्रस्य, ईश्वर ऋषिः,
अनुष्टुप् छन्दः, बृहस्पतिर्देवता,
गं बीजं, श्रीं शक्तिः, क्लीं कीलकम्,
बृहस्पति प्रसाद सिद्ध्यर्थे जपे विनियोगः ||

ध्यानम्
अभीष्टफलदं वन्दे सर्वज्ञं सुरपूजितम् |
अक्षमालाधरं शान्तं प्रणमामि बृहस्पतिम् ||

अथ बृहस्पति कवचम्
बृहस्पतिः शिरः पातु ललाटं पातु मे गुरुः |
कर्णौ सुरगुरुः पातु नेत्रे मेभीष्टदायकः || 1 ||

जिह्वां पातु सुराचार्यः नासं मे वेदपारगः |
मुखं मे पातु सर्वज्ञः कण्ठं मे देवतागुरुः || 2 ||

भुजा वङ्गीरसः पातु करौ पातु शुभप्रदः |
स्तनौ मे पातु वागीशः कुक्षिं मे शुभलक्षणः || 3 ||

नाभिं देवगुरुः पातु मध्यं पातु सुखप्रदः |
कटिं पातु जगद्वन्द्यः ऊरू मे पातु वाक्पतिः || 4 ||

जानुजङ्घ् सुराचार्यः पादौ विश्वात्मकः सदा |
अन्यानि यानि चाङ्गानि रक्षेन्मे सर्वतो गुरुः || 5 ||

फलशृतिः
इत्येतत्कवचं दिव्यं त्रिसन्ध्यं यः पठेन्नरः |
सर्वान् कामानवाप्नोति सर्वत्र विजयी भवेत् ||

|| इति श्री बृहस्पति कवचम् ||

PDF, Full Site (with more options)