अन्नमय्य कीर्तन राधा माधव रति चरितमिति
राधामाधवरतिचरितमिति
बोधावहं श्रुतिभूषणं ||
गहने द्वावपि गत्वा गत्वा
रहसि रतिं प्रेरयति सति |
विहरतस्तदा विलसन्तौ
विहतगृहाशौ विवशौ तौ ||
लज्जाशभल विलासलीलया
कज्जलनयन विकारेण |
हृज्जाव्यवनहित हृदया रति
स्सज्जा सम्भ्रमचपला जाता ||
पुरतो यान्तं पुरुषं वकुलैः
कुरण्टकैर्वा कुटजैर्वा |
परमं प्रहरति पश्चाल्लग्ना-
गिरं विनासि विकिरति मुदं ||
हरि सुरभूरुह मारोहतीव
चरणेन कटिं संवेष्ट्य |
परिरञ्चण सम्पादितपुलकै
स्सुरुचिर्जाता सुमलतिकेव ||
विधुमुखदर्शन विकलितलज्जा-
त्वधरबिम्बफलमास्वाद्य |
मधुरोपायनमार्गेण कुचौ
निधिवद त्वा नित्यसुखमिता ||
सुरुचिरकेतक सुमदल नखरै-
र्वरचिबुकं सा परिवृत्य |
तरुणिमसिन्धौ तदीयदृग्जल-
चरयुगलं संसक्तं चकार ||
वचन विलासैर्वशीकृत तं
निचुलकुञ्ज मानितदेशे |
प्रचुरसैकते पल्लवशयने-
रचितरतिकला रागेणास ||
अभिनवकल्याणाञ्चितरूपा-
वभिनिवेश संयतचित्तौ |
बभूवतु स्तत्परौ वेङ्कट
विभुना सा तद्विधिना सतया ||
सच लज्जावीक्षणो भवति तं
कचभरां गन्धं घापयति |
नचलतिचेन्मानवती तथापि
कुचसङ्गादनुकूलयति ||
अवनतशिरसाप्यति सुभगं
विविधालापैर्विवशयति |
प्रविमल कररुहरचन विलासै
र्भुवनपति तं भूषयति ||
लतागृहमेलनं नवसै
कतवैभव सौख्यं दृष्ट्वा |
ततस्ततश्चरसौ केली-
व्रतचर्यां तां वाञ्छन्तौ |
वनकुसुम विशदवरवासनया-
घ्नसाररजोगन्धैश्च |
जनयति पवने सपदि विकारं-
वनिता पुरुषौ जनिताशौ ||
एवं विचरन् हेला विमुख-
श्रीवेङ्कटगिरि देवोयं |
पावनराधापरिरम्भसुख-
श्री वैभवसुस्थिरो भवति ||